27 कार्याधिकरणम्

(4.03.05) कार्याधिकरणम्पूर्वत्रार्चिरादीनामातिवाहिकत्वमुक्तम् । अथ तेषांआतिवाहिकत्वं किं विषयमिति विशेषचिन्तया संगतिः । पंचाधिकरणकेऽस्मिन्पादे प्राथमिकाधिकरणत्रयेण अर्चिरादेरेकत्वेन गुणोपसंहारः उक्तःअनन्तराधिकरणद्वयेन तत्स्वरूपनिरूपणं क्रियते इतिपेटिका संगतिःबोध्या । वृत्तमनुकीर्तयन् अवान्तरसंगतिमाह - अर्चिरादिनेति । संशयमाह - किमयमितियद्यप्यत्र प्राधान्यात् प्राप्तिविषये संशय प्रदर्शनं युक्तं,अथापि तत्क्रतुन्यायात् तत्तदुपासकस्य तत्तत्प्राप्तिसिद्धेरावश्यकत्वेनोपासितृविशेषनिश्चयेप्राप्तिसन्देहो न संभवतीति संशयस्योपासितृभेद मूलत्वमुपजीव्य उपासीनान्नयतीत्युक्तंअत एव श्रुतौ “स एनान् ब्रह्म गमयतीति उपासितृ प्रतिपत्तिः । गमयतीतिश्रौतपदस्य सत्वेपि नयतिपदस्योत्तरसूत्रस्थत्वेन सौत्रत्वात् तदाकर्षःकृतः । पूर्वपक्षमाह - अस्येति । गत्युपपत्तेरित्यन्तेन सूत्रार्थःउक्तः । विवक्षिते हेत्वर्थं विवृणोति - न हीत्यादिना । अयमभिसन्धिःसस एनान्ब्रह्म गमयतीत्यर्चिरादिगतिश्रुतौएनानित्युपासक विशेषान्गन्तृन्निर्दिश्यार्चिरादीनांब्रह्मगमयितत्वं श्रुतम् । तेन च ब्रह्मशब्दवाच्यस्य गन्तव्यत्वंसिद्धम् ।तत्र नपुंसकब्रह्मशब्दस्य मुख्यार्थभूत परब्रह्मपरत्वेसर्वगतत्वेन श्रुतिसिद्धस्य तस्य गन्तव्यत्वमनुपपन्नंतदेवहि गन्तव्यं, यत्पूर्वमप्राप्तम् । प्राप्तस्य प्राप्त्यर्थंगमनानुपपत्तेः । अतः परस्य ब्रह्मणः प्राप्तव्यत्वायोगात् न ब्रह्मशब्दः परब्रह्मपरः किंतु हिरण्यगर्भाख्यकार्य ब्रह्मपरः तस्य चसत्यलोकवर्तितया गन्तव्यत्व मुपपन्नमिति । ब्रह्मणस्सर्वगतत्वेपिदेशविशेषप्राप्तानेव तद्ब्रह्म जानाति नान्यमिति नियमात् गन्तव्यत्वमावश्यकमितिशंका परिहाराय सर्वज्ञत्वादित्युक्तम् । क्वचिदेव तस्य कल्याणगुणपूर्तिःनान्यत्रेति परिपूर्ण ब्रह्म प्राप्त्यै गन्तव्यत्वमिति शंकापरिहारायपरिपूर्णमित्युक्तम् । अनेन सार्वदेशिक र्सावकालिकपरिपूर्णत्वमुक्तम्संबन्ध विशेष संपादनाय गन्तव्यमिति शंकापनोदनाय सर्वात्मभूतमित्युक्तम्नन्वेवं सति ब्रह्म प्राध्यर्थं परोपासविधानं व्यर्थं स्यात्तस्य नित्यप्राप्तत्वादित्यत्राह - नित्यप्राप्तेति । न ब्रह्म प्राप्त्यर्थतयापरोपासनविधानं किंतुस्वात्मत्वेन नित्यप्राप्तस्यापि पर ब्रह्मणःअप्राप्तत्वभ्रान्तिरूपाविद्यानिवृत्त्यर्थं, अतो न विरोधः इतिभावः । हिरण्यगर्भरूपं ब्रह्मोपासीनस्येति। अत्र ब्रह्मेति नपुसंकशब्दनिर्देशःब्रह्म गमयतीति श्रुतिनिर्देशमुपजीव्य । उपसंहरति - अत इति ।।

उत्तरसूत्रार्थमाह - पुरुष इति । पूर्वत्र गन्तव्यत्वोपपत्ति बलेनश्रौत ब्रह्म शब्दस्य हिरण्यगर्भपरत्वं निर्णीतम् । इह बहुवचनान्तब्रह्म लोक शब्देन गन्तव्यनिर्देश बलेन च ब्रह्मशब्दस्य हिरण्यगर्भपरत्वंनिर्णीयत इति भेदः । एतं ब्रह्मलोकं न विन्दन्तीत्यादिष्विव ब्रह्मैवलोकः इति कर्मधारयसमासः किं न स्यादिति शंका व्यवच्छित्त्यै बहुवचनेनचेत्युक्तम्परब्रह्मणः एकत्वात् बहुवचनानुपपत्तेः कर्मधारय समासो न संभवतीतिभाव । स्वमते सिद्धान्ते वक्ष्यमाणास्वारस्यमवलम्ब्याह - किञ्चेतिअत्र हिरण्यगर्भरुपप्रजापति शब्देन साक्षाद्हिरण्यगर्भं निर्दिश्यार्चिरादिनागतस्य तत्समीपगमन प्रत्यभिसन्धानात् प्रजापतिरेव गन्तव्यतया प्रतीयतेइति ब्रह्मशब्दोपि तत्पर एवइत्थं चार्चिरादिना हिरण्यगर्भाख्य कार्य ब्रह्म प्राप्त्युक्तेःतत्क्रतुन्यायेन तदुपासीना नामेव तत्प्राप्तिरिति निश्चीयते इति भावः ।।

अनन्तरसूत्रमवतारयति - नन्वेवमिति । निर्देष्टव्यं स्यादिति । युष्माकंप्रजापतिशब्दस्वारस्यमिव ब्रह्मशब्दस्वारस्यमस्माकमप्यस्तीति भावःसूत्रार्थमाह - य इत्यादि । ब्रह्मशब्दस्येव प्रजापतिशब्दस्यैवान्यथानयनंकिं न स्यादित्यत्राह - गत्यनुपपत्तीत्यादि । आदिशब्दादन्वयि गत्युपपत्यादिकंगृह्यते । तथा च कार्ये कारणोपचारः पितुःबहवः पुत्राः तेषु ज्येष्टःपितृसमः । ज्येष्टभ्राता पितृस्समः इत्यपि लौकिकाः अतोभगवदुत्पादितेषुप्रथमत्वात् चतुर्मुखस्य ब्रह्मसमत्वम् । अत एव ब्रह्माणमपि ब्रह्मइत्युच्यते । एवं परेणोत्पादितः चतुर्मुखः तेनोत्पादिता अन्येएतेषु साक्षात् उत्पादितः चतुर्मुखः सन्निकृष्टः । अतः तत्सामीप्यंचतुर्मुखस्य । अन्यच्च चतुर्मुखलोकानुभवः सर्वानुभवापेक्षया उत्कृष्टःएतदनन्तरानुभवः परमात्मानुभवः । अतः अनयोः सामीप्यमिति अनुभाव्यवस्तूनामपिसामीप्यम् ।।

अनन्तरसूत्रं चोद्यमुखेनोत्थापयति - अथ स्यादिति । एष देव पथ इत्यादिअमृतत्व प्राप्त्यपुनरावृत्तिबोधक श्रुन्तराणामपीदमुपलक्षणम्कुतो नोपपद्यते इत्यत्राह - हिरण्यगर्भस्येति । कार्यभूतस्येतिहेतुगर्भ विशेषणम् ।आ ब्रह्मभूवनाल्लोकाः इत्यनेन हिरण्यगर्भ लोकस्यविनाशबोधनात् तल्लोकस्थस्य हिरण्यगर्भस्यापि पुनरावृत्तेरावश्यकत्वात्तं प्राप्तानामपि कार्योपासकानां संसार प्राप्तिरूप पुनरावृत्तिरवर्जनीयेतिपूर्वपक्षिहृदयम् ।। सूत्रार्थमाह - कार्यस्येति । अर्चिराद्यातिवाहिकानांकार्यभूतहिरण्यगर्भोपासकमात्रनेतृत्वात् तथोपासीनानां च परब्रह्मोपासनाभावेनपरब्रह्मप्राप्त्यसंभवात् ब्रह्मलोकविनाशानन्तरं कथं परब्रह्मप्राप्तिरितिशंका परिहाराय - तत्राधिगतविद्यः इत्युक्तंअर्चिरादिना गतस्येत्यादि। एष देवपथः इत्यादि श्रुतीनां क्रममुक्तिपरत्वान्नदोषइति भावः ।आ ब्रह्मभुवनादित्यादि शास्त्रेण हिरण्य गर्भलोकस्य विनाशेपिन हिरण्यगर्भस्य पुनरावृत्तिः तस्याधिकारिकपुरुषत्वेन अधिकारावसानेब्रह्मप्राप्तिसिद्धेरावश्यकत्वात् । अतस्तेन सह तं प्राप्तानामपिब्रह्मप्राप्तिरिति न संसारित्वापत्तिरित्याशयः । उक्तार्थे श्रुतिप्रमाणमाह - तेब्रह्म लोके इति । यद्यपि सूत्रे उक्त श्रुतिरूप प्रमाणं नोक्तम्अथापि स्मृतेश्चेत्युत्तरसूत्रे चशब्दश्रवणात् पूर्व सूत्रे श्रुतिरूपहेतुर्विवक्षितः इत्यभिप्रायेणेयं श्रुतिरुदाहृतातेः सर्वे उपासकाः हिरण्यगर्भलोकं प्राप्ताःयतयः । ब्रह्मलोके=हिरण्यगर्भलोके । परान्तकाले=चतुर्मुखायुषोऽवसानकाले । परामृतात्=परामृतंब्रह्म प्राप्य । ल्यब्लोपे पञ्चमी । परिमुच्यन्ति=मुक्ता भवन्तीत्यर्थःइति बादरितात्पर्यम् ।। यद्वा परामृतात् =मरण प्रसक्तिरहितात्उपासितात्परमात्मनः इत्यर्थः परमात्मोपासन बलादिति फलितम् । अत एव तत्राधिगतविधःइति भाषितम्।ननु युगकोटि सहस्राणि । इति चतुर्मुखस्यापि पुनः पदवीप्राप्त्याशासत्वबोधनात्कथं तस्य परान्तकाले परिमुक्तिः । कथं तरां तेन गतानामुपासकानांमोक्षगमनमिति चेत्? यस्य चतुर्मुखस्य नैवं विधा आशा, तेन सहगमनंनानुपपन्नं यस्याशा, तस्य परमपदगमनाभावेपि तत्र गतानां अनुष्ठितोपासानांगमनेनैव विवादः इत्याशयात् ।।

उत्तरसूत्रं व्याचष्टे - स्मृतेश्चेति । ते सर्वे=हिरण्यगर्भं प्राप्तास्सर्वेकृतात्मानः=अधिगत परविद्यास्सन्तः परस्य =चतुर्मुखायुषः । अन्ते=अवसानेप्रतिसञ्चरे=प्राकृतप्रलये संप्राप्ते सति ब्रह्मणासह=चतुर्मुखेनसह परं पदं= ब्रह्म प्रविशन्तीत्यर्थः । बादरिमतमुपसंहरति - अतइति । ननु बादरिः अद्वैतिच्छायां पुरस्कृत्य पूर्वपक्षं करोति ।ब्रह्मणः नित्यप्राप्तत्वात् कथं उपसकस्य गमनं आतिवाहिकानां च कथंतरां गमयितृत्वमिति । एवं चेत् कार्यब्रह्मगमनामन्तरं वा तत्राधिगतविद्यत्वेपिप्रविशन्ति पदं परं इति परमपद प्रवेशः कथंनित्यप्राप्तत्वेन ब्रह्मणः एषां गमनासंभवादिति चेत् । प्रविशन्तीत्यस्यप्राप्नुवन्तीत्यर्थः । प्राप्तिश्च अविद्या निवृत्तिरूपः एव ।अत एव परिमुच्यन्तीतिः श्रुतिः पूर्व मुदाहृता ।।

अनन्तरसूत्रमाह - अत्रेति । अस्य सूत्रस्य कृत्स्नसिद्धान्तपरत्वंनास्तीति सूचनाय पक्षान्तरपरिग्रहेणेत्युक्तम् ।ब्रह्मणि मुख्यत्वादित्यन्तेनसूत्रार्थः उक्तः । ननु ब्रह्म शब्दस्योपचारेणचतुर्मुखपरत्वं किंन स्यादित्यत्राह - प्रमाणान्तरेणेति । कार्यत्वनिश्चये=कार्य ब्रह्मपरत्वनिश्चयेइत्यर्थः ।शक्तिलक्षणान्यतराधीनपदजन्योपस्थित्योः शक्त्यधीन पदजन्योपस्थितेःप्रबलत्वात् तस्या एवशीघ्रोपस्थितेः असिति बाधके तत्परित्यागेनलक्षणाधीनपदजन्योपस्थितेः परिग्रहो न युक्तः इति भावः ।अथ पराभिमतंबाधक प्रमाणं व्युदस्यति - न चेतिविशिष्टदेशेत्यादि । अविद्यानिवृत्तिर्हिप्रत्यगात्मस्वरूपतिरोधायककर्मणां निःशेषनिवृत्तिः । साच देशविशेषावच्छिन्न ब्रह्मप्राप्त्यनन्तरभाविनी ।अतो ब्रह्मस्वरूपस्य स्वतः सर्वत्र प्राप्तत्वेऽपि देशविशेषावच्छिन्नस्यतस्यपूर्वम प्राप्तत्वसंभवात् गन्तव्यत्व मुपपद्यते इति भावः ।उक्तमर्थं सदृष्टान्तं प्रमाणबलेन दृढयति - यथा हीति । अन्यथा विद्योत्पत्तेरपिशास्त्रसिद्धं वर्णाश्रमधर्मशौचाचारदेशकालाद्यपेक्षत्वं हीयेतेतिभावः । विद्योत्पत्तिः=विद्यायाः साक्षात्कारावस्थाप्राप्तिः ।विद्यानिष्पत्तिः =विद्यायाः विकासः स्वाभाविकज्ञानाद्याविर्भावःतस्य चनिःशेषाविद्यानिवर्तना रूपत्वं निःशेषकर्म रूप प्रतिबन्धकनिवृत्ति पूर्वकत्वरूपम् ।।विशिष्टदेशगति सापेक्षेति।यथा च ब्रह्मणोनित्यत्वेपि तत्प्राप्तिः काल विशेष सापेक्षा तथैव सर्वगतत्वेपिदेशविशेष सापेक्षेति भावः ।नच नित्युमुक्तत्वेन कालविशेषापेक्षानैवास्तीति वक्तुं शक्यम् । शास्त्र वैयर्थ्य प्रत्यक्षविरोधाद्यपत्तेःतथा प्राप्तस्यैव निःशेष कर्मक्षय पूर्वकस्वाभाविकज्ञान विकासोपपत्तेःतथाप्राप्तेः गति सापेक्षत्वाच्चातिवाहिकानां परब्रह्म गमयितृत्वमेवेतिभावः ।। नन्वविदुषः उत्क्रान्ति संभवेपि ब्रह्मविद्यानिष्टस्य श्लाधनीयप्रभावस्येहैवब्रह्म प्राप्नुवतः उत्क्रन्त्याद्य संभवात् न गतिरपेक्षिता इत्यत्राह - विदुषइति । पूर्वमेव=आसृत्युपक्रमाधिकरणे एवेत्यर्थः । एवं गत्यनुपपत्तिः परिहृता ।।

अथ विशेषितत्वाच्चेति सूत्राभिप्रेतां युक्तिमनूद्य निषेधति - यत्त्विति ।लोकशब्द बहुवचनाभ्यां=बहुवचनान्तलोक शब्देनेत्यर्थः ।कर्मधारयसमासस्यैव युक्तत्वादिति। अन्यथा तत्पुरुष समासाभ्युगमे लक्षणापत्त्यानिषादस्थपत्यधिकरणन्यायविरोध इति भावः । किं कुर्मः बहुवचनार्थान्यथानुपपत्त्यातत्पुरुष एवाभ्युपगन्तव्यः अतो लक्षणापि सह्यैवेत्यत्राह - अर्थस्येतिनहिचरमश्रुतबहु वचन बाधेन प्रथम श्रुतार्थः परित्युक्तुं शक्यःवस्तुतः प्रकृत्यर्थापेक्षया प्रत्ययार्थश्च दुर्बलः ।अतोगौण्यसंभवादितिसूत्रोक्तन्यायेन ऋषि शब्दोत्तरबहुवचनस्येवात्रापि बहुवचनस्यान्यथानयनमेव युक्तंस्वीकृतं चैवमेव पूर्वतन्त्रेपि । अदितिः पाशान् प्रमुमोक्तु इत्यत्रहिपाशस्यैकत्वेन प्रमाणान्तरसिद्धत्वात् तदुत्तर बहुवचनमविवक्षितार्थमित्युक्तम् । नच तत्र श्रुतस्य बहुवचनस्य पाशावयव बहुत्वविवक्षयाऽन्यथानयनं सुशकम् । अत्र च निरवयवत्वेन प्रसिद्धे ब्रह्मणि न कथं चिदपिबहुवचनं नेतुं शक्यमिति वैषम्यात् न कर्मधारय समासो युक्तः इतिवाच्यम् । सकलविभूति विशेषविशिष्ट ब्रह्मण एव प्राप्यत्वात् विशेषणाद्यानन्त्येनापिबहुवचनोपपत्तेः । अतो बहुवचनविरोधो न शंक्यः इति । अथ तत्पुरुषाभ्युपगमेऽपिन बहुवचनविरोधः इत्यभिप्रयन्नाह - परस्येत्यादिनात्यन्ताय न सन्ति= अत्यर्थं सन्त्येवेत्यर्थः । यद्वा - नन्वस्तुब्रह्मलोकानित्यस्य स्वारस्येनैवोपपादनम् । अथापि गमनानुपपत्तिस्तदवस्थैवनच देशविशेषावच्छिन्नस्य तस्य गन्तव्यत्व संभवः देशविशेषस्यैवाप्रामाणिकत्वात् । ब्रह्मणो देशविशेषे सति हि तादृशस्य प्राप्यत्वंयुक्तम् । नच परमव्योमादीनां लोक विशेषत्वं हृदयगुहादि स्थान परत्वात्तेषामित्यत्राह - परस्य ब्रह्मण इति । क्षयन्तमस्य रजसः पराके तमसःपरस्तात्तदक्षरे परमे व्योमन् इत्यादि श्रुतिभ्यः शुद्धसत्त्वमयं दिव्यमक्षरंब्रह्मणः पदम् । अथातो ब्रह्मणोलोकः शुद्धसत्वस्सनातनःत्रिपाद्व्याप्तिः परंधाम पादोऽस्येहाभवत्पुनः । त्रिपाद्विभूतिर्नित्यास्यात् अमृतं शाश्वतं दिव्यं सदा यौवनमास्थितम् । प्रधानपरमव्योन्नोरन्तरेविरजा नदी । वेदाङ्गस्वेदजनिततोयैर्विस्त्राविता नदी । तस्याः पारेपरव्योम्नि त्रिपाद्भूतिस्सनातनी । अमृतं शाश्वतंदिव्य मनन्तं परमंपदम् । शुद्धसत्वमयं दिव्यमक्षरं ब्रह्मणः पदम् । अनेक कोटि साहस्त्राग्निवर्चंघ्रुवमव्ययम्।सर्ववेदमयं शुभ्रं सर्गप्रलयवर्जितम् । अप्रधर्ष महानन्दंविशोकं विगतक्लमम् । ईदृशं परमं स्थानं निराशास्ते च तादृशाः इत्यादिस्मृत्यनुगृहीताभ्यःब्रह्मणो लोकस्यापह्नवो न संभवतीति भावः ।।उत्तरसूत्रार्थमाह - दर्शयतीति । समुत्थाय परंज्योत्युपसंपत्ति बोधनात्देवयानेन गमनं सिद्धमित्याशयेन देवयानेन गतस्येत्युक्तम् । अत्रोपसंपत्तव्यपरज्योतिषःएतदमृतमेतदभयमेतद्ब्रह्म, तस्य वा एतस्य ब्रह्मणो नाम सत्यमित्यादिभिःअमृतत्वाभयत्व ब्रह्मत्व सत्यशब्दनिर्वचनसिद्ध चिदचिन्नियन्तृत्वादीनामुक्तेः हिरण्यगर्भाख्य कार्य ब्रह्मविलक्षणत्वं सिद्धमिति देवयानेनगतस्यपरब्रह्म प्राप्तिरेवेति पर ब्रह्मोपासकानेवार्चिरादिरातिवाहिकोगणो नयतीति स्वीकर्तव्यमिति भावः ।।

अथार्चिरादिना ऋतस्य कार्यभूतहिरण्यगर्भ प्राप्तिप्रतिसन्धानरूपहेतुदूषणपरमुत्तरसूत्रं चोद्यमुखेनोत्थापयति - यदुक्तमिति । सूत्रार्थमाह - नचेतिससर्वात्मभावाभिसन्धानादिति । ब्राह्मणानां,यशो राज्ञां यशो विशामित्यादौब्राह्मण क्षत्रियाद्युपलक्षितानां सर्वेषां स्वस्य यशस्स्थानीयात्मत्वंबोधनात्स्वस्य सर्वात्मभावस्सिद्धः । सच सर्वात्मभावः स्वशरीरिणः ब्राह्मणादिशरीरिणश्चपरमात्मनः एकत्वादुपपद्यते । कार्यहिरण्यगर्भस्यच सर्वशरीरित्वाभावात्इदं प्रति सन्धानमनुपपन्नं स्यात् । अतो वाक्यशेषबलात् प्रजापतेस्सभांवेश्म प्रपद्ये इत्यनुसन्धानमपि परब्रह्मविषयकमेवेति भावःप्रजापतिशब्दस्य “प्रजापतिश्चरति गर्भे अन्तः “इत्यादाविव “पतिंंविश्वस्य’ इत्युक्त प्रमाणेन निरूपाधिकसर्वप्रजापतिपरः इति परस्मिन्नेवमुख्यवृत्तः ।।अतत्वश्रवणादिति। ब्रह्मलोकशब्दस्य चतुर्मुखलोकस्यआब्रह्मभुवनाल्लोका इत्यादिना नश्वरत्वेनावगतस्याकृतत्वं बाधितंस्यादिति भावः।सर्वबन्धेति। विधूय पापं शरीरं धूत्वेत्युक्तेरितिभावः । सर्वबन्धविनिर्मोकश्च कार्यहिरण्यगर्भं प्राप्तस्यन युक्तःतस्यैव बद्धत्वेन स्वयं तरितु मक्षम इति न्यायात् । इतरबन्ध विनिर्मोचकत्वस्यतस्मिन्नसंभवादित्याशयः । जैमनिमतमुपसंहरति - अत इतियत्तु एषदेवपथःतयोर्ध्वमायन्नित्यादिश्रुतीनां क्रममुक्तिपरत्ववर्णनंतदपि मन्दम् । अस्माच्छरीरात्समुत्थायेत्यादिना शरीरादुत्थितस्याव्यवधानेनपरब्रह्मोपसंपत्ति बोधनात् । मध्ये क्वचिल्लोके चिरकालविलम्बेनपरब्रह्म प्राप्त्यभ्युपगमायोगात् । ते ब्रह्मलोकेतु इति वचनमपिन क्रममुक्तिपरम् । तत्रत्यब्रह्मलोकशब्दस्य कर्मधारय समासेन परब्रह्मविषयत्वात् । न च चतुर्मुखलोकपरत्वम् । ऊर्ध्वमेकः स्थितस्तेषांयो भित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिमितिवचनेन मूर्धन्यनाड्या निष्क्रान्तस्य चतुर्मुखलोकाति क्रम प्रतिपादनेनचतुर्मुखलोकप्राप्त्यसंभवात्तेषां=हृदयरश्मीनां मध्ये य एको रश्मिः सुषुम्नाख्यः तेन सूर्यमण्डलंभित्वा ब्रह्मलोकं=चतुर्मुखलोकमति क्रम्य परम प्राप्यं परं ब्रह्मप्राप्नोतीति उक्तस्मृतेरर्थः। ततश्च ब्रह्मलोके=ब्रह्मण्युपास्येवर्तमानाः परब्रह्मध्याननिष्टाः परान्तकाले=परस्मिन्नन्तकाले चरमदेहावसानसमयेपरामृतात्=परस्मादमृतात् उपासन प्रीतात् पर ब्रह्मणो हेतोः परिमुच्यन्तिसर्वस्माद्वन्धात् विमुच्यन्ते इति श्रुतेरर्थः । ब्रह्मणा सह तेसर्वे इति वचनमपि नार्चिरादिना गतानां गति प्रकार विषयम् । अर्चिरादिनागतानां देहावसान समये एव सुकृतदुष्कृतयो र्हानेन हिरण्यगर्भ लोकावाप्तितद्वासतत्रस्थ भोगानुभवहेत्व भावात्तत्क्रतुन्यायविरोधात् । तदानीमेव ब्रह्म प्राप्तिविरोधाच्च । किंतुपुण्यकर्मविशेषेण हिरण्यगर्भलोकं प्राप्तानां तदुपर्यपि बादरायणःइति न्यायेन तत्रैव निष्पन्न विद्यानां गति प्रकारविषयमिति न विरोधःअतः परं ब्रह्मोपासीनानेवार्चिरादिर्नयतीति जैमिनिहृदयम् ।।

व्यवच्छेद्यस्फुटीकरणाय प्रतीकालम्बनव्यतिरिक्तानिति विवरणं कृतम् ।ननु ब्रह्मोपासकस्य प्रतीकालम्बनव्यतिरिक्तत्वात् स्वमतस्य जैमिनितादविशेषःइत्यत्राह - एतदुक्तमिति । बादरिमते अर्चिरादिगतेरसंभवमभिप्रेत्यनायं पक्षः संभवतीत्युक्तम् । जैमिनिमते नियमस्य संगतत्वमभि सन्धायनियमो नास्तीत्युक्तम् । नामादिषु ब्रह्मदृष्ट्योपासीन इव कोर्योपासकोपिप्रतीकालम्बनः । अस्तु प्रतीकालम्बनत्वं किं तत इत्यत्राह - न चेतिच शब्दो ह्यर्थे प्रसिद्धिद्योतकः । प्रतीकालम्बनत्वादेव नामादिषुब्रह्म दृष्ट्योपासीनानिवेतानपि न नयतीत्यर्थःतथा चार्थस्यासंगतत्वात् प्रथमपक्षो न युक्त इति भावः । अथ जैमिनिमतात्स्वमतेविशेषं दर्शयन् प्रतीकालम्बनव्यतिरिक्तान् स्फुटं निरूपयति - अपित्वितिउभयविधोपासकानामपि अर्चिरादिना नयनात् परमेवोपासीनानिति नियमोऽसंगतइति भावः । कार्योपासकस्यापि प्रतीकालम्बनत्वं समानमित्यभि प्रयन्तान्ननयतीत्याह - यत्वि त्यादिना ।अतः परं ब्रह्मेति। प्रतीकालम्बनव्यतिरिक्तेष्वपिकेषांचिदेवार्चिरादिगतिः जैमिन्यभिप्रेता ।स्वमतेप्रतीकालम्बनव्यतिरिक्तानांसर्वेषामपि अर्चिरादिगतिरभिप्रेतेति विशेषः इति भावः ।नयतीतिपक्षेइति ।अत्र परज्योत्युपसंपत्त्या इत्युक्तेः यथा क्रतुन्यायात् परब्रह्मोपासकस्यैव पर ब्रह्मप्राप्तिरिति वक्तव्यम्पर ब्रह्मप्राप्तिश्च अर्चिरादिनागतस्यैव । अतः कार्योपासकस्य परब्रह्मप्राप्त्यसंभवात् तत्साधन भूतार्चिरादिगतिरपि न युक्तेति न कार्यापासकानामर्चिरादिनानयनमिति भावः। तद्य इत्थं विदुरिति प्रकृतिवियुक्तं जीवात्मस्वरूपंब्रह्मात्मकत्वेन ये विदुरित्यर्थः । अतः पंचाग्निविद्यायाः ब्रह्मविद्यात्वम्तथा च पञ्चाग्निविद्या ब्रह्मात्मकस्वात्मविद्या दहरादि विद्यास्तुप्रत्यगात्मशरीरकपरमात्मविद्याः । अत्र विशेषणविशेष्य भावेएव व्यत्यासःएवमुपासकयोरूभयोरपि अप्रतीकालम्बनत्वमेव । एतत्सूचनायैव “तत्क्रतुश्चेतिसूत्रखण्डःननु पञ्चाग्निविद्यायाः ब्रह्मात्मकत्वानुसन्धानरूपत्वं कथं केवलप्रकृतिवियुक्तजीवात्म स्वरूपानुसन्धानरूपत्वस्यैवोक्तेः । तत्जीवस्वरूपं=इत्थं=प्रकृतिवियुक्तं येविदुरित्येव तत्र प्रतिपादनादित्यत्राह - अर्चिरादिनागतस्येति । अर्चिरादिना गमनं ब्रह्मप्राध्यादि, ब्रह्मोपासनरहितस्यतत्क्रतुन्यायेन ब्रह्म प्राप्त्यसंभवश्च ब्रह्मोपासनरूपत्वे हेतुःतद्य इत्थ मित्यत्र यच्छब्दवीत्सा हि अधिकारि भेदं व्यनक्तिः ।अतः तत्र प्रथङ्निदेशस्वारस्यात् विभागोपपत्त्यै प्रथमस्य ब्रह्मात्मकस्वात्मोपासनरूपत्वंद्वितीयस्य स्वात्मविशिष्ट ब्रह्मोपासनरूपत्वं च कल्प्यंननु तद्य इत्थं विदुरिति निर्देशस्वारस्यात् प्रकृति वियुक्त केवलजीवस्वरूपासकस्यापि अर्चिरादिगतिरेव किं नाभ्युपेयते अनुपासितांशस्यापिप्राप्तौ तत्क्रतुन्यायविरोधाभावात् ब्रह्म प्राप्त्युपपत्तिश्चयुक्तेति चेन्न, तथा सति ब्रह्मविद्यात्वाभावेन मोक्षजनकत्वासंभवात्नच श्रुतान्यथानुपपत्त्या अब्रह्मविद्याया अपि मोक्षसाधनत्वंकिं नेष्यते इति वाच्यम् । तस्मिन् दृष्टे परावरे, तमेवविदित्वाऽतिमृत्युमेतिनान्यःपन्थाः इत्यादिभिः ब्रह्मविषयकवेदनस्यैवामृतत्वसाधनत्वोक्तेःतदैककण्ठ्यायास्याः अपि ब्रह्मविषयत्वेन ब्रह्मविद्यात्व संपादनस्यैवन्याय्यत्वात्अतो ब्रह्मविद्यात्वे सिद्धे विभागेन पृथक्निर्देशोपपत्त्यै विशेषणविशेष्यभावेव्यत्यासः केवलं कल्प्यते । नच ब्रह्मणः विशेषणत्वेऽ अप्राधान्यंशंक्यं तावताप्यात्मत्वस्यापरित्यागेन प्राधान्यस्यावर्जनीयत्वात्अतो न विरोध इति । उत्तर सूत्र सांगत्यै प्रतीकालम्बनेषु वैषम्याह - नामादीतिअत्रकेवलत्वं नाचिद्वस्तुनि विशेषणतया विवक्षितम् । अचिन्मिश्रत्वस्ययत्र विवक्षणं तत्रैव केवलत्वनिशेषणस्य स्वारस्यात् ।

उत्तरसूत्रार्थमाह - यावन्नाम्नोगतमिति । देवादिनाम्नो गोचर इत्यर्थःतस्मादिति । वा शब्दश्चार्थः ।अचिद्वस्तु इति पदच्छेदः । दीपेचोक्तं अचिन्मिश्रं केवलं चाचिद्वत्विति । तथाचाचिन्मिश्रजीवोपासनंकेवलजीवोपासनं अचिद्वस्तूपासनमिति त्रिविधमुपासनं तत्रप्रत्येकंब्रह्मदृष्ट्या तद्वियोगेनचोपासने उपासन षङ्कं फलितम् । सर्वमिदंप्रतीकोपासनम् । अत्र सारावलिः - ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान्केवलान्वा यथेष्ट द्वेधापि ब्रह्म दृष्ट्या जडनिवहमपि स्वेन यद्वाऽन्यदृष्ट्याते सर्वेहि प्रतीक प्रणिहित मनसो नार्चिराध्वयो ग्याः ब्रह्मोपास्तेचलिंगं गतिरिममनधा सूत्रिता पूर्वमेवइति । भाष्ये केवलं वा चिद्वस्तु इत्यत्रा सन्धिविशेषात् अकारप्रश्लेषाप्रश्लेषाभ्यांअर्थो वर्णयितुं शक्यः । तथा च उपासनषट्कं फलेत् । अकारप्रलेषाभावे - अचिद्वस्तूपासनस्य नैव ग्रहणम् । तदा उपासने चतुर्विधत्वमेवउपासनस्योत्कृष्टविषयकत्वनियमात् अचेतनस्यानुत्कृष्टत्वात् तदुपासनमसंभवि । अतःअभिमानि देवतामन्तरेणोपासनं न संभवति । तथा च तदपि चिदुपासनमेवइत्यभिप्रायस्तेषाम् । अचेतनध्यानस्यसर्वसंमतत्वमस्ति । कामिन्यादयःध्यानविषयाभवन्तितथा धन चन्दनकुसुमादीन्यपि ध्याने विषयाः इति निर्विवादम् ।अंथाप्यतेषुउपासनशब्दप्रयोगः नैव क्रियतेमुख्यतया तथाऽप्रयोगेपि गौण्यावृत्तया उपासनशब्दप्रयोगः लोके परिदृश्यतेअतः अचिद्वस्तु इति पदच्छेदमुररीकृत्यार्थ वणनमपि नायुक्तम् ।अत एव दीपे केवलं चाचिद्वस्तुः इति स्पष्टमुक्तंयोहवै ज्येष्टंचश्रेष्टंच वेदे इति अचेतनविद्यापि श्रूयते । ब्रह्मकार्यान्तर्भूतंनामादिकं इति श्रीसूक्तिरप्यत्र दृश्यते । इति ध्येयम् ।। एवं मुपासकान्ननयतिएतद्व्यतिरिक्तानां ब्रह्मात्मकस्वात्मोपासान् परमात्मविशिष्टपरोपसकांश्चनयतीति भावः ।। कार्याधिकरणं समाप्तम् ।। इति चतुर्थाध्यायस्य तृतीयः पादः ।श्रीमते हयग्रीवाय नमः ।श्रीमते रामानुजाय नमः श्रीमते लक्ष्मीनृसिंहपर ब्रह्मणे नमः ।श्रीमते रामानुजाय नमः । श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थाध्याये चतुर्थः पादः ।