15 अन्तर्याम्यधिकरणम्

॥अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्॥ ‘स्थानादिव्यपदेशाच्चे’तिसूत्रे ‘यश्चक्षुषि तिष्ठन्नि’त्यादिना उक्तं चक्षुषि स्थितिनियमनादिकर्म परमात्मधर्मइति सिद्ध कृत्वा अक्षिपुरुषस्य परमात्मधर्मत्वं साधितम्। तदेवेदानीं समर्थ्यत इति संगतिः। अन्तर्यामिब्राह्मणमस्य विषयः। तत् संगृह्य लिख्यते – ‘अथहैनमहालकआरुणिः पप्रच्छ’। अरुणस्यापत्यमारुणिः" ‘याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतंजलस्य गृहेषु यज्ञमधीयानाः’ गृहाः पुंसिचभुम्न्येवे’ति एकस्मिन् बहुवचनं। यज्ञं कल्पसुत्रं। अवसाम-उषितवन्तः। ‘तस्यासीद्भार्या गन्धर्वमृहीता तमपृच्छामकोऽसीतिसोऽब्रवीत् कबंधआधर्वणिक इति’। नाम्ना कबंधः अथर्वपुत्रश्च। सोऽब्रवीत्पतंजलं काप्यं याज्ञिकांश्च’। याज्ञिकान्-कल्पसूत्राद्ध्योतृन्। ‘वेत्थनुत्वं काप्यतत्सूत्रं येनायञ्च लोकः परश्च लोकस्सर्वाणिचभूतानि संदृब्धानि भवन्ति’। तत्सूत्रं" तादृशसूत्रमात्रं। वेत्थ किमिति प्रश्नः। सन्दृब्धानि सूत्रेण पुष्पाणीव ग्रथनेन विष्टब्धानीत्यर्थः। काप्य आह। ‘नाहन्तद्भमबन्वेदेति’। पुनर्गंधर्वः पृच्छति। ‘सोऽब्रवीद्वेत्थनुत्वं काप्यतमन्तर्यामिणं" यइमं लोकं परञ्च लोकं सर्वाणिच भूतानि योऽन्तरोयमयतीति सोऽब्रवीत्पतंजलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तंचान्तर्यामिणामिति’। इति शब्दः प्रकारवचनः। तत्सूत्रं तंचान्तर्यामिणं" अस्मदवगतप्रकारेण योविद्यादित्यर्थः। ‘सब्रह्मवित्सलोकवित्सदेववित्सवेदवित्सभूतवित्सआत्मवित्ससर्ववित्’। एवं तेभ्यः काप्ययाज्ञिकेभ्यः गंधर्वोऽब्रवीदित्यर्थः। ‘यथा वेत्थ तथाब्रूहीति सहोवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेण अयंच लोकः परश्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवंति तस्माद्वै गौतमपुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याह्गानीति’। यस्मात्सर्वाणि वायुना ग्रथितानि तस्मादेव हेतोरुत्क्रान्तप्राणस्य पुरुषस्य अङ्गानि उत्सूत्रमाल्यानीव विस्रस्तानि भवंति। अतो वायुग्रथितं सर्वमितिभावः। भवत्वेतदेवं, इतरद्ब्रूहीत्याह। ‘एवमेवैतद्याज्ञवल्क्यान्तर्यामिणां" ब्रूहीति सहोवाच’। ‘यः पृथिव्यांतिष्ठन् पृथिव्या अन्तरोयं पृथिवी न वेद यस्य पृथिवी शरीरं यः" पृथिवीमन्तरोयमयति एषत आत्माऽन्तर्याम्यमृतः’। पृथिव्यां स्थितः" तदन्तर्गतः तच्छरीरकस्सन् योऽन्तः प्रविश्य प्रवृत्तिनिवृत्तिलक्षणनियमनं करोति एषोऽन्तर्यामी ते अमृतः आत्मा निरुपाधिकामृतत्वशाली आत्मेत्यर्थः। अत्र ‘तआत्मे’ति व्यधिकरणनिर्देशात् अन्तर्यामिणो जीवव्यतिरेकस्सिद्धः। आत्मशब्दस्य स्वरूपवचनत्वशह्कया जीवव्यावृत्तिर्नप्राप्नोतीति अमृतइत्युक्तं। निरूपाधिकामृतत्वशाली आत्मा परमात्मैव। नन्वत्र प्रश्नानुरूप्येण ‘इमंच लोकं सर्वाणि च भूतानि योऽन्तरोयमयति ए,त आत्माऽन्तर्यामी’ त्येकेनैव निर्देशेन सर्वान्तर्यामिणः उद्दालकं प्रति ते आत्मेति आत्मत्वप्रतिपादनसंभवात् ‘यः पृथिव्यांतिष्ठन् योऽप्सुतिष्ठ’न्नित्यादिपर्यायोपदेशबाहुल्यं" किमर्थमिति चेन्न। एकैकवस्तुष्वपि परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन तत्सार्थक्यात्। परिपूर्णत्वञ्च अणुमात्रेऽपि स्थितस्य निरवधिकषाड्गुण्यविशिष्टस्वप्रतिपत्तियोग्यत्वं। ननु ‘सर्वाणि भूतानि योऽन्तरोयमयति तम्मे ब्रूही’ति सर्वभूतस्यान्तर्यामी एकोऽस्ति सवक्तव्या इति पृष्टवन्तं प्रति पृथिवीजलाद्यन्तर्याम्येव ते अन्तर्यामीति पृथिवीजलान्तर्यामिणः उद्दालकान्तर्यामिणश्चाभेदबोधनमसंगतम्, अन्तर्याम्यैक्यस्य प्रागेवनिश्चितत्वात् ‘सतआत्मे’त्यत्र आत्मब्दो नान्तर्यामिवचनः, अपि तु स्वरूपवचन इत्येव युक्तमिति चेन्न। आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थकतयाऽप्युपपत्तेः। ‘पतंविश्वस्ये’ त्यादिवाक्यैः विश्वशेषिणः कस्यचिदवगतत्वात् तेन वाक्येन प्रतिपन्नस्ते आत्मा ते शेषी पृथिव्यादीनामन्तर्यामीति प्रघट्टर्थः। एवं योऽग्नावप्सु अन्तरिक्षे वायौ दिवि आदित्ये दिक्षुचन्द्रतारके आकाशे तमसि तिष्ठन्नेषतआत्मेत्यधिदैवतं। सर्वेषु भूतेषु तिष्ठन्नधिभूतं। यः प्राणे वाचि चक्षुषि श्रोत्रे मनसि त्वचि विज्ञाने’रेतासि तिष्ठन् एषतइत्यध्यात्मं। उपदिष्टः अन्तर्यामीति शेषः। अत्र विज्ञनशब्दः जीवात्मपरः। समानप्रकरणे माध्यन्दिनशाखायां" विज्ञानशब्दस्थाने ‘आत्मनितिष्ठ’न्नित्यात्मशब्देन निर्देशात्। ‘अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतोमन्ता अविज्ञातोविज्ञाता’। अत्र द्रष्टृत्वं=रूपसाक्षात्कारवत्वम्। न चक्षुर्जन्यज्ञानवत्वम्। तस्य परमात्न्यसम्भवात्। श्रोतृत्वं=शब्दसाक्षात्कारवत्वम्। मन्तृत्वं=मन्तव्यविषयसाक्षात्कर्तृत्वम्। विज्ञातृत्वं=विज्ञानशब्दितनिदिध्यासनविषयसाक्षात्कर्तृत्वम्। यद्यपि द्रष्टुत्वादिकं जीवस्याप्यस्ति, तथाऽपि अदृष्टत्वादिना विशेषितं द्रष्टृत्वं तस्य नास्तीति भावः। अत्र च द्रष्टृत्वादावुपाध्यनुक्तेः" निरुपाधिकद्रष्टृत्वमर्थसिद्धम्। ‘नान्योऽतोऽस्ति द्रष्टानान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति विज्ञाता एषत आत्माऽन्तर्याम्यमृतः। अतोऽन्यदार्तम्। ततोहोद्दालक आरुणिरुपरराम’। अन्यशब्दादेतः। अतोऽन्यदार्तम्। ततोहोद्दालक आरुणिरुपरराम’। अन्यशब्दादेस्सर्वनाम्नः पूर्वनिर्दिष्टसदृशान्यपरत्वस्य ‘समानेष्वपूर्वत्वा’दिति साप्तमिकाधिकरणे व्यवस्थितत्वात् अत्राप्यन्यशब्दन पूर्वनिर्दिष्टादृष्टत्वादिविशेषितनिरूपाधिकसाक्षात्कारादिमतः" निषेध उपपद्यतेष जीवस्य करणायत्तज्ञानत्वात्, अन्यसतादृशो द्रष्टा नास्तीत्यर्थः। एवमुत्तरत्रापि। ‘यः पृथिव्यां तिष्ठन्नि’त्यारभ्य अधिदैवतमधिलोकमधिवेदमधियज्ञमदिभूतमध्यात्मञ्चान्तरवस्थितोऽयमन्तर्यामी जीवएव स्यात्। वाक्यशेषे ‘द्रष्टा श्रोते’ति करणायत्तज्ञानवत्त्वोक्तेः। न च दर्शनश्रवणादिशब्दाः" रूपशब्दादिसाक्षात्कारपराः, तादृशसाक्षात्कारवत्त्वञ्च परमात्मनोऽपि सम्भवतीति वाच्यम्। तथा हि सति ‘नान्योऽतोऽस्ति द्रष्टे’ति तदरिक्तद्रष्टृनिषेधानुपपत्तेः, जीवस्यैव रूप्दिसाक्षात्कारवतस्सत्वात्। द्रष्ट्रादिशब्दानां करणायत्तज्ञानवत्त्वार्थकतया जीवपरत्वे तु जीवव्यतिरिक्तस्य करणायत्तज्ञानवतो निषेधउपपद्यते, ईश्वरस्य करणायत्तज्ञानवत्वाभावादिति शङ्कायामाह– अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्॥ अधिदैवादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव। सर्वभूतान्तरत्वादेः परमात्मधर्मस्य श्रवणात्॥॥न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च॥ यथा स्मार्तं प्रधानं ‘अदृष्टो द्रष्टे’ति श्रुतस्यादृष्टत्वविशिष्टे द्रष्टृत्वस्य सर्वान्तर्यामित्वामृतत्वादेश्च तदसम्भावितधर्मस्य श्रवणान्नप्रतिपाद्यम्, एवं न जीवोऽत्र प्रतिपाद्यः॥॥उभयेऽपि हि भेदेनैनमधीयते॥ काण्वा माध्यन्दिनाश्चोभयेऽपि अन्तर्यामिणं जीवभिन्नत्वेनामनन्ति। माध्यन्दिनाहि ‘य आत्मनि तिष्ठन्नात्मनोऽन्तर’ इति, काण्वाश्चात्मपदस्थाने विज्ञानपदमधीयते, अतो न जीवोऽन्तर्यामीति नात्र शङ्कावकाशः॥ इति अन्तर्याम्यधिकरणम्॥