आकाशस्तल्लिङ्गात् ॥23॥ एवं सद्विद्यानन्दवल्लीप्रतिपाद्यं जगत्कारणवस्तु जीवस्स्यादित्याक्षेपेणोत्थानादवान्तरसङ्गतिः। अथ जगत्कारणं आकाशप्राणादिकमेव न ततोऽन्यत् जगत्कारणं ब्रह्मास्त्विति श्रुत्यवलंबपूर्वपक्षादवान्तरपेटिका।पेटिकान्तरम् प्रस्तूयते– पूर्वं आदित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तं,तदयुक्तम् ।लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव कारणत्वात् इत्याक्षेपेणोत्थानादवान्तरसङ्गतिः।‘‘त्रयोहोद्गीथे कुशला बभूवुश्शिलकश्शालावत्यश्चेकितानो दाल्भ्यः प्रवाहणो जैवलिरिति तेहोचुः उद्गीथे वै कुशलास्मः हन्तोद्गीथे कथां वदाम इति तथेतिह समुपविविशुः" सहप्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणौ ‘’। ’’ शालावत्यो दाल्भ्युवाच हन्त त्वा पृच्छानीति प्रच्छेति होवाच।’’ स्पष्टोऽर्थः। का साम्नो गतिरिति। गतिः" अयनम् ।प्राप्यमित्यर्थः। स्वर इति होवाच ।स्वरात्मकत्वात्साम्न इति भावः। एवमुत्तरत्राप्यौचित्यमनुसन्धेयम्। स्वरस्य का गतिरिति प्राण इति होवाच। प्राणस्य का गतिरिति अन्नमिति होवाच अन्नस्य का गतिरिति आप इति होवाच अपां का गतिरिति असौ लोक इति होवाच’’। द्युलोकादेव वृष्टिप्रभवादितिभावः। ‘‘अमुष्य लोकस्य का गतिरिति न स्र्गं लोकमतिनयेदिति’’।स्वर्गलोकमतीत्य परमाश्रयान्तरं साम न नयेदित्यर्थः। तं ह शिलक शशालवत्य उवाच अप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयात्। अप्रतिष्ठितं स्वर्ग- लोकं सामगतिपरम्पराविश्रान्तिभूमिं वदतः तव मते साम अप्रतिष्ठितमेव स्यात् । स्वर्गलोकस्य ज्योतिश्चक्रलग्नतया बम्भ्रम्यमाणत्वात् अप्रतिष्ठितत्वमिति भावः। दाल्भ्यश्शालावत्यमाह ‘‘हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच’’। तर्ह्यहं सामगतिपरंपराविश्रान्तिभूमिं त्वत्तो जानीयामिति प्रार्थितश्शालावत्यस्तथेत्युक्तवानित्यर्थः। अमुष्य लोकस्य का गतिरिति अयं लोक इति होवाच ।यागदानहोमादिभिः भूलोकस्य स्वर्गोपजीव्यत्वादिति भावः। अस्य लोकस्य का का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच। पृथिवीलोकस्य का गतिरिति दाल्भ्येन पृष्टः शालावत्यः" प्रतिष्ठां पृथिवीलोकमतिक्रम्य सामगतिपरंपरविश्रान्तिभूमिं अन्यं न कश्चिदपि वदेत्। अतो वयमपि तथैव वदामः। स्वर्गस्य बम्भ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेऽपि पृथिव्याः" स्थिरत्वात् प्रतिष्ठात्वमिति भावः। ’’ तं ह प्रवाहणो जैबलिरुवाच अन्तवद्वै किल ते शालावत्य साम ‘’। अन्तवतीं पृथिवीं सामगतिपरंपराविश्रान्तिभूमितया प्रतिजानानस्य तव मते साम अन्तवदेव स्यादित्यर्थः। शालावत्यः प्रवाहणं पृच्छति -हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच ,।पूर्ववदर्थः। अस्य लोकस्य का गतिरिति आकाश इति होवाच । अस्य लोकस्य का गतिरिति शालावत्येन पृष्टःप्रवाहणः आकाश इत्युक्तवानित्यर्थः। अत्र आकाशते आकाशयतीति वा व्युत्पत्त्या आकाशशब्दो ब्रह्मपरः। ‘‘आकाशो ह वै नामरूपयोर्निर्वहिते’‘त्यादौ आकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात्। न तप भूताकाशपर इति द्रष्टव्यम् । सर्वाणि हवा इमानिभूतान्याकाशा- देव समुत्पद्यन्त आकाशं प्रत्यस्तं यान्ति । चिदचिदात्मकप्रपञ्चः आकाशादेव उत्पद्यते तत्रैव लीयते इत्यर्थः। आकाशो ह्येवैभ्यो ज्यायान्। ज्यायस्त्वन्नाम सर्वैः कल्याणगुणैः सर्वेभ्यो निरति- शयनिरुपाधिकोत्कर्षः। आकाशः परायणम्। परायणत्वं -परमगतित्वम्। परमप्राप्यत्वमिति यावत् । स एष परोवरीयानुद्गीथः। एवंरूप आकाश उद्गीथः। उद्गीथे एतादृशाकाशदृष्टिः" कर्तव्येति यावत्। सएषोऽनन्तः। उद्गीथे अद्ध्यस्यमानेऽमाकाशोऽनन्तः अपरिच्छिन्न इत्यर्थः। ततश्च अनन्तस्य आकाशशब्दितस्य परमात्मन एव सामगतिपरम्पराविश्रान्तभूमित्वात्, मत्पक्षे अन्तवद्वै किल ते सामेत्युक्तः अन्तवत्वदोषो न प्रसरतीति भावः। परो वरीयोहास्य भवति परोवरीयसोह लोकान् जयति य एतमेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते-इत्यादि। अत्र उद्गीथे अद्ध्यस्यउपास्यमान आकाशो भूताकाश एव ।आकाशशब्दस्य भूताकाशे रूढत्वेन रूढाकाशशब्दाभ्यासादिति पूर्वपक्षे प्राप्त उच्यते –आकाशस्तल्लिङ्गादिति। आकाशशब्दाभिधेयः परमात्मा । निखिलजगदेककारणत्वपरायणत्वसर्वज्यायस्त्वानां" परमात्मलिङ्गानां भूताकाशे असम्भवात् भूताकाशस्य अचेतनं प्रति कारणत्वसम्भवेऽपि चिदचिद्वर्गकारणत्वासम्भवात्, सर्वैः कल्याणगुणैस्सर्वोत्कृष्टत्वरूपज्यायस्त्वासम्भवात्,अचेतनस्य स्वरूपभिन्नत्वेन मोक्षविरोधितया च हेयस्य शब्दादिनिषिद्धविषयप्रावण्यजनकतया सकलपुरुषार्थविरोधिनोऽचेतनस्य परायणत्वपरमप्राप्यत्वासम्भवात्,परायणत्वलक्षणप्राप्यत्वस्य च का साम्नो गतिः ,अस्य लोकस्य का गति,रित्युपक्रमलक्षणतात्पर्यलिङ्गेन प्रतिपिपादयिषितत्वावगमात्,तथा अन्तवद्वै किल ते शालवत्य सामेति पृथिवीलोकस्य अन्तवत्वो क्तिदूषणपूर्वकमुपक्षिप्तेन स एषोऽनन्त,इत्यनन्तत्वनिङ्गेन च प्रतिपिपादयिषितत्वावगमात् ,प्रतिपिपादयिषितपरायणत्वानन्तत्वपरोवरीयस्वलिङ्गविरोधे अभ्यस्ताया अपि श्रुतेर्दुर्बलत्वाच्च आकाशशब्दः आकाशते आकाशयतीति वा योगवशेन परमात्मपर एव । ननु सर्वाणि ह वा इमानि भूतानाति श्रुत्यैव आकाशस्य जगत्कारणत्वावेदनात् यथाश्रुताकाशस्यैव जगत्कारणत्वमभ्युपेतव्यमिति चेन्न । सदेव सोम्येदमग्र आसीत्, आत्मा वा इदमेक एवाग्र आसीत्,एको ह वै नारायण आसीदि,-त्यादियोग्यार्थाननुवादरूपबहुवाक्यविरोधे एकस्य अनुवादरूपस्य अयोग्यार्थस्य दुर्बलत्वेन स्वार्थप्रतिपादनसामर्थ्याभावात्।अत आकाशशब्दो यौगिक्या वृत्त्या ब्रह्मपर एव । यत्तु व्यासार्यैः अर्थाविरोध एव रूढिप्रबल्यमिति अपशूद्राधिकरणनयोपजीवनेन अवयवशक्त्या निर्वाहो भाष्ये उक्तः। रूढ्यपरित्यागेन अपर्यवसानवृत्त्या आकाशशब्दस्य आकाशशरीरकपरमात्मपरतया निर्वाहोऽप्यभिमत एवोक्तम्। तदुपायान्तरसम्भवप्रदर्शनमात्रपरम्, न तु प्रकृताभिप्रायम् । अनन्यतासिद्धाकाशलिङ्गसत्व एव ‘‘जीवमुख्यप्राणलिङगादि’’ ति सूत्रोक्तन्यायावतारात्। परविद्यासु जीवोक्तिर्निरुक्त्यादेः पराश्रया। तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी-इत्याचार्योक्तेः भूताकाशशरीरकात् ब्रह्मणः सकलचेतनाचेतनवर्गोत्पत्त्यभावेन ‘‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त ’’ इत्यत्र आकाशशब्दस्य भूताकाशशरीरकब्रह्मप्रतिपादकत्वासम्भवाच्चेति द्रष्टव्यमिति स्थितम्॥ इति आकाशाधिकरणम्॥8॥