12 सर्वत्रप्रसिद्ध्यधिकरणम्

॥सर्वत्र प्रसिद्धोपदेशात्॥ प्रथमे पादे समस्तप्रपञ्चविलक्षणपुरुषोत्तमाख्यवेदान्तवेद्यब्रह्मण एव जगत्कारणत्वं प्रसाधितम्। तत्र जन्मादिसुत्रे ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भवातिव्याप्रिपरिहाराय विवक्षितौ। तत्र अयोगव्यवच्छेदः प्रथमपादेन विवक्षितः। अन्ययोगव्यवच्छेदार्थस्त्रिपाद्यारम्भ इति विभागः। पूर्वपादे अस्पष्टजीवलिङ्गाकानि विचारितानि। स्पष्टजीवसिङ्गानि द्वितीये, स्पष्टरजीवलिङ्गानि तृतीये, प्रधानच्छायानुसारीणि त्तुरीये, इति प्रायिकोऽयं पादार्थविभागः। छान्दोग्ये– ‘सर्वं" खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’। जायत इति जम्। लीयत इति लम्। जलशब्दौ डप्रत्ययान्तौ। अनितीत्यन्। जीवतीत्यर्थः। क्विबन्तो विजन्तो वाऽयं शब्दः। तस्य जलान् तज्जलान्। इतिर्हेत्वर्थः। सर्वशब्दः सर्वशरीरकपरः। इदमित्येतत् ब्रह्मणः सर्वस्य वा विशेषणम्। अतश्च तज्जत्वात् तल्लत्वात्तदनत्वात् सर्वात्मकं ब्रह्मेति शान्तस्सन्नुपासीतेत्यर्थः। अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते। उपादानोपादेयभावस्याभिन्ननिष्ठत्वात्। तदनत्वरूप तन्नियाम्यत्वं तु न ब्रह्मगतम्, ब्रह्मणस्तदसम्भवात्। अपि तु चिदचिन्मात्रगतमिति द्रष्टव्यम्। यद्वा– ‘सर्वभूतात्मके तात जगन्नाथे जगन्मये। परमात्मनि गोविन्दे मित्रामित्रकथा कुतः’॥ इत्युक्तरीत्या रागद्वेषादिरहितस्सन् वक्ष्यमाणमनोमयत्वादिगुणकं ब्रह्मोपासीतेत्यर्थः। अस्मिन्पक्षे सार्वात्म्यं नोपास्यगुणतया विवक्षितं, उत्पत्तिविशिष्टसार्वात्म्यगुणावरुद्धे वक्ष्यमाणमनोमयत्वादि गुणविधानानुपपत्तिप्रसङ्गात्। न च उपासनोत्पत्तिवाक्यश्रुतस्य सार्वात्म्यस्याविवक्षा कथमभ्युपगन्तव्येति वाच्यम्। ‘सर्वं खल्विदं ब्रह्म तज्जला’ नित्येतस्य वाक्यस्य खलुशब्दकृतेन प्रसिद्धवन्निर्देशेन ‘शान्तउपासीते’त्यनेनैकवाक्यत्वस्य विवारितत्वात्। न हि उपासीत खल्विति वचनव्यक्तिर्घटते। अस्मिन्वाक्ये उपास्याकांक्षायां पूर्ववाक्यप्रतिपन्नस्य ब्रह्मरूपधर्मिमात्रस्यैव उपास्यतया अन्वयः। न तु सार्वात्म्यविशिष्टस्य। ननु तर्हि एकवाक्यत्वस्य संभवे ‘तज्चला’ नित्यन्तस्य पृथग्वाक्यत्वकल्पनायोगात्, सार्वात्म्य उत्पत्तिवाक्यविहितत्वेऽपि मनोमयत्वादीनां उत्पत्तिशिष्टगुण अविरोधिनामन्वये दोषाभावाच्च वाक्यभेदकल्पनं वा, शाण्डिल्यविद्यायां सार्वात्म्य अनुपास्यत्वकल्पनं" वा व्यर्थमिति चेन्न। ‘उपासीते’त्यनेन वाक्यैकवाक्यत्वाभयुपगमेऽपि पदैकवाक्यत्वनिह्करणे दोषाभावात्, शांति हेतुतया अन्वितस्य सार्वात्म्यस्य उपास्यत्वे प्रमाणाभावाच्च। ननु ब्रह्मणस्सर्वात्मकत्वात् यत्र क्वचित् क्रियमाणस्यापि रागद्वेषादेः आत्मद्वेषर्यवसन्नत्वेन अयुक्तस्वात् ‘शान्तस्सन्नुपासीते’त्युक्ते ब्रह्मोपासीतेति कथमवगम्यते, ‘सर्वं खल्विदं ब्रह्मे’ त्यस्य शमविध्यर्थवादभूतस्य उपास्यसमर्पकत्वाभावादिति चेत् सत्यम्। शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्याकांक्ष आपूरकत्वस्यापि सम्भवात्, अन्यार्थतया पूर्ववाक्यनिर्दिष्टं ब्रह्मविहाय उपास्यान्तरकल्पनस्य अनुचितत्वात्, ‘मूलतश्शाखां" परिवास्य उपवेषं करोती’त्यत्र ‘मूलत’इत्यस्य शाखापरिवासने अपादानतया अन्वितस्य आकांक्षावशेन ‘उपवेषं" करोती’त्यनेनाप्यन्वयाभ्युपगमादिति द्रष्टव्यम्। विहितमुपासनं स्तौति- ‘अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति’। ‘तं यथा यथोपासते तथेतः प्रेत्य भवती’ति श्रुत्यन्तरात् इह लोके पुरुषः यथाक्रतुः तथैव इतः प्रेत्य अमुष्मिन्लोके भवति। ततो हेतोः पुरुषः" क्रतुमयः=क्रतुप्रधानः। उपासनप्रधान इत्यर्थः। एवं विहितं ब्रह्मोपासनं मनोमयत्वादिगुणान्तरविधानाय अनुवदति। ‘स क्रतुं कुर्वीत’।सः=पुरुषः। क्रतुं=ब्रह्मोपासनं कुर्वीतेत्यर्थः। मनोमयः विवेकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतमनोमात्रग्राह्य इत्यर्थः। प्राणशरीरः=जगति सर्वेषां प्राणानां धारकः। प्राणो यस्य शरीरं आधेयं विधेयं शेषभूतञ्च स प्राणशरीरः। एतेषामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात्। भारूपः=भास्वररूपः। ‘आदित्यवर्णन्तमसः परस्तात्, पश्यते रुक्मवर्ण’मित्यादिप्रमाणप्रतिपन्नस्वासाधारणनिरतिशयकल्याणगुणगणनिरतिशयदीप्तियुक्तविग्रहशालीत्यर्थः। सत्यसङ्कल्पः=अप्रतिहतसङ्कल्पः। आकाशात्मा=आकाशवत् सूक्ष्मस्वच्छस्वरूपः। अव्याकृताकाशस्यात्मभूत इति वा, स्वयं च प्रकाशयतीति वा आकाशात्मा। सर्वकर्मा। क्रियत इति कर्म। सर्वं जगत् यस्य कर्म सर्वा वा क्रिया यस्यासौ सर्वकर्मा। सर्वकामः। काम्यन्त इति कामाः भोग्यभोगोपकरणादयः। ते परिशुद्धास्तस्य सन्तीत्यर्थः। सर्वगन्धस्सर्वरसः। ‘अशब्दमस्पर्श’मित्यादिना प्राकृतगन्धरसादिनिषेधात् अप्राकृताः" स्वभोग्यभुतास्सर्वविधास्तस्य सन्तीत्यर्थः। ‘सर्वमिदमभ्यात्तः’। उक्तं सर्वकल्याणगुणजातं स्वीकृतवान्। ‘भुक्ताब्राह्मणा’ इतिवत् कर्तरिक्तप्रत्ययः। अवाकी अनादरः। आदर्तव्याभावात्। ‘एषम आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा’। मदीये हृदये व्रीह्याद्यपेक्षया अणुत्वेन आत्मत्वेन उपासनार्थमवस्थित इत्यर्थः। तथाऽनुसन्धानं कर्तव्यमित्यर्थः। अन्तर्हृदये उपास्यमानस्य प्राप्याकारमनुसन्धेयं निर्दिशति– ‘एषम आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः’। उक्तोऽर्थः। एवंभुतं परंब्रह्म परमकारुण्येन अस्मदुज्जिजीविषया अस्मद्धृदये सन्निहितमित्यनुसन्धातव्यमित्याह–‘एषम आत्मे’ति। यथोपासनं ईदृशपरमात्मानं ‘अस्माच्छरीरात्समुत्थाये’त्युक्तरीत्या देशविशेषविशिष्टं प्राप्तास्मीति निश्चयरूपमनुसन्धानं कर्तव्यमित्याह– ‘एतमितःप्रेत्याभिसम्भविताऽस्मीति’। अत्र इतीत्यस्य ‘स क्रतुं कुर्वीते’त्यनेनान्वयः। ‘मनोमय’ इत्यारभ्य ‘अभिसम्भवितास्मी’ त्येतत्पर्यंतोऽनुसन्धानप्रकारः। अत्र च इतिशब्दनिर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेष एकएव विधीयते, मनोमयत्वाद्युपास्यगुणानां" तु आक्षेपतो विधानं पृष्टगतसर्वताविधानादिव पृष्टानाम्, ततश्च प्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इति शङ्का प्रत्युक्ता। यद्वा– विधेयानां बहुत्वेऽपि क्रमरूपविधेयतावच्छेदकैक्यान्न वाक्यभेदः, ‘यदग्नये च प्रजापतये’ चेति वाक्ये देवतात्वरूपविधेयतावच्छेदकैकग्येन वाक्यभेदस्य तांत्रिकैः" परिहृतत्वात्। केचित्तु- प्राप्तोपासनानुवादेन अभ्युदयेष्टिवत् प्रयोगविधित्वसम्भवात् न वाक्यभेद इति वदन्ति। एवंविधप्राप्यप्राप्ति निश्चयोपेतस्य उपासकस्य प्राप्तौ संशयो नास्तीत्युपसंहरति-‘यस्य स्यादद्धा न विचिकित्साऽस्ति’। अत्र इतिशब्दाध्याहारः, पुर्ववाक्यस्थेतिशब्दस्य क्रमवाचकस्यैव वा अनुषङ्गः। उक्तप्रकारेण यस्योपासकस्य अद्धा निश्चयोऽस्ति तस्य प्राप्तौ विचिकित्सा संशयो नास्तीत्यर्थः। अस्मिन् प्रकरणे ‘सर्वं खल्विदं ब्रह्मे’त्यत्र ब्रह्मशब्देन प्रत्यगात्मैव निर्दिश्यते। तस्यैव सर्वपदसामानाधिकरण्येन निर्देशोपपत्तेः। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्। ब्रह्मादिस्तम्बपर्यन्तभावश्च प्रत्यगात्मन एव अनाद्यविद्यामूलकर्मविशेषोपाधिक उपपद्यते। परमात्मनो निरस्तसमस्ताविद्यस्य समस्तहेयाकरसर्वभावो नोपपद्यते। प्रत्यगात्मन्यपि ब्रह्मशब्दः क्वचित्प्रयुज्यते ‘इदं ब्रह्मायाती’त्यादौ। अत एव ‘परमात्मा परंब्रह्मे’ति परमेश्वरस्य क्वचित्सविशेषणोनिर्देशः। प्रत्यगात्मनश्च निर्मुक्तोपाधेः" ब्रह्मत्वञ्च विद्यते। ‘स चानन्त्याय कल्पत’ इति पूर्वपक्षे प्राप्त उच्यते– सर्वत्र प्रसिद्धोपदेशात्॥ सर्वस्मिन् जगति ‘सर्वं खल्विदं ब्रह्मे’ति तदात्मकतया अभिधीयमानं परंब्रह्मैव। कुतः प्रसिद्धोपदेशात्। तज्जत्वतल्लत्वादिना सर्वं खल्विदमिति प्रसिद्धवदुपदेशात्। यस्मात् जगज्जन्मस्थितिलयाः वेदान्तेषु प्रसिद्धाः तदेवात्र ब्रह्मेति प्रतीयते। वेदान्तप्रसिद्धत्वञ्च परब्रह्मण एव। ‘यतो वा इमानि भतानि जायन्त’ इत्यादिवेदान्तेषु परब्रह्मण एव प्रसिद्धेः। न प्रत्यगात्मनः। ब्रह्मादिस्तम्बभावेऽपि प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मनि अस्पर्शात् निरस्तसमस्ताविद्यत्वस्य नानुपपत्तिः। जीवानाञ्च प्रतिशरीरं भिन्नानामन्योन्यतादात्म्यासम्भवेन सार्वात्म्यस्यासम्भावितत्वात्। अतः सर्वजगत्कारणत्वप्रयुक्तसर्वात्मत्वस्य परब्रह्मण्येव सम्भवात् परमेव ब्रह्मेहवाक्ये प्रतिपाद्यते॥॥विवक्षितगुणोपपत्तेश्च॥ विवक्षितानां मनोमयत्वसत्यसङ्कल्पत्वादीनां गुणानां परमात्मन्येवोपपत्तेश्च। विवक्षितत्वं = तात्पर्यविषयत्वम्। ‘यथाक्रतुरस्मिन् लोके पुरुषो भवती’ति वाक्येन मनोमयत्वादिगुणकोपासनेन तद्गुणकब्रह्मप्राप्तेः" फलत्वावेदनेन फलरूपतात्पर्यलिङ्गसद्भावात् मनोमयत्वादीनां तात्पर्यविषयत्वलक्षणं विवक्षितत्वमवसीयते॥॥अनुपपत्तेस्तु न शारीरः॥ विवक्षितानां गुणानां शरीरे अनुपपन्नत्वात् शारीरपरिग्रहशङ्का नास्तीत्यर्थः॥॥कर्मकर्तृव्यपदेशाच्च॥ ‘एतमितः प्रेत्याभिसम्भवितास्मी’ति प्राप्यतया परंब्रह्म व्यपदिश्यते। प्राप्तृतया च जीवः। अतः प्राप्ता जीवउपासकः। प्राप्यं परंब्रह्मोपास्यमिति॥॥शब्दविशेषात्॥ ‘एषम आत्माऽन्तर्हृदय’ इति शारीरप्षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया। अतो नोपासकस्य जीवस्यैवोपास्यत्वम्॥॥स्मृतेश्च॥ ‘सर्वस्यचाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनञ्च’ इति उपास्यहृदयगतं उपासकाद्भिन्नं दर्शयति॥॥अर्भकौकस्त्वात्तद्व्यपतेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च॥ अर्भकौकस्त्वं = अल्पायतनत्वम्। तद्व्यपदेशः = अल्पत्वव्यपदेशः। ‘एषम आत्मान्तर्हृदय’ इति अणीयसि हृदयायतने स्थितत्वात्, ‘अणीयान् व्रीहेर्वा यवाद्वे’ति स्वरूपेण अणीयस्त्वव्यपदेशाच्च नायं परमात्मा। अपि तु जीवएव। परमात्मनः अल्पायतनत्वाल्पत्वयोरसंभवादिति चेन्न। एवं निचाय्यत्वात् = अल्पायतनत्वाल्पत्वाभ्यां" तस्यैव उपास्यत्वसंभवात्। व्योमवच्चेदं ब्रह्म व्यपदिश्यते– ‘ज्यायान् पृथिव्या ज्याया’ नित्यादि। अतश्च ज्यायस्त्वे उपाध्यश्रवणात् ज्यायस्त्वं स्वाभाविकम्। अणीयस्त्वे उपाधि श्रवणादणीयस्त्वमौपाधिकमित्यवसीयते॥॥संभोगप्राप्तिरिति चेन्न वैशेष्यात्॥ परब्रह्मणश्शरीरान्तर्वर्तित्वनिमित्तसुखदुःखोपभोगप्रसक्तिर्जीववस्त्यादिति चेन्न। तस्य अनपहतपाप्मत्वात् अपहतपाप्मत्वकृतहेतुविशेषसद्भावात् न भोगप्रसक्तिरिति॥ ॥इति सर्वत्रप्रसिद्ध्याधिकरणम्॥