13 अत्त्रधिकरणम्

॥अत्ता चराचरग्रहणात्॥ कठवल्लीष्वाम्नायते–‘यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदनः। मृत्युर्यस्योपसेचन् कइत्था वेद यत्र सः’। ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदं जगत् यस्यौदनो भवति। विनाश्यं" भवतीत्यर्थः। यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति तत्प्रकारं इदमित्थमिति को वेदेत्यर्थः। ननु ब्रह्मक्षत्रशब्देन कृत्स्नचराचरग्रहणे किं बीजमितिचेत्, उच्यते– ब्रह्म क्षत्रञ्च ओदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयोः कञ्चित्प्रति ओदनशब्दमुख्यार्थत्वासम्भवात् ओदनशब्देन भोज्यत्वं" भोग्यत्वं वा विनाश्यत्वं वा लक्षणीयम्। न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्रसंहर्ता वा क्वचिज्जीवो वा परमात्मा वाऽस्ति। न च अन्तरादित्यविद्यायां ‘येचामुष्मात्पराञ्चो लोकास्तेषाञ्चेष्टे’ इति सर्वलोकेश्वरे परमात्मनि उपासनार्थं लोकविशिषेशितृत्वश्रवणवत् सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणं उपासनार्थमुपदिश्यतामिति वाच्यम्। तद्वदस्योपासनाप्रकरणत्वाभावात्। अतः ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तमिति द्रष्टव्यम्। ननु एवमपि ओदनशब्देव किमिति विनाश्यत्वं लक्षणीयम्। गौणत्वमपि शब्दस्य साधारणगुणमपहाय असाधारणगुणेनैव निर्वाह्यम्। न हि ‘अग्निर्माणवक’ इत्यत्र अग्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति। अत एव च प्रोद्गातृशब्दः सर्वर्त्विक्साधारणगुणं विहाय उद्गातृगणमात्रलक्षकः पूर्वतंत्रे निर्णीतः, तद्वदिहापि ब्रह्मक्षत्रयोः ओदनशब्दमुख्यार्थत्वासम्भवेऽपि भोज्यतवभोग्यत्वरूपान्तरङ्गाकारलक्षकत्वमेव युक्तम्, नत्वत्यन्तबहिरङ्गस्य विनाश्यत्वाकारस्य। येन निखिलचराचरसंहर्ता परमात्माऽत्र वाक्ये प्रतीयते इति चेत् उच्यते– यद्यपि विनाश्यत्वं साधारणाकारः, तथाऽपि ‘मृत्युर्यस्योपसेचन’मिति वाक्यशेषानुरोधात् साधारणोऽपि गौण्यावृत्त्या लक्षयितुमुचितः। न च उपसेचनशब्दस्य ओदनशब्दस्वारस्यानुरोधेन असाधारणाकाररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपदं अबाधकस्वाभिप्रायेण कथञ्चिन्नीयम्, अतश्च योब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽस्मिन् मंत्रे प्रतिपाद्यतामिति वाच्यम्। उपसेचनत्वेन रूपितस्य मृत्योः" ओदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत् प्रतीतस्य सम्बन्धस्य सर्वात्मना बाधप्रसङ्गात्। न हि यस्य ब्रह्मक्षत्रं भोग्यं यस्य च मृत्युरबाधक इत्युक्ते मृत्योः ब्रह्मक्षत्रस्य च सम्बन्धः" प्रतीयते। अतः उपसेचनशब्दसय् ओदनशब्दापेक्षया जघन्यत्वेऽपि अबाधकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सति अन्यादनहेतुत्वरूपासाधारणाकारएव ग्राह्यः। अतश्च एकवाक्यान्तर्गतचरमश्रुतोपसेचनपदानुसारेण ओदनशब्देनापि विनाश्यत्वमेव लक्षणीयम्। स्वबुद्ध्युपस्थापनीयविशेषाकाररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरेपस्थापितविशेषाकाररूपगुण ग्रहणस्यैव बुद्धिलाघवेन एकवाक्यतासामर्थ्यानुरोधेन च न्याय्यत्वादिति अन्त्राधिकरणे निर्णीतत्वादित्यलं पल्लवितेन॥ ‘क इत्थावेद यत्र स’ इत्यस्यार्थस्य दुर्बोधत्वेन न वयं तदुपासने शक्ता इति मन्यमानं प्रति उपास्योपासकयोरेकगुहानुप्रवेशेन परमात्मनश्च सूपास्यत्वं द्वाभ्यां मंत्राभ्यां दर्शयति–‘ऋतां" पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्ध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’। सत्यपदवाच्यावश्यंभावि कर्मफलमनुभवन्तौ सुकृतसाध्यलोकवार्तिनौ ह्युदयगुहां" प्रविष्टौ परार्द्ध्ये उत्कृष्टे परमाकाशे वर्तमानौ अज्ञसर्वज्ञरूपतया छायातपशब्दनिर्दिष्टौ पञ्चाग्निशुश्रूषापरिशुद्धान्तः" करणाः त्रिणाचिकेता ब्रह्मवेदो वदन्तीत्यर्थः। अत्र वाक्ये छायाशब्देन जीवं निर्दिशतोऽयमभिप्रायः। उपास्योपासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्तृतया प्राप्यस्यच तत्प्राप्तिसाधनत्वेन निरूपिते शरीरे अवस्थानं न युक्तम्। न हि रथेन प्राप्तव्योऽर्थो रथस्थो भवतीति शङ्का न कार्या। प्राप्यस्य परमात्मनस्तत्रावस्थितत्वेऽपि जीवस्य ‘पराभिध्यानात्तु तिरोहित’ मित्युक्तरीत्या परमात्सङ्कल्परूपाविद्यावेष्टिततया तदनुभवलक्षमतत्प्राप्तेरभावेन प्राप्तृप्राप्ययोः रथत्वरूपितशरीरान्तर्वर्ति एकगुहाचर्तित्वेनानुपपत्तिः। तत्र ‘यस्य ब्रह्म च क्षत्रञ्चे’ति वाक्ये ब्रह्मक्षत्रिययोरेव ओदनत्वरूपणेन भोज्यत्वस्य वा भोग्यत्वस्य वा प्रतीतेः तत्प्रतिसम्बन्धियस्येतिषष्ठ्यन्तयच्छब्दनिर्दिष्टो भोक्ता जीवएव स्यात्, परमात्मनो भोक्तृत्वासम्भवादिति पूर्वपक्षे प्राप्ते ‘अत्ताचराचरग्रहणा’ दित्यादिभिश्चातुर्भिस्सूत्रैस्सिद्धान्तः" कृतः। अत्ता चराचरग्रहणात्॥ ‘उच्ये भवत ओदन’ इति ओदनप्रतिसम्बन्धितया प्रतीयमानः अत्ता परमात्मैव। ब्रह्मक्षत्रशब्दगृहीतनिखिलचराचरसंहर्तृत्वस्य अस्मिन् मंत्रे प्रतिपादनात्॥॥प्रकरणाच्च॥ प्रकरणञ्चेदं परस्यैव ब्रह्मणः। ‘महान्तं विभुमात्मान’ मिति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाच्च॥ननु ‘ऋतंपिबन्ता’ वित्युत्तरमंत्रे कर्मफलभोगान्वयिनोरेव प्रतिपातनात् परमात्मनश्च जीववत् कर्तृत्वेन वा अन्तः करणवत् करणत्वेन वा अन्वयासम्भवात्, परमात्मप्रकरणमध्यगतत्वन्नास्तीति आशङ्कायामाह– ॥गुहांप्रविष्टावात्मानौहि तद्दर्शनात्॥ गुहां प्रविष्टौ जीवपरमात्मानावेव। तयोरेव अस्मिन्प्रकरणे गुहाप्रवेशदर्शनात्। ‘तं दुर्दर्शं गूढमनुप्रविष्टं" गुहाहित’मिति परमात्मनो गुहाप्रवेशश्श्रूयते। ‘याप्राणेनसंभवत्यदितिर्देवतामयी। गुहांप्रविश्य तिष्टन्ती’ति जीवस्यापि गुहाप्रवेशो दृश्यते। अतः द्वयोरपि गुहाप्रवेशदर्शनात् तयोरेव पिबदपिबतोः" छत्रिन्यायेन ‘ऋतं पिबन्ता’विति निर्देशस्य संभवात् ‘ऋतं पिबन्ता’विति मन्त्रे नपरमात्मप्रकरणविच्छेदश्शक्यशंकः॥॥विशेषणाच्च॥ अस्मिन् प्रकरणे ‘ब्रह्मजज्ञंदेवमीड्यंविदित्वे’ति जीवपरयोः उपास्यत्वोपासकत्वादिना विशेषितत्वात् तयोरेव उपासनसौकर्याय एकाधिकरणस्थत्वप्रतिपादनार्थत्वात्, ‘ऋतंपिबन्ता’विति मन्त्रस्य जीवपरप्रतिपादकत्वमेव। अतो ‘यस्यब्रह्मचक्षत्रञ्चे’तिमन्त्रः परमात्मपरएव। ननु कर्मफलभोगशून्ये परमात्मनि ‘ऋतंपिबन्ता’विति निर्दिष्टकर्मफलभोक्तृत्वासंभवात्, सुकृतसाध्यलोकवर्तित्वगुहाववच्छिन्नत्वयोः" सर्वगते परस्मिन् ब्रह्मण्यसंभवात्, छायातपशब्दनिर्दिष्टाप्रकाशकत्वप्रकाशकत्वयोरपि जीवपरमात्मपरत्वे असंभवात्, बुद्धिजीवपरत्वेतु तस्य सर्वस्याप्युपपत्तेः, कर्मफलभोगे करणे कर्मत्वोपचारेण ‘पिबन्ता’विति निर्देशस्याप्युपपत्तेः, बुद्धिजीवपरत्वमेवास्यमन्त्रस्य युज्यत इति चेत्। उच्यते–संख्याश्रवणे सति एकस्मिन् संप्रतिपन्ने द्वितीयाकांक्षायां प्रतिपन्नजीवजातिमुपजीव्यव्यक्तिविशेषपरिग्रहे बुद्धिलाघवाद्विजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षागौरवात् संप्रतिपन्नजातिपरिग्रहो युक्तः। लोकेपि ‘अस्य गोर्द्वितीयोऽन्वेष्टव्य’ इत्यादिषु तथा दर्शनात्। तथा च ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयश्चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः। परमात्मनः प्रयोजककर्तृतया पिबन्ताविति निर्देशस्यापि सम्भवात्, अन्तः करणे स्वत्तंत्रकर्तृत्वप्रयोजककर्तृत्वयोरभावेन ‘पिबन्ता’विति निर्देशस्य सर्वथाऽप्यसङ्गतत्वात्, सर्वगते ब्रह्मणि सुकृतसाध्यलोकवर्तित्वस्यापि सम्भवात्, अस्मिन्नेव प्रकरणे ‘गुहाहितं गह्वरेष्ठमि’ति परमात्मनो गुहाप्रवेशश्रवणेन गुहां प्रविष्टावित्यस्याप्युपपत्तेः, छायातपशब्दाभ्यां किञ्चिञ्ज्ञसर्वज्ञयोः प्रतिपादनाज्जीवपरमात्परएवायं मंत्र इति समर्थितत्वात्, न त्वदुक्तशङ्कावकाशः। ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्व’मिति पैङ्गिरहस्यब्राह्मणानुसारेण ‘द्वासुपर्णे’ति मंत्रस्य जीवपरत्वात्, ‘इयदामननादि’ त्यधिकरणे ‘ऋतं पिबन्ता’विति मंत्रस्य ‘द्वासुपर्णे’ति मंत्रैकार्थ्यस्य प्रतिपादितत्वात्, अयमपि मंत्रो बुद्धिजीवपरएवेत्यस्याश्शङ्कायाः ‘गुहां प्रविष्टावात्मना’विति सूत्रकृतैव निराकृतत्वात् नास्माभिस्सन्नह्यते। किञ्च जीवे गुहाप्रवेशस्य बुद्ध्युपाधिकतया स्वतःप्रविशवत्या बुद्ध्यासह जीवस्य ‘गुहां प्रविष्टा’ विति गुहाप्रवेशवर्णनं नसंगच्छते। उपष्टम्भकाधीनगुरुत्वशालिनिसुवर्णे गुरुसुवर्णमिति व्यवहारसम्भवेऽपि उपष्टंभकसुवर्णे गुरुणीइतिव्यवहारादर्शनात्। अतएव परपक्षे सूत्रानुसारेण अस्य मन्त्रस्य जीवपरमात्मपरतया कृत योजनान्तरमप्यनुपपन्नं। ‘अनेन जीवेनात्मने’ति श्रुत्यनुसारेण परमात्मनः जीवभावेन अनुप्रवेशेऽपि परमात्मरूपेण अनुप्रवेशाभावात् जीवपरमात्मानौ गुहांप्रविष्टाविति निर्देशानुपपत्तेः, जीवभावेन ब्रह्मणस्संसारमभिप्रेत्य ब्रह्मसंसरतीति व्यवहारसत्वेपि जीवब्रह्मणी संसरतइति व्यवहारासंभवात्, ‘जीवेशावाभासेन करोति मायाचाविद्याच स्वयमेव भवति। कार्योपाधिरयंजीवः" कारणोपाधिरीश्वर’ इति वचनानुसारेण परिगृहीते अविद्यायावा अन्तःकरणस्य वा जीवोपाधित्वमिति पक्षद्वयऽपि नाविद्यान्तःकरणयोः प्रतिबिंबशब्दार्थतया अचाक्षुषस्य चैतन्यस्य प्रतिबिंबत्वासंभवेन अविद्याप्रतिबिंबो वा अन्तःकरणप्रतिबिंबो वा जीव इत्याश्रयणायोगात्, अविद्यावच्छिन्नो वा अन्तःकरणावच्छिन्नो वा जीव इति पक्षद्वयमेव परिशिष्यते। तत्र च हृदयगुहाया अविद्याऽन्तः करणाभ्यामवच्छिन्नत्वेन अनवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णनाश्रुतेर्वा अन्तर्यामिब्राह्मणस्य वा नाञ्जस्यमित्यलमतिचर्चया॥ ॥इति अन्त्रधिकरणम्॥