ज्योतिश्चरणाभिधानात्॥25॥ एवं श्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिकाउक्ता। अथ कारणत्वाक्षेपकलिङ्गानुगृहीतश्रुत्यवलम्बनमवान्तरपेटिकान्तरं" प्रस्तूयते। यद्यपि एतदधिकरणस्य अथ यदतःपरोदिवोज्येतिरित्यत्र ज्योतिश्शब्द एव सन्देहविषयः ,तथापि द्वितीयसूत्राद्यर्थवर्णनोपयु- क्ततया लिख्यते ।तथाहि -चतुष्पात्वषाड्विध्याभ्यां ब्रह्मणे गायत्रीसादृश्यानुसन्धानरूपा विद्या प्रस्तूयते । चतुर्विंशत्यक्षरयुक्ता षडक्षरपादचतुष्टयवती च गायत्री भवति ।तच्छब्दः पाञ्चालशाखाध्यायिनः" उदाहरन्ति ।–पेटिलालगन्ते।पेटाविटकन्ते ।तत्र किं संबद्धा ।तत्जग्ध्युपरे ही ,ति। इन्द्रश्शचीपतिः। वलेन पीडितः।दुश्च्यवनो वृषा ।समित्सुसासहिः। इति हि गायत्री चतुष्पदा एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्वेन षड्विधा च । एवं ब्रह्मणोऽपि भूतशब्दितात्मवर्ग" एकपादः, कर्मार्जितभोगस्थानरूपः पृथिवीलोकः एकः पादः, भोगोपकरणं शरीरमेकः पादः , आत्मस्थित्यनुगुणप्रदेशविशेषरूपं" हृदयमेकः पाद इति भूतपृथिवीशरीरहृदयानि चत्वारः पादाः। तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगानकर्मत्वत्राणकर्मत्वलक्षणं विधा- द्वयम्। एवं द्वयोरपि विधाद्वययोर्भेदाभावात्ततश्च ब्रह्मरूपागायत्री भूतपृथिवीशरीरहृदयरूपचतुष्टयवत्तया चतुष्पदा गानकर्मत्व त्राणकर्मत्वसर्वभूतप्रतिष्ठात्वसर्व- भूतानतिवर्त्यत्वसर्वप्राणप्रतिष्ठात्वसर्वप्राणानतिवर्त्यत्वलक्षणविधाषट्कयुक्ततया षड्विधा। अतश्चतुष्पात्वषाड्विध्याभ्यां" ब्रह्मणि गायत्रीसादृश्यानुसन्धानम् कर्तव्यमिति प्रतिपादयति ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’’ ।अत्र गायत्रीशब्देन न प्रसिद्धा गायत्र्यभिधीयते। तस्याः भूतादिपादचतुष्टयसम्बन्धाभावात्, तावानस्य महिमेति पुंसूक्तमन्त्रप्रतिपाद्यत्वाभावाच्च।अपि तु परमात्मा ।कुण्डपायिनामयने ’’ मासमग्निहोत्रं" जुहोती ‘‘ति अग्निहोत्रशब्दःप्रयुज्यमानः तत्सादृश्य- विशिष्टानुष्ठानार्थः।तथा गायत्रीशब्दो ब्रह्मणि प्रयुज्यमानः तत्सादृश्यानुसन्धानार्थः।ततश्च गायत्रीशब्देन ब्रह्मैवाभिधीयते। वैशब्दोऽवधारणे ।ब्रह्मैव परिदृश्यमान सर्वभूतात्मकमित्यर्थः।ततश्च ब्रह्मणि भूतलक्षणपादवत्वमुक्तम्। गायत्रीशब्दप्रवृत्तिनिमित्तमपि ब्रह्मण्युपपादयन् विधाद्वयमाह— ‘‘वाग्वै गायत्री ’’ गायत्रीशब्दितं ब्रह्मैव वाग्रूपविशिष्टं भवतीत्यर्थः। शब्दमूर्तिधरस्यैतद्रूपं" विष्णोर्महात्मनः,इति पराशरस्मृत्यनुरोधात्ब्रह्मण एव शब्दरूपत्वमिति भावः। ततश्च किमित्यत्राह- ‘वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ वाग्रूपमेव ब्रह्म सर्वाणि भूतान्यभिधत्ते हिताहितविधि- निषेधमुखेन त्रायते च । ब्रह्मणो वाग्रूपस्य गान त्राणकर्तृत्वाभ्यां गायत्रीशब्दवाच्यत्वम्। भूतात्मकपादवतो ब्रह्मणः वाक्कर्तृकगानत्राणकर्मत्वाभ्यां द्वैविध्यम् चोक्तम् भवति। उक्तार्था- नुवादपूर्वकं द्वितीयपादं सामानाधिकरण्येनाह। - या वै सा गायत्री इयं वाव सा येयं पृथिवी। उक्तरूपविशिष्टप्रकृतधर्मिपरः यच्छब्दः। या सा सर्वभूतरूपैकपादयुता गायत्री गायत्र्याख्यं ब्रह्म तदेव प्रसिद्धपृथिवीत्यर्थः। कथं पृथिव्याः ब्रह्मात्मकत्वमित्यत्राह- अस्यां हीदं सर्वं भूतं" प्रतिष्ठितम्। ब्रह्मात्मकत्वादेव सर्वभूतप्रतिष्ठात्वम् । नहि केवलंपृथिव्याःसर्वभूतधारणशक्तिरस्तीत्यर्थः" । प्रतिष्ठात्वञ्च नियतमित्याह - एतामेव तानि शीयन्त इति । पृथिवीं भूतानि नातिवर्तन्त इत्यर्थः। पृथिवीमयब्रह्माण्डोदरे हि भोक्तृवर्गः परिवर्तते न ततोऽन्यत्रेति भावः।एवं द्वितीयपादो भूतप्रतिष्ठात्वतदनतिवर्तित्वरूपं विधाद्वयं चोक्तम्। अथ तृतीयं पादमाह। –‘‘या वै सा पृथिवीं इयं वाव सा यदिदमस्मिन् पुरुषे श रीरम्।‘पुरुषशब्दश्शरीरविशिष्टजीवपरः। पृथिवीरूपपादविशिष्टा या गायत्री गायत्र्याख्यं ब्रह्म सा शरीरं , सा शरीराख्यपादविशिष्टेत्यर्थः। भूतपृथिव्योर्गायत्रीसामानाधिकरण्येन निर्दिष्टतया भूतपृथिवीशब्दस्य ब्रह्पर्यन्तत्वेन तदुपस्थापनक्षमत्वात्,अत्र्यप्रायन्यायेन अत्रशरीरलक्षणपादान्तरनिर्देशकस्य शरीरशब्दस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्तित्वाभ्यामुपपादयति— अस्मिनहीमे प्राणाः" प्रतिष्ठिताः एतदेव नातिशीयन्ते । नातिवर्तन्त इत्यर्थः । चतुर्थं पादमाह— यद्वै तत्पुरुषे शरीरं इदं वाव तद्यदिद- मस्मिन्नन्तःपुरुषेहृदयम्। शरीराख्यपादविशिषटं यद् गायत्र्याख्यं ब्रह्म तदेव हृदयशरीरकं हृदयलक्षणपादकमित्यर्थः। हृदयस्य ब्रह्मात्मकत्वमुपपादयति— अस्मिन् हीमे प्राणाः प्रतिष्ठिताः। एतदेव नातिशीयन्ते —। प्राणशब्देन प्राणापानादयः इन्द्रियाणि वा गृह्यन्ते तेषां हृदयसंबन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वमेव ।तृतीयचतुर्थपादौ प्राणप्रतिष्ठात्वतदनतिवर्तित्वरूपं" विधाद्वयञ्चोक्तम् ।एवमुक्तं चतुष्पात्वं षाड्विध्यं च निगमयति— सैषा चतुष्पदा षड्विधा गायत्री ।नन्वेवं चतुष्पात्त्वे ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ््कायां उक्तमहिम्न एतावत्त्वप्रतिषेधिकामृच- मुदाहरति। तदेतदृचाभ्यनुक्तम्। एतत् गायत्र्याख्यं ब्रह्म अभिमुखीकृत्य तामेव वाचं पठति। तावानस्य महिमा । नियाम्यवर्गः। ततो ज्यायांश्च पुरुषः। पूर्वोक्तमहिमापेक्षया पुरुषो ज्यायान् । परमात्मा ततोऽधिकमहिमाशालीत्यर्थः। पादोस्य सर्वाभूतानि। अचित्संसृष्टाश्चैतनास्सर्वे पादः। अंशमात्रमित्यर्थः" । त्रिपादस्यामृतन्दिवि ।अप्राकृतस्थानविशेषे अस्य परमात्मनःअमृतं पादत्रयमित्यर्थः। त्रिपात्त्वञ्च अप्राकृतभोग्यभोगस्थानभोगोपकरणविशेषैरिति मन्तव्यम् । अथ ब्रह्मोपासनाङ्गत्वेन द्वारपोपासनं विधीयते । तस्य हवा एतस्य हृदयस्य पञ्च देवसुषयः। तेवा एते पञ्च ब्रह्मपुरुषाःस्वर्गस्य लोकस्य द्वारपाः। ब्रह्मपुरुषाः ब्रह्मसंबन्धिनः पुरुषाः । हृदयाकाशाख्यस्य भगवल्लोकस्य द्वारपाः । आतिवाहिकाः । आनुषङ्गिकं फलमाह – य एतानेवं पञ्च ब्रह्म पुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद अस्य कुले वीरो जायते । वीरः" पुत्रो जायत इत्यर्थः। प्रधानं फलमाह —प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्म पुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद । भगवल्लोकद्वारपालकोपासनया अनिवारितस्सन् स्वर्गं लोकं प्रतिपद्यत इत्यर्थः । एवं गायत्रीविद्या प्रकृता । तत्संबन्धिनस्सकलफलप्रदस्य परस्य ब्रह्मणः आभिरूप्यकीर्तिमत्वरूपफलविशेषार्थं" कौक्षेयज्योतिषैक्यानुसन्धानमुपदिश्ते । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु- , तथाक्षरात् सम्भवतीह विश्वमिति । इह जगदन्तर्वर्तिव्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः। सर्वशब्दः परिशेषात्समष्टितत्वपरः। ततश्च अप्राकृतस्थानविशेषस्य उपरिष्टात् समष्टिव्यष्टिबहिर्भूतेषु स्वावधिकोत्तमरहितोत्तमस्थानविशेषेषु तस्य भासा सर्वमिदं" विभातीति अवभासकतया ज्योतिश्शब्दितपरमात्मा यद्दीप्यत इत्यर्थः। अत्र यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शितया प्रकृतं त्रिपाद्ब्रह्म परामृश्यते । इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः" । दिवः परस्ताद्दीप्यमानं त्रिपाद्ब्रह्म कौक्षेयज्योतिरेव । कौक्षेयज्योतिश्शरीरकमेवेत्यर्थः" । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित इत्यादिस्मरणात् । ततश्च तदात्मकत्वानुसन्धानं कर्तव्यमित्यर्थः। तस्यैषा दृष्टिर्यत्रैतदस्मिन् शरीरे संस्पर्शे-नोष्णिमानं विजानाति । यत्र= यदा । शरीरे हस्तस्पर्शेनोष्णिमानं" विजानातीति यत् । यदौष्ण्योपलंभनं, तत्तस्य परमात्मनश्शरीरभूतस्य जाठराग्नेरेषा दृष्टिः। उपलभ्यमानस्य उष्णस्पर्शस्य जाठराग्निसंबन्धित्वात् तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः। तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदधुरिवाग्नेरिव ज्वलत उपशृणोति । निनदमिव–रथघोषमिव । नदधुमिव -वृषभकूजितमिव । वहिर्ज्वलतोऽग्नेश्शब्दमिव शृणोतीति यत् तच्छब्दश्रवणमेव तच्छ्रवणमित्यर्थः। तदेतद्दुष्टञ्च श्रुतञ्चेत्युपासीतेति। तदेतत् परमात्मशरीरभूतं" कौक्षेयज्योतिः उक्तरीत्या दृष्टत्वश्रुतत्वाभ्यां उपासीतेत्यर्थः। अथ यदतःपरो दिवोज्योतिरिति वाक्ये ज्योतिश्शब्दितं प्रसिद्धमग्न्यादिज्योतिरेव । कौक्षेयज्योतिषैक्याध्यासस्य भौतिकज्योतिष्येवोपपत्तेः" । दीप्तेः रूपवद्विषयत्वेन नीरूपे परमात्मनि दीप्तेरसम्भवात् ,दिवः पर इति द्युमर्यादत्वस्यापि निर्मर्यादेपरमात्मनि असम्भवात्, लोकेष्वित्याधारबहुत्वस्यापि निराधरे असम्भवात् चक्षुष्यत्वश्रुतत्वरूपाल्पफलश्रवणाच्च, रूपवद्विषयदीप्ति, द्युमर्यादत्व, आधारबहुत्व, कौक्षेयज्योतिरध्यास चक्षुष्यश्रपतत्वरूपाल्पफलोपासनोपास्यत्वरूपवाक्यशेषश्रुतत्वलिङ्गानुगृहीतज्योतिश्श्रुत्या प्रसिद्धं अग्न्यादिज्योतिरेवेह उपदिश्यत इति पूर्वपक्षे प्राप्त उच्यते– ज्योतिश्चरणाभिधानात् ॥ द्युसंबन्धितया निर्दिष्ट निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव । पादोऽस्य सर्वा भूतानाति मन्त्रे द्युसम्बन्धिनस्सर्वभूतचरणत्वाभिधानात् तस्यैव द्युसम्बन्धिनः इहापि द्युसम्बन्धित्वेन प्रत्यभिज्ञानात् यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शित्वस्यैव युक्ततया द्युसम्बन्धित्वेन प्रकृतत्रीपाद्ब्रह्मपरामर्शस्यैव युक्तत्वात्, फलार्थतया परमात्मन्येव कौक्षेयद्योतिश्शरीरकत्वानुसन्धानस्य उपपत्तेः रूपवद्विषयदीप्तिद्युमर्यादत्वलोकाधारत्वादीनामन्तरादित्यविद्यान्यायेन विग्रहविशिष्ट एवोपपत्तेः, भासकत्वप्रवृत्तिनिमित्तकज्योतिश्शब्दस्यापि तत्र वृत्तिसम्भवात्, ज्योतिश्शब्दितः" परमपुरुष एव ॥छन्दोऽभिधानान्नेतिचेन्न तथा चेतोऽर्पणनिगमात्तथा हि दर्शनम्॥26॥ पूर्वत्र गायत्रीवा इदं सर्वमिति गायत्र्याख्यछन्दसः प्रकृतत्वात् तस्यैव पादोऽस्य सर्वा भूतानीति सर्वभूतचरणत्वाभिधानात् न परब्रह्मणः प्रकृतत्वम्, येन यच्छब्दश्रुत्या तत्परामर्शस्स्या दिति चेन्न। तत्र गायत्रीशब्देन न छन्दः परामृश्यते ,अपि तु ब्रह्मण एव गायत्रीचेतोऽर्पणं हि निगम्यते। ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलाय उपदिश्यत इत्यर्थः। चतुष्पादश्च ब्रह्मणः" चतुष्पादया च गायत्र्या सादृश्यसम्भवात् ।तथा अन्यत्रापि सादृश्यात् छन्दोऽभिधायी शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते। यथा संवर्गविद्यायां अग्निसूर्यजलचन्द्रवायुवाक्चक्षुश्श्रोत्रमनःप्राण- रूपेषु दशसु दशत्वसंख्यासाम्यात् सैषा विराडन्नादी,ति छन्दोवाचिनो विराट्शब्दस्य प्रयोगो दृष्टस्तद्वत्॥भूतादिपादव्यपदेशोपपत्तेश्चैवम्॥27॥ भूतपृथिवीशरीरहृदयलक्षणपादचतुष्टयवत्वस्य सैषा चतुष्पदेति प्रतिपादितस्य छन्दोरूपायां गायत्र्यामसम्भवात् गायत्रीशब्देन ब्रह्मैवाभिधीयते।ततो गायत्रीशब्दाभिहितं त्रिपाद्ब्रह्मैव ज्योतिर्वाक्येऽपि यच्छब्दश्रुत्या पूर्वप्रत्यभिज्ञापकद्युसंबन्धित्वलिङ्गानुगृहीतया प्रतिपाद्यते ॥उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्॥28॥ पूर्ववाक्ये त्रिपादस्यामृतं दिवीति दिवोऽधिकरणत्वेन निर्देशात् ज्योतिर्वाक्ये ‘‘दिवःपर ’’ इत्यवधित्वेन निर्देशान्नप्रत्यभिज्ञा सम्भवतीति चेन्न । वृक्षाग्रे वर्तमाने ‘‘वृक्षाग्रात् श्येनो वृक्षाग्रे श्येन ‘‘इति पञ्चमीसप्तम्योः प्रयोगदर्शनात् इहाप्युपपत्तेरिति भाव इति स्थितम्॥ इति ज्योतिरधिकरणम्॥10॥