॥अदृश्यत्वादिगुणको धर्मोक्तेः॥ मुण्डकोपनिषदि– ‘शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’। सर्वोपादानां किमिति प्रश्नार्थः। ‘तस्मै सहोवाच द्वे विद्ये वेदितव्ये इतिहस्म यद्ब्रह्मविदो वदन्ति’। अत्र प्राप्नुमित्यध्याहारः। अत्र यद्वस्तु प्राप्तं द्वे ज्ञाने उपादेये इतिह वेदाभिज्ञाः पराशरादयः ‘तत्प्राप्तिहेतुर्ज्ञानञ्च कर्मचोक्त महामुने। आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते॥ शब्दब्रह्मागममयं परंब्रह्म विवेकज’मिति वदन्ति, तस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवतीत्यन्वयः। अयं भावः–अत्र प्राप्तुमिति पदानध्याहारे यत्पदवैयर्थ्यम्, ‘कस्मिन्नु भगव’इति सर्वोपादाने पृष्टे विद्याद्वयकथनञ्च असङ्गतं स्यात्। अध्याहारेच सति यत्प्राप्तुमेतत्प्रेप्सुभिरित्यर्थस्संपन्नः। विद्याशब्दस्य ज्ञानपरत्वं ‘आगमोत्थं विवेकाच्चे’ति उपब्रह्मणानुसारेण मुख्ययावृत्त्याऽङ्गीकृतं" तदनुसारेणैव परोक्षत्वरूपेण द्विधाज्ञानमप्युपपन्नम्। नचैवमुत्तरसंदर्भविरोधः, ‘यया तदक्षरमधिगम्यत’ इति एकस्याएव विद्यायास्तत्प्राप्तिहेतुत्वकथनादिति वाच्यं। प्राप्तुमित्यध्याहृतपदसहितेन प्रथमश्रुतेन ‘द्वे विद्ये वेदितव्ये’ इत्यनेन विद्याद्वयस्यापि प्राप्तिहेतुत्वावगमात् अपरविद्यायाअपि ‘आगमोत्थ’मित्युपबृह्मणानुसारेण ऋग्वेदादिलक्षणागमजन्यपरोक्षज्ञानत्वसंभवात् नकोपि विरोधः। ततश्चायं निर्गलितोऽर्थः–यत्प्राप्तुं" यत्प्रेप्सुभिर्ब्रह्मविषये परोक्षापरोक्षविषये द्वे विद्ये द्वे ज्ञाने वेदितव्ये उपादेये इति, तस्माद्यथोक्तएवार्थः। अपरज्ञानस्वरूपमाह–‘तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदश्शिक्षाकल्पो व्याकरणंनिरुक्तं छन्दो ज्योतिषमितिहासं न्यायपुराणमीमांसाधर्मशास्त्राणीति’। षडंगोपेतसशिरस्कसोपबृह्मणवेद श्रवणादिजन्यज्ञानानन्तरभाविदर्शनसमानाकारं परज्ञानमित्यर्थः। अधिगम्यते आधिक्येन मम्यतइत्यर्थः। श्रीविष्णुपुराणे–‘द्वे विद्ये वेदितव्ये वै इति चाथर्वणीश्रुतिः’। परयात्वक्षरप्राप्ति’रिति अधिगम्यत इत्यस्य प्राप्त्यर्थ तया उपबृंहितत्वात्। तथाव्याख्यानेचापरोक्षत्वप्रतिपादकभाष्य विरोध इति चेत्तर्हि ‘इति हस्म यद्ब्रह्मविद’ इति पूर्ववाक्ये द्वयोरपि विद्ययोर्ब्रह्मप्राप्तिहेतुत्वस्य कथितत्वेन परविद्याया अव्यावर्तकत्वप्रसङ्गेनाध्याहृतसाक्षात्पददाने यया साक्षादक्षरमधिगम्यते प्राप्यतइत्यस्तु, ‘निचाय्य तं’ ‘तस्मिन् दृष्टे परावर’ इत्यादिभिरर्थसिद्धापरोक्ष्यप्रतिपादकं भाष्यमिति मन्तव्यम्। ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेते’त्युपसंहारगतब्रह्मविद्याशब्दस्य ब्रह्मविद्यां" वेदविद्यामित्युपनिषत्परतया व्याख्यातत्वात्, ‘प्रोवाच तां तत्वतो ब्रह्मविद्या’ मिति द्वितीयखणडे उपक्रमे च ‘ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहे’ त्युक्तिकर्मतया श्रूयमाणयोर्ब्रह्माविद्याशब्दयोरुपनिषद्ग्रंथरूपत्वस्यैवौचित्यात्, ‘तत्रापरा ऋग्वेदो यजुर्वेद’ इत्यत्र ऋग्वेदादिशब्दानां तज्जन्यज्ञानलक्षणाया अयुक्तत्वेन विद्याशब्दस्यैव ग्रंथपरत्वाश्रयणत्य युक्तत्वात्, परविद्याशब्देनापि साक्षाद्ब्रह्मप्रतिपादकोपनिषद्भाग एवाभिधातुमुचितः, नतु परोक्षापरोक्षज्ञानपरत्वमितिचेत्। यदि परविद्याशब्देन उपनिषद्ग्रंथसन्दर्भ विशेषः प्रतिपाद्यः, ऋग्वेदादिशब्देन मुख्यया वृत्त्या ऋग्वेदादय एव प्रतिपाद्याः, तर्हि ब्रह्मप्रतिपादकोपनिषदां ऋग्वेदादिबहिर्भावप्रसङ्गेन ‘यावेदबाह्याः" स्मृतय’ इत्युक्तरीत्या असदर्थत्वमेव स्यात्। ऋग्वेदादिशब्दानां मुख्यत्वमाश्रितवद्भिरपि परैरुपनिषदां" वेदबाह्यत्वप्रसह्गात्, परविद्याशब्दो ज्ञानवाचीति व्याख्यातम्। इयांस्तु विशेषः। परमते ‘द्वे विद्ये वेदितव्ये’ इत्यत्र सकृत्प्रयुक्त एव विद्याशब्दोऽसत्यपि साधारणे प्रवृत्तिनिमित्ते ऋग्वेदादिग्रन्थसन्दर्भलक्षणां अपरविद्यां ब्रह्मज्ञानलक्षणां परविद्याञ्च वक्तीति दोषोऽस्ति। अस्मन्मते सनास्ति। किञ्च परव्याख्याने ऋग्वेदादिवेद्यविलक्षणत्वाद्ब्रह्मणः ‘वेदैश्च सर्वैरहमेव वेद्य’ इति स्मृतिः पीड्येत। अतः ऋग्वेदादिजन्यज्ञानं ब्रह्मविषयकमेवेत्येवयुक्तम्। अतः परापरशब्दितापरोक्षपरोक्षज्ञानविषयत्वं" ब्रह्मणएवेति भाष्यकारीया रीतिरेव साधीयसी। ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुशश्रोत्रं तदपाणिपादं" नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनिं परिपश्यन्ति धीराः’। अद्रेश्यं अदृश्यम्। ज्ञानेन्द्रियाविषयः। अग्राह्यं=पाण्यादिकार्यहानोपादानाद्यविषयः। अगोत्रं=कुलरहितम्। अवर्णं=अपेतब्रह्मक्षत्रादिकम्। अचक्षुश्श्रोत्रं=ज्ञानेन्द्रियरहितम्। तत्=प्रसिद्धम्। अपामिपादं=कर्मेन्द्रियरहितं। नित्यं=कालापरिच्छिन्नम्। सर्वगतं=सर्वमन्तः प्रविश्यावस्थितम्। तत्र हेतुमाह-सुसूक्ष्ममिति। उक्तविशेषणविशिष्टं यत्तदव्ययं" ‘अथ परायया तदक्षर’मित्यत्र अक्षरशब्दनिर्दिष्टम् इत्यर्थः। धीराः=ब्रह्मज्ञानशालिनः। यत् सर्वभूतोपादानतया पश्यन्तीत्यर्थः। योनिशब्दस्य उपादानवचनत्वं ‘यथोर्णनाभिस्सृजते गृह्णतेचे’ति वाक्यशेषादवगम्यते। ननु भूतयोनिशब्दनिर्दिष्टं सर्वोपादानत्वं ब्रह्मणो न सम्भवति, घ़टादिषु मृदादेरेव उपादानत्वदर्शनेन ब्रह्मण उपादानत्वासम्भवादित्याशंक्य मृदादिष्वपि ब्रह्मण आत्मतया व्याप्तत्वात् मृदादिरूपस्य ब्रह्मण उपादानत्वे नानुपपत्तिरित्यभिप्रयन्नाह–‘यस्मात्परं नापरमस्ति’। अत्र परशब्दः उत्कृष्टवचनः। अपरशब्दः अन्यवचनः। यस्मादन्यदुत्कृष्टं नास्तीत्यर्थः। नात्र परापरयोर्द्वयोरपि निषेधः। नञः सकृच्छ्रुतस्यावृत्तिप्रसङ्गात्। ‘यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्। अणीयस्त्वं=सूक्ष्मत्वं। व्यापित्वमिति यावत्। ज्यायस्त्वं=सर्वेश्वरत्वं। सर्वव्यापित्वात्सर्वेश्वरत्वात् एतद्द्यतिरिक्तस्य कस्यापि अणीयस्त्वज्यायस्त्वे नास्तीत्यर्थः। कश्चिदिति लिङ्गव्यत्ययः छान्दसः। किञ्चिदित्यर्थः। ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः’। नन्तव्यवस्त्वभावात् वृक्ष इवाप्रणतस्त्वभावः। दिवि=परमपदे। आस्त इत्यर्थः। ‘तेनेदं पूर्णं पुरुषेण सर्वं’। नियमनार्थमन्तः" प्रविष्टेन सर्वमिदं" व्याप्तमित्यर्थः। अतश्च मृदादिशरीरकस्य ब्रह्मणः घटादावप्युपादानत्वसम्भवात् भूतयोनित्वं नानुपपन्नमिति भावः। लोके उपादानस्य स्वभिन्ननिमित्तकारणसापेक्षत्वदर्शनात् एकविज्ञानेन सर्वविज्ञानमनुपपन्नम्। किञ्च एकस्य ब्रह्मणः परस्परविलक्षणप्रपञ्चोपादानत्वमपि न संभवति। किञ्च घटाद्युत्पत्तौ उपादानमृत्पिणडादिषु पूर्वावस्थोपमर्दोदृश्यते। प्राकारोपादानभूतास्विष्टकासु चतुरश्रत्वादि लक्षणपूर्वाक्रतिरोधानं" दृश्यते। अक्षरशब्दितस्य निर्विकारस्य ब्रह्मणः पूर्वाकारोपमर्दतिरोधानयोरसम्भवेन उपादानत्वं न संभवतीत्याशंक्याह–‘यथोर्णनाभिस्सृजते गृह्णते च’। ‘यथोर्मनाभिर्हृदयादूर्णां सन्तत्यवक्त्रतः। तया विहृत्य भूयस्तां ग्रसत्येवं जनार्दनः’=इत्युक्तरीत्या यथालूताख्यकीट विशेषस्य स्वान्तस्थिततन्तुनिस्सरणतत्प्रवेशयोर्निरपेक्षकर्तृत्वम्, ‘यथापृथिव्यामोषधयस्सम्भवन्ति’। यथा एकस्याएव पृथिव्याः पूर्वावस्थोपमर्दतिरेधानाभावेऽप्यतिविलक्षणानन्तौषध्युपादानत्वं, ‘यथा सतः पुरुषात्केशलोमानि’। यथा जीवतः परस्परविलक्षणस्यापि चेतनस्याचेतनकेशलोमाद्युपादानत्वं, ‘तथाऽक्षरात्सम्भवतीह विश्वं’। एवमेव निमित्तान्तरनिरपेक्षादुपादेयविलक्षणान्निर्विकारात् परमात्मनः" परस्परविलक्षणं चेतनाचेतनात्मकं निखिलं जगत्सम्भवतीत्यर्थः। ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते–‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्रणो मनस्सत्यं लोकाः कर्मसुचामृतम्’॥ पूर्वं मन्त्रोक्ततपश्शब्दं" विवृणवन् भूतयोनिभूतस्य ब्रह्मणस्सृष्ट्यपकरणसार्वज्ञ्यं दर्शयति ‘यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं" तपः’। सर्वज्ञः=सर्वविषयकज्ञानवान्। सर्ववित्=तत्तद्वस्तुगतसर्वप्रकारज्ञानवान्। अस्मिन् मंत्रे भूतयोनेः स्वरूपतः प्रकारतश्च सर्वविषयकज्ञानवत्त्वं विधेयं, अप्राप्तत्वात्। ननु सर्वज्ञसर्वविच्छब्दयोरपौनरुक्त्याय सर्वज्ञशब्दस्य रूढिरभ्युपगन्तव्या, ‘कृशानुरेतास्सर्वज्ञ’ इति निखण्टुपाठेन सर्वज्ञशब्दस्य उमापतौ रूढत्वात्, तस्मात् सर्वविदो देवतान्तरान्निमित्तभूतात् ‘तपसा जीयते ब्रह्मे’ति पूर्वमंत्रनिर्दिष्टमेतद्ब्रह्म नाम रूपमन्नञ्च जायत इत्युपादानभृताद्ब्रह्मणो निमित्तभूतस्येश्वरस्य भेद एव प्रतीयत इति चेन्न। ‘यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तप’ इति तपसोपचीयमानतया पूर्वमंत्रनिर्दिष्टाक्षरब्रह्मणएव सर्वज्ञत्वसर्वविषयत्वयोस्सिद्द्या तयोर्भेदासम्भवात्, निमित्तोपादानभेदविवक्षायां एकविज्ञानेन सर्वविज्ञानाभावेन प्रतिपिपादयिषितप्रधानार्थविरोधप्रसङ्गात्। एतानि वाक्यान्यधिकृत्य चिन्त्यते। तथाहि– ‘अद्रेश्यमग्राह्य मित्यचेतनधर्माणां दृश्यत्वादीनां निषेधः तत्प्रसक्तिमति अचेतन एव अवस्थान्तरापन्ने युज्यते। नतु तत्प्रसक्तिशून्ये परमात्मनि। युवा बालस्तरुण इत्यादिनिषेधाः तत्प्रसक्तिमति अवस्थान्तरापन्ने मनुष्यादावेव दृष्टाः, नतु तत्प्रसक्तिशून्यकाष्ठादौ । किञ्च अदृश्यत्वादि विशिष्टस्य अक्षरस्य परमपुरुषत्वे ‘अक्षरात्परतः पर’ इति ततोपि परस्य पुरुषस्य श्रवणंनोपपद्यते। अतः ‘अक्षरातपरतः पर’ इति पुरुषगतपरत्वावधितया ‘अक्षरादिति निर्दिष्टस्य परमपुरुषत्वासंभवात् भूतयोन्यक्षरं प्रधानमेवष तत्परतया निर्दिश्यमानः पुरुषोऽपि पञ्चविशकएव, नतु परमपुरुषः, परमपुरुषस्य अक्षरपरभूतजीवादपि परत्वेनाव्यवहितपरत्वाभावात्। नच ‘अक्षरात्परतः पर’ इति पदयोर्वैयधिकरण्याश्रयणेन अक्षरादपि परभूताज्जीवात् परत्वमेव पुरुषस्य प्रतिपाद्यत इति वाच्यं। ‘अक्षरात्परतः’ इति पदयास्सामानाधिकरण्येन वृत्तिसम्भवे तयोर्वैयधिकरण्ये प्रमाणाभावात्। अतोऽत्र प्रकृतिजीवावेव प्रतिपाद्येते न परमात्मेति पूर्वपक्षे प्राप्तउच्यते। अदृश्यत्वादिगुणकोधर्मोक्तेः। अदृश्यत्वादि गुणकः परमात्मैव। तद्धर्माणां सर्वज्ञत्वादीनां" ‘यस्सर्वज्ञस्सर्वविदिति वाक्येनात्रप्रकरणे उक्तत्वात्॥॥विशेषणभेदव्यपदेशाभ्यां च नेतरौ॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिसिद्धेन चेतनाचेतनात्मकनिखिलप्रपञ्चोपादानत्वेन भूतयोन्यक्षरस्य विशेषणात्, ‘अक्षरात्परतः पर’ इति प्रकृतिजीवाभ्यां भेदव्यपदेश च्च भूतयोन्यक्षरं परमात्मैव। न च ‘अक्षरात्परत’इति पञ्चम्योस्सामानाधिकरण्यात् स्वकार्यवर्गापेक्षया परभूतादक्षरशब्दितादव्याकृतात्परत्वेन तद्भेदसिद्धावपि न जीवभेदस्सिद्द्यतीति वाच्यम्। असिद्धेः। नहि देवदत्तादुत्पन्नाद्भयमित्यत्र पञ्चम्योस्सामानाधिकरण्यप्रतीतिरस्ति, सामानाधिकरण्ये सतिवा परत्वावधिसमर्पकस्वकार्यवर्गवाचिपदाध्याहारप्रसङ््गात्, वैयधिकरण्यपक्षे अध्याहाराभावात्, जीवादपि वैलक्षण्यप्रतिपादकत्वेन सार्थक्यसम्भवे परतः पदस्य सामानाधिकरण्याश्रयणेन स्वकार्यवर्गपरत्वानुवादस्य निष्प्रयोजनस्य आश्रयणायोगात्। न च अक्षरात्परस्य पुरुषस्य परमात्मत्वे भूतयोन्यक्षरस्य कथं परमात्मत्वं सिद्ध्येदिति वाच्यम्। ‘अक्षरात्परतः पर’इति निर्दिष्टस्य ‘अथ पराययातदक्षरमधिगम्यते, तथाऽक्षरात्सम्भवतीह विश्वम्, तथाऽक्षराद्विविधास्सोम्यभावाः, येनाक्षरं पुरुषं वेद सन्य’मिति निर्दिष्टभूतयोन्यक्षरापेक्षया भिन्नत्वात्। न च तत्र प्रमाणाभावः– ‘दिव्योह्यमूर्तः पुरुषस्सबाह्यभ्यन्तरोह्यजः। अप्राणोह्यमनाश्शुभ्र’ इति पूर्वसंदर्भप्रतिपादितविशेषणविशिष्टं भूतयोन्यक्षरं स इति पदेन परामृश्य तस्याक्षरतः परतः" परत्वाभिधानात्। नहि तस्यैव ततः परत्वं संभवति, विरोधात्। अतः ‘अक्षरात्परतः पर’ इति वाक्यस्थमक्षरपदं" अव्याकृताभिधायि। नतु भूतयोन्यक्षराभिधायि॥॥रुपोपन्यासाच्च॥ ‘अग्निर्मुर्द्धाचक्षुषी चन्द्रसूर्या’विति भगवत्संबंधितया प्रसिद्धस्य रूपस्य भूतयोन्यक्षर संबंधितयोपन्यासाच्च ‘पुरुष एवेदं सर्वं, दिव्यो ह्यमूर्तः पुरुषः’ इति भगवदसाधारणपुरुषशब्दाभ्यासाच्च परमात्मैव प्रतिपाद्य इति सिद्धम्॥ ॥इति अदृश्यत्वादिगुणकाधिकरणम्॥