11 इन्द्रप्राणाधिकरणम्

॥प्राणस्तथाऽनुगमात्॥ कौषीतक्नामुपनिषदि - ‘प्रतर्दनोहवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम तं हेन्द्रउवाच प्रतर्दन वरन्ते ददानीति सहोवाच प्रतर्दनः त्वमेव वरंवृणीष्व यंत्वं मनुष्याय हिततमं मन्यसे’। स्पष्टोऽर्थः। ‘सहोवाच मामेव विजानीहि एतदेवाहं मनुष्याय हिततमं मन्ये यन्मांविजानीयात्’। यदिते हिततममुपदेष्टव्यं" तर्हि मदुपासनमेव हिततमं मोक्षसाधनमिति मम मतं। अतः इतरत्परित्यज्य मामुपास्वेत्यर्थः। अत्र प्रसिद्धजीवभावस्य इन्द्रस्य हिततमत्वलक्षणमोक्षसाधनत्वाश्रयोपासनकर्मत्वासम्भवात् मामिति शब्दः स्वात्मभूतं परमात्मानमभिदधाति।‘य आत्मनि तिष्ठन्’ ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’ इति शास्त्रेण स्वस्याप्यात्मभूतः" परमात्मेति निश्चीयते। अहंबुद्धिशब्दाः परमात्मपर्यन्ता इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः। ननु स्वायत्ते शब्दप्रयोगे असन्दिग्धं परमात्मवाचकपदं प्रयुज्यतां, किं न्यायलभ्यपरमात्मपर्यवसानेन मामितिशब्देनेति चेत्। स्यादेवं यादि परमात्मस्वरूपमात्रोपासनमेव विधित्सितं स्यात्। अपि तु स्वशरीरकतया। अतो मामिति निर्देश उपपद्यते। तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लेषं दर्शयति - ‘त्रिशीर्षाणं त्वाष्ट्रमहनं अरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छम्’। रौतीति रुत्=वेदः। न विद्यते रुत् मुखे येषां ते अरुन्मुखाः। वेदांतविमुखान् यतीनित्यर्थः।‘बह्वीस्सन्धा अतिक्रम्य दिवि प्रह्लादीनतृणहं अन्तरिक्षे पौलोमान् पृथिव्यां कालकञ्जान्’। न हनिष्यामीति कृताः" बह्वीः प्रतिज्ञा अतिक्रम्य दिवि वर्तमानान् प्रह्लादपुत्रान् अतृणहम्। पुलोमसुतान् कालकञ्जाख्यान् असुरांश्च हिंसितवानस्मि। ‘तस्य मे तत्र न लोमच मीयते’। एवं हिंसितवतो लोमापि न हिंस्यते। ब्रह्मविद्याप्रभावादित्यर्थः। ‘स यो मां विजानीयात् नास्य केनच कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूनहत्यया नास्य पापञ्चक्रुषो मुखं नीलंवेति’। एवं पापं कृतवतोऽपि मया ईदृशं पापं कृतमपि निर्वेदजनितमुखवैवर्ण्यमपि नास्तीत्यर्थः। चक्रुष इति क्वसन्तात् षष्टि। एवं चेतनविशेषरुपस्वविशिष्टपरमात्मोपासनमुक्त्वा अचेतन विशेषरुप प्राणविशिष्ट परमात्मोपासनमाह– ‘सहोवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व’। अत्र प्रज्ञारुपात्मा जीवशरीरक इत्यर्थः। जीवशरीरकोऽहं प्राणोऽस्मि। प्राणशरीरकोऽहमस्मि। तादृशं" प्राणशरीरकं मामायुरमृतमित्युपास्व। यद्वा– मामिति जीवविशिष्टता। आयुरिति प्राणविशिष्टता। ‘आयुःप्राण इति श्रूतेः। अमृतमिति स्वेन रूपेणावस्थिः। एवं च स्वरूपेण चिदचिद्विशिष्टतया च त्रिविधोपासनं" विधीयते। अतो नोपासनात्रयविधिकृतवाक्यभेद इति ‘द्रष्टव्यं। प्रज्ञात्मविशिष्टोपासनस्य फलमाह– ‘प्रज्ञया सत्यसङ्कल्प’ मिति। अपहतपाप्मत्वादिगुणाष्टकलक्षणं ब्राह्मं रुपमित्यर्थः। ‘यो वै प्राणः" सा प्रज्ञा या वै प्रज्ञा स प्राणः। ननु प्रज्ञाशब्दितजीवस्य प्राणस्य च कथमभेद इत्यत्राह– ‘सहह्येतावस्मिन् शरीरे वसतस्सहोत्क्रामतः’। सहोत्क्रमणप्रतिष्टत्वादेककार्यकरत्वादभेव्यपदेशो युज्यत इति भावः। ‘प्राणएव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति’। एतावता प्रज्ञाशब्दितजीवसहायकस्य मुख्यप्राणस्यैव शरीरोत्थापकत्वेन अमुख्यप्राणापेक्षया वैलक्षण्यमुक्तम्। ‘वागेवास्य एकमङ्गमुदूढन्तस्यानाम पुरस्तात् प्रतिविहिता भूतमात्रे’त्यादि। अस्याः=प्रज्ञयाः। प्रज्ञया जीवेनेति यावत्। एवं च वागादीनामिन्द्रियाणां" अङ्गत्वेन परिगृहीतत्वात् नामादिदशानां वाग्घ्राणादिग्राह्यत्वं प्रतिपादितम्। ततः ‘प्रज्ञया वाचं" समारुह्य वाचा नामानि सर्वाण्याप्नोती’ त्यादिना प्रज्ञाशब्दितस्य जीवस्य नामादिदशविधभूतमात्राव्याप्तिप्रकारा उच्यन्ते। अत्र प्रज्ञाशब्दः ‘प्रज्ञैवास्या’ इति पूर्ववाक्यस्थप्रज्ञाशब्दनिर्दिष्टमनः परः। ततश्च मनसा वागिन्द्रियमधिष्ठाय तद्वारा सर्वानि नामानि अभिलपनक्रियाद्वारा व्याप्नोतीत्यर्थः। एवमुत्तरवाक्योऽपि द्रष्टव्यं। ‘तावा एता दशैव भूतमात्रा अधिप्रज्ञं दशप्रज्ञामात्रा अधिभूतं यदि भूतमात्रा नस्युः" नप्रज्ञामात्रास्स्युः यदि प्रज्ञामात्रा नस्युः नभुतमात्राः स्युः’। ‘नह्यन्तरतो रूपं किञ्चनासिद्ध्येत्’। अनेन नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्यलक्षणा दशभूतमात्राश्च तद्ग्राहिवाग्घ्राणचक्षुश्श्रोत्र जिह्वाहस्तशरीरोपस्थपादमनोलक्षणा दशप्रज्ञामात्राश्च अन्योन्याधाराः, वागादीन्द्रियाणामभावे नामादिसिद्देरभावात्, तेषाञ्चाभावे तद्व्यवहारफलकप्रज्ञामात्रशब्दितेन्द्रियाद्यनिष्पत्तेः, ग्राह्यग्राहकोभयाधीनत्वात्सर्वलोकयात्रायाः, ग्राह्येण विनाकृतं ग्राहकं ग्राहकेण विनाकृतं ग्राह्यं वा न कार्यक्षमं भवति।‘नो एवैतन्नाना’। नानाशब्दो विनार्थकः। एतत् ग्राह्यग्राहकजातं परस्पराविनाभूतमित्यर्थः। तस्मात् प्रज्ञामात्रशब्दितमपि इन्द्रियजातं भूतमात्रान्तर्गतमित्यर्थः। ‘तद्याथारथस्यारेषुनेमिरर्पितानाभावरा अर्पिताः एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः’। नाभौ=रथचक्रमध्यवर्तिसरन्ध्रकाष्ठविशेषे अरशब्दिताः काष्ठविशेषाः परितोऽर्पिताः। तत्र च नेमिशब्दितं" वलयाकारं काष्ठं यथा अर्पितं एवं प्राणशब्दितपरमात्मनि प्रज्ञामात्रशब्दनिर्दिष्टाश्चेतना अर्पिताः" तेषु च भूतमात्राशब्दितग्राह्यग्राहकजातं सर्वं समर्पितमित्यर्थः। न च एकवचनान्तप्रज्ञाशब्दनिर्दिष्टस्य बहुवचनान्तप्रज्ञामात्राशब्देन परामर्शो न युक्त इति वाच्यम्। सद्विद्यायां-‘स्वमपीतो भवती’ त्येकवचनान्त शब्दनिर्दिष्टस्य जीवस्य ‘सतिसम्पद्य न विदु’रिति बहुवचनान्तशब्देन निर्देशवदुपपत्तेः। ‘स एष प्राज्ञ आत्माऽऽनन्दोऽजरोऽमृतः’। प्रज्ञएव प्राज्ञः निरुपाधिकसर्वज्ञानाश्रयः। निरुपाधिकानन्दत्वाजरत्वामृतत्व आश्रयः। ‘न साधुना कर्मणा भूयान् नो एवासाधुना कर्मणा कनीयान्’। पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः। ‘एषह्येवैनं साधु कर्म कारयति तं येमेभ्यो लोकेभ्य उन्निनीषति। एषह्येवैनमसाधुकर्मकारयति तं यमधो निनीषति’। एतद्वाक्यद्वयं विवृतं व्यासार्यैः। कर्मणामुन्नयनहेतुत्वं उपास्तिनिष्पादनरूपं" तद्विपरीतमधोनयनमुपासनप्रतिबन्धरूपमिति। ‘एष लोकपाल एष लोकाधिपतिरेष सर्वेशः’। लोकपालः= लोकरक्षः। लोकाधिपतिः=लोकस्वामी। सर्वेशः=सर्वनियन्ता। ‘समआत्मेति विद्यात्’। पूर्वोक्तगुणविशिष्टः स्वान्तर्यामीति प्रतिपत्तव्यः। अत्र ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्वे’ति मामितिशब्देन प्रणाशब्देन च निर्दिश्यमान इन्द्र एव इन्द्र प्रयुक्तस्य मामितिशब्दस्य तद्विषयत्वावश्यम्भावात् इति पूर्वपक्षे प्राप्त उच्यते– प्राणस्तथाऽनुगमात्॥ प्राणः परमात्मा। परमात्मत्वसाधकानन्दादिमत्वेन तस्यास्मिन् प्रकरणे अनुगतत्वात्। ‘सएष प्राणएव प्रज्ञात्माऽऽनन्दोऽजरोऽमृत’ इति श्रूयते–॥न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन्॥ त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्य इन्द्रस्य वक्तुः मामेव विजानीहीति स्वात्मत्वेन उपदिश्यमानः" नेन्द्रजीवभूतादतिरिक्तो भवितुमर्हतीति चेत् न। अस्मिन् प्रकरणे परमात्मसम्बन्धिनां धर्माणां बहुत्मुपलभ्यते। हिततमोपासनकर्मत्वं, साध्वसाधुकर्मकारयितृत्वं, ‘भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा प्राणेऽर्पिता’ इति अचेतनवर्गाधारत्वं, चेतनवर्गाधारत्वं, आनन्दत्वं, अजरत्वं, अमृतत्वं, लोकाधिपतित्वं, एवमादयोधर्माः परमात्मसम्बन्धिन उपलभ्यन्ते। अतोभूयोधर्मानुग्रहाय अस्य प्रकरणस्य परमात्मपरत्वमेव वक्तव्यम्॥तर्हि इन्द्रस्य मामुपास्वेति निर्देशः कथमुपपद्यत इत्यत्राह– ॥शास्त्रदृष्ट्यातूपदेशोवामदेववत्॥ ‘य आत्मनि तिष्ठन्नात्मनोऽन्तर’ इति शास्त्रेण परमात्मानं स्वात्मानं दृष्ट्वा शरीरवाचिनाञ्च शब्दानां शरीरिपर्यंततां ज्ञात्वा मामुपास्वेत्युपदिष्टवान्। यथा साक्षात्कृतस्वात्मभूतपरमात्मतत्वो वामदेवः ‘अहम्मनुरभवंसूर्यश्चे’ति स्वात्मनि मन्वादिभावमुपदिष्टवान्। नहि मन्वादिभावः स्वस्वरूपगतोवामदेवेन उपदिष्टः, अपितु स्वात्मभूतपरमात्मगतः। तद्वदेवायमुपदेश इति भावः॥॥जीवमुख्यप्राणलिंगान्नेतिचेन्नोपासात्रैविध्यादाश्रितत्वादिहतद्योगात्॥ त्वाष्ट्रवधवक्तृत्वादिजीवसिंगानां, आयुःप्रदत्व शरीरोत्थापकत्व इन्द्रियाश्रयत्वादीनां, मुख्यप्राणसिंगानाञ्च उपन्यासः किमर्थमितिचेत्, इन्द्ररूपजीवशरीरकतया प्राणरूपाचेतनशरीरकतया स्वरूपेण च उपासनार्थं चेतनाचेतनधर्माणां" ब्रह्मधर्माणाञ्च कीर्तनं। त्रिविधञ्चोपासनं प्रकरणान्तरेष्वप्याश्रितम्। यथा तैत्तिरीयके– ‘सत्यं" ज्ञानमनन्तं ब्रह्मे’ति स्वरूपेण, ‘सच्चत्यच्चाभव’दिति भोक्तृभोग्यलक्षणचेतनाचेतनशरीरकतयाचोपासनं, एवं ‘तं मामायुरमृतमित्युपास्वे’ति वाक्ये पुर्वोक्तत्वाष्ट्रहननादिकृतपापलेशशून्यत्ववक्तृत्वघ्रातृत्वादिगुणकजीवविशिष्टतया आयुष्ट्वेन्द्रियनिश्श्रेयसहेतुत्वशरीरोत्थापकतवादिगुणनिशिष्टप्राणविशिष्टतया आनन्दत्वामृतत्वादिस्वरूपेण च विशिष्टस्य स्वात्मत्वेन उपासनं विधीयते। एवं सति अनेकोपासनविधानकृतवाक्यभेदशंकाया नावकाशइति सर्वं समञ्जसम्। अस्मिन्पादे ‘जन्माद्यस्य यत’ इत्यादिषु सद्ब्रह्मात्मादिसामान्यशबदैः जगत्कारणं" प्रकृतिपुरूषाभ्यामर्थान्तरमति साधितम्। ‘ज्योतिश्चरणाभिधाना’दित्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगत्कारणमिति विशेषतो निर्णीतम्। स एव प्रज्ञातजीववाचिभिरिन्द्रादिशब्दैः क्वचित् शास्त्रदृष्ट्या तच्छरीरकतया उपास्यत्वाय उपदिश्यत इति ‘शास्त्रदृष्ठ्यातूपदेशो वामदेववत्’ ‘उपासात्रैविध्या’दिति सूत्रितम्। ननु पुरुषसूक्तेनैव सकलचेतनाचेतनप्रपञ्चविलक्षणः सर्वजगत्कारणभूतः परमपुरुषः परंब्रह्मेति सिद्ध्येतेति किमर्थोऽयं" कारणत्वायोगव्यवच्छेदार्थः। उच्यतेश्रुत्यन्तरेषु पुरुषोत्तमजगत्कारणत्वनिर्धानणं संशयसहिष्ण्विति तद्धृढीकरणाय अयोगव्यवच्छेदार्थोऽयं विचारयति न वैयर्थ्यशङ्का॥ ॥इति इन्द्रप्राणाधिकरणम्॥ ॥इति श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमःपादः॥