14 अन्तराधिकरणम्

॥अन्तर उपपत्तेः॥ एतदधिकरणचिन्तोपयुक्तं प्रकरणमेव लिख्यते– ‘अथहाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलन्नः पर्यचारीत् हन्तास्मै ब्रह्मावोचामे’ति। स्पष्टोऽर्थः। ‘तस्मैहोचुः प्राणोब्रह्म कं ब्रह्म खं ब्रह्मेति सहोवाच विजानाम्यहं यत्प्राणो ब्रह्म कञ्चतु खञ्च न विजानामीति’॥ अस्यायमभिप्रायः। मुमुक्षोर्मोक्षोपदेशाय प्रवृत्तैरग्निभिः ब्रह्मैवोपास्यमुपदिष्टं। तत्र प्रणादिसमानाधिकरणं ब्रह्म निर्दिष्टम्। तत्र जगत्प्रामणयितृत्वयोगेन प्रणशब्दितत्वं ब्रह्मण उपपन्नम्। कं ब्रह्म खं ब्रह्मेत्युक्तं तु न जानामि। किं वैषयिकसुखशरीकमात्मशरीरकं ब्रह्म, उत तयोरन्योन्यविशेषणविशेष्यभावेन अपरिच्छिन्नसुखं ब्रह्मेत्यनयोर्मध्ये क्वार्थे तात्पर्यामिति न जान इत्यर्थः। ‘तेहोचुः यद्वावकं तदेव खं यदेव खं तदेव कमिति’। विशेषणविशेष्यभावएवाभिमतइत्यर्थः। ननु पुनरुक्तिव्यर्थेतिचेन्न। अपरिच्छिन्नसुखत्वेन सुखरूपापरिच्छिन्नत्वेन च उपासनार्थत्वात्। ‘प्राणञ्चास्मै तदाकाशं चोचुः’। प्राणत्वविशिष्टं यद्ब्रह्म तदेव परिच्छिन्नसुखरूपंचेत्यग्नय उक्तवन्तइत्यर्थः। ‘अथहैनं गार्हपत्योऽनुशशास’। सकलजगत्प्राणयितृ अपरिच्छिन्नसुखरूपं च ब्रह्मेत्युपदिश्य एवमुपदिष्टमेनमुपकोसलं" गार्हपत्योऽग्निः स्वविद्यां वक्ष्यमाणामुपदिदेशेत्याह। अथशब्दः प्रकृतविषयत्वद्योतनार्थः। ‘अथहैन’मिति शब्दाभ्यां वक्ष्यमाणाग्निविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वमुपदिश्यते। अनुशासनप्रकारमेवाह– ‘पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति’। पृथिव्यग्न्यन्नादित्यलक्षणानांचतुर्णां" रूपाणाम्मध्ये अग्न्यादित्यरूपयोः पक्तृत्वप्रकाशकत्वरूपधर्मसम्बन्धादैक्यम्। पृथिव्यन्नयोस्तु भोज्यत्वादिनैक्यम्। अग्नेरादित्येन यादृशमैक्यं न तादृशं पृथिव्यन्नाभ्यां, तस्मादादित्यएवाहमस्मीत्यग्निरुवाचेत्यर्थः। ‘सय एतमेवं विद्वानुपास्ते अपहते पापकृत्याम्’। ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति। ‘लोकीभवति’। ब्रह्म प्राप्नोतीत्यर्थः। यद्यपि ब्रह्मप्राप्तिविरोधिनिवृत्तेः ब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव, तथाऽपि अङ्गिफलेन अङ्गानि स्तूयन्त इति द्रष्टव्यम्। ‘सर्वामायुरेति’। ब्रह्मोपासनप्राप्तयै यावदायुरपेक्षितं" तत्सर्वमेवैति। ‘ज्योक्जीवति’। व्याध्यादिभिरनुपहतस्सन्नुज्वलो जीवति। ‘नास्यावरपुरुषाः क्षीयन्ते’। अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयश्च ब्रह्मविदएव भवन्ति। ‘उपवयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुस्मिंश्च य एतमेवं विद्वानुपास्ते’। वयं=अग्नयः। उपभुञ्चामः=विघ्नेभ्यः प्रतिपालयाम इत्यर्थः। एवमुत्तरत्रापि द्रष्टव्यम्। ‘अथहैनमन्वाहार्यपचनोऽनुशशास’। अन्वाहार्यपचनः=दक्षिणाग्निः। ‘आपोदिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्ते’इत्यादि। पूर्ववत्। ‘अथहैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवं विद्वा’नित्यादि। पूर्ववत्। ‘ते होचुरुपकोसलैषा सोम्य ते अस्मद्विद्याचात्मविद्या च’। प्रत्ये कमनशासनानन्तरं मिलित्वा तेऽब्रुवन्। अस्मद्विद्या=अग्निविद्या। आत्मविद्या = परमात्मविद्येत्यर्थः। चशब्दोऽङ्गिविद्ययोरुपदेशक्रियायां समुच्चयद्योतनार्थः। न तु समप्रधान्यद्योतनार्थः। ‘आचार्यस्तु ते गतिं वक्ते’त्येवं वदतामग्नीनामयमभिप्रायः। हे उपकोसल ब्रह्मविद्यामनुपदिश्य प्रोषिते गुरौ तदलाभादनाश्वासं त्वामुज्जीवयितुं ब्रह्मस्वरूपमात्रं तदङ्गभूतामग्निविद्यां च उपादिक्षाम, आचार्याद्धैव विदिताया विद्यायास्साधिष्ठत्वात् आचार्यएव संयद्वामत्वादिगुणकं ब्रह्म अक्षिरूपोपासनस्थानं अर्चिरादिकांच गतिमुपदिशत्विति। ततश्च ‘गतिं वक्ते’त्यस्य अवशिष्टं वक्तेत्यर्थः, न तु गतिमात्रमिति द्रष्टव्यम्। ‘आजगाम हांस्याचार्यस्तमाचार्योऽभ्युवाद उपकोसलाइति भगव इतिह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति कोनु त्वाऽनुशशासेति’। स्पष्टोऽर्थः। एवमुक्त आह– ‘इमे नूनमीदृशा अन्यादृशा इति हाग्नीभ्यूदे’। इदानीं ईदृशज्वलनाकाराः पूर्वमन्याकारास्सन्तइमे अग्नय उपदिष्टवन्तइत्युक्तवानित्यर्थः। आचार्य आह– ‘किन्तु सोम्य किल तेऽवोचन्’। इतर आह– ‘इदमितिह प्रतिजज्ञे’। एतावदक्तमिति प्रतिज्ञातवानित्यर्थः। इतर आह– ‘लोकान्वाव किल सोम्य तेऽवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत’इति। हे सोम्य ते अग्नयः पृथिव्यादीन् लोकानेव तवोक्तवन्तः, न तु ज्ञातव्यं ब्रह्म कार्त्स्न्येन, अहं तु ते पद्मपत्रजलाश्लेषतुल्यसर्वपापाश्लेषापादकविद्याविषयभूतं" ब्रह्म वक्ष्यामि, यदि शुश्रूषस इत्यर्थः। पापाश्लेषो नाम पापहेतुभूतकर्माचरणेऽपि पापोत्पत्तिबन्धकशक्तिमत्वम्। इदं च प्रामादिकपापविषयं। पापशब्दाश्च सुकृतदुष्कृतसाधारणः। इतर आह– ‘ब्रधीतु मे भगवानिति तस्मै होवाच य एषोऽक्ष्णि पुरुषो दृश्यत एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति’। योगिभिर्योऽक्ष्यन्तर्वृत्तिपुरुषो दृश्यते अयमेवात्मा नियन्तेत्यर्थः। अमृतत्वं=निरतिशयभोग्यत्वम्। अभयत्वं=दुःखासम्भिन्नत्वं, ब्रह्मत्वं" = निरतिशयबृहत्त्वं। ‘एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति–य एवं वेद’। संयन्ति सङ्गतानि वामानि वननीयानि यस्मिन् स संयद्वामः। सर्वकल्याणगुआश्रयत्वं सत्यसङ्कल्पत्वं" वा संयद्वामत्वम्। तदुपासकस्यापि तत्क्रतुन्यायत्तद्भवतीत्यर्थः। ‘एष उएव वामनीरेष हि सर्वाणि वामानि नयति - य एवं वेद’। वामनीत्वं" =स्वाश्रितेषु शोभनधीप्रापकत्वम्। तत्क्रतुन्यायेन तद्गुणोपासकस्यापि तद्भवतीत्यर्थः। ‘एषउ एव भामनीरेषहि सर्वेषु लोकेषु भाति - य एवं वेद’। भामनीत्वं = सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वम्। उपासकस्यापि तद्भवत्यपेक्षायां सत्यामित्यर्थः। अत्र संयद्वामत्ववामनीत्वभामनीत्वेषु फलकथनं फलरूपतात्पर्यलिङ्गोपन्यासेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थं, न तु स्तुतिरूपमिति प्रदर्शनार्थम्। ‘अथ यदुचैवास्मिन् शव्यं" कुर्वन्ति यदुचन अर्चिषमेवाभिसम्भवन्ति’। अथशब्दः प्रकृतविषयत्वद्योतनार्थः। अस्मिन्=ब्रह्मविदि। सामान्याभिप्रयत्वादेकवचनस्य उत्तरत्र ‘अभिसम्भवन्ती’ति बहुवचनेन न विरोधः। यत=यदि। शव्यं=दहनादिकर्म। अर्चिरादिशब्दाश्च तदभिमानिदेवतापरा इत्यन्यत्र स्थितम्। अत्र केचित्-उपकोसलविद्याङ्गभूताग्निविद्यावैभवेन शवदहनादिवैगण्येऽपि उपकोसलविद्यानिष्ठस्य न क्षतिः। विद्यान्तरनिष्ठस्य दहनादिवैगुण्ये किंचिद्वैगुण्यमस्तीति वदन्ति। तन्न। ‘न कर्मणा लिप्यत’ इति श्रुतिसिद्धार्थानुवादित्वादस्य एतादृशार्थप्रत्यायकत्वाभावात्, अतो ‘यदुचैवास्मि’न्नित्येतत् सर्वब्रह्मवित्साधानणमेव। ‘अर्चिषोऽहरह्न’ इत्यादि। अत्र शंक्यते –‘य एषोऽक्ष्णि पुरुषो दृश्यत’ इति निर्दिश्यमानः प्रतिबिंबात्मा। प्रसिद्धवन्निर्देशात् ‘दृश्यत’ इत्यपरोक्षाभिधानाच्च, जीवोवा स्यात्। चक्षुषि तस्य विशेषेण सन्निधानात् प्रसिद्धिरुपपद्यते। उन्मीसितचक्षुरुद्वीक्षणेन जीवस्य स्थितिगतिनिश्चयात् दृश्यतइत्युक्तिरुपपद्यते। न तु परमात्मा। तस्यानाधारत्वाददृश्यत्वाच्च। न च आत्मत्वाभयत्वब्रह्मत्वादिविरोधः। एष आत्मेति होवाचेति इतिकरणेन मनोब्रह्मेत्युपासीतेतिवदर्थाविवक्षाया दर्शितत्वादिति प्राप्त उच्यते - अक्ष्यन्तरः परमात्मा। तत्रैव आत्मत्वामृतत्वसंयद्वामत्ववामनीत्वादिधर्माणामुपपत्तेः। न च इतिकरणेन तेषामविवक्षा आशंक्या। यत्रोच्यमानस्यार्थस्य अनुक्तार्थवचनसम्बन्धः प्रतिपाद्यः, तत्रेतिशब्दोनार्थविवक्षां वारयति ‘इतिहस्मोपाध्यायः कथयती’ति। तस्मात् इह अमृतत्वादिना आचार्यवचनसम्बन्धस्य प्रतिपाद्यत्वात् इतिशब्दो मनोब्रह्मेतिवन्नार्थ विवक्षावारकः। तथा च स्वाभाविकामृतत्वादीनां जीवे असम्भवात् तथा प्रतिबिम्बे ‘रश्मिभिरेषोऽस्मिन् प्रतिष्ठित’ इति चक्षुः प्रतिष्ठितत्वेन श्रुति प्रसिद्धादित्यरूपदेवताविशेषे चासम्भवात् परमात्मैव अक्ष्यन्तरवर्ती॥यदुक्तं निराधारस्य परमात्मनश्चक्षुरवस्थितिर्नसम्भवतीति तत्राह– ॥स्थानादिव्यपदेशाच्च॥ ‘यश्चाक्षुषि तिष्ठन्नि’ त्यादावन्तर्यामिब्राह्मणेषु चक्षुषि स्थितिनियमनादेः परमात्मधर्मतया श्रवणात् योगिभिर्दृश्यतइत्युपपत्तेश्च अक्ष्यन्तरवर्तिनः परमात्मत्वेच नानुपपत्तिः॥॥सुस्वविशिष्टाभिधानादेवच॥ ‘कं ब्रह्म खं ब्रह्मे’ति अपरिच्छिन्नत्वविशिष्टसुखरूपस्याग्निभिरुपदिष्टस्य ब्रह्मणएव ‘यएषोऽक्ष्णिपुरुषोदृश्यत’ इतिवाक्ये प्रकृतपरामर्शिना यएष इति सर्वनाम्नाऽभिधीयमानत्वाच्च। न च तत् ब्रह्म अग्निविद्ययाअपि ब्रह्मविद्यांगत्वेन नहिस्वांगमिति न्यायेन अव्यवधायकत्वात्। तदङ्गत्वञ्च तत्प्रकरणमध्यपातात्। ‘अथहैनं गार्हपत्योऽनुशशासे’ति ब्रह्मविद्याधिकृतस्यैव अग्निविद्योपदेशप्रतिपादनात् ब्रह्मविद्योपयुक्तफलव्यतिरिक्तफलान्तराश्रवणाच्च॥ननु ‘कं ब्रह्म खं ब्रह्मे’ति वाक्येन अपरिच्छिन्नसुखरूपं ब्रह्मेति नोपदिश्यते। अपितु ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे’ति त्रिभिर्वाक्यैः मुख्यप्राणे वैषयिकसुखे आकाशेच ब्रह्मदृष्टिर्विधीयते। तत्राह– ॥अत एव सब्रह्मा॥ अतएव अपरिच्छिन्नसुखस्य ब्रह्मत्वाभिधानादेव अपरिच्छिन्नरूपं ब्रह्मैव। नाब्रह्मणि ब्रह्मदृष्टिः। अब्रह्मभूतेषु मुख्यप्राणलौकिकसुखाकाशेषु च ब्रह्मदृष्टिविधिरूपत्वे तत्रानुपपत्तेरेवाभावेन ‘विजानाम्यहं" यत्प्राणो ब्रह्म कञ्चतु खञ्च नविजानामी’ति प्रश्नस्य, ‘यद्वावकं तदेवखं यदेवखंतदेवक’मिति प्रतिवचनस्यच, असंगतस्वापत्तेः। अनुपपत्तिप्रकारश्च एतद्वाक्यव्याख्यानावसरे वर्णितः। अतः परब्रह्म॥॥श्रुतोपनिषत्कगत्यभिधानाच्च॥ श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्य अनुसंधेयतया श्रुत्यन्तरप्रतिपाद्यमाना आर्चिरादिका या गतिः तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीं उपकोसलायाक्षिपुरुषं श्रुतवते ‘अथयदुचैवास्मिन् शव्यं कुर्वंति यदुचने’त्यादिना आचार्यउपदिशति। अतोऽप्ययं परमपुरुषः परमात्मा॥॥अनवस्थितेरसंभवाच्च नेतरः॥ प्रतिबिंबादीनां नियमेन अक्षणि अनवस्थानात्, अमृतत्वादीनांच निरुपाधिकानां तेष्वसंभवात्, न परमात्मेतरच्छायादिरक्षिपुरुषोभवितुमर्हतीति स्थितम्॥ ॥इति अन्तराधिकरणम्॥