(4.03.04) आतिवाहिकाधिकरणम्अर्चिदिनपूर्वपक्षषडुदङ्मासाब्दवातादित्यचन्द्रविद्युद्वरुणेन्द्रप्रजापतिद्वारा देवयानेन मार्गेण विदुषो गमनमित्युक्तमेतावता । अथार्चिरादीनामातिवाहिकत्वंस्थाप्यते इति संगतिः । संशयमाह इदमित्यादि ।प्रथमपक्षं विहाय द्वितीयपक्षावलंबनेबीजं किमित्यत्राह - कालविशेषतयेति । एतेषां = दिनादिशब्दानाम् । उक्तशब्दानांभोगभूमित्ववाचकत्वमपि नास्तीत्यत्राह - भोगभूमित्वं चेति । अहोरात्रादिशब्दानां लोकशब्द सामानाधिकरण्यं वाच्यवाचकभावनिबन्धनमिति दिनादिशब्दैःभोगभूमिवाचकत्वं युक्तमिति पूर्वपक्षिहृदयम् ।नन्वत्राहरादिकाल विशेषाणामेव लोकशब्दवाच्यत्व मुच्यते न विपर्ययेणेत्यत्राह - अतएव चेति । अनुविधानं=अनुवृत्तिः । अग्निलोकमित्युक्त्या हि अग्नेःलोकत्वमवगम्यते । अतो भोगस्थानत्वमिति भावः । तस्मै स तत्र विजिहीयतेइत्यतोपि लोकत्वं सिद्धमिति ध्येयम् । दिनपूर्वपक्षादयः कालविशेषाःउत्तरोत्तरमधिकालश्च निर्दिश्यते । उत्तरोत्तरकालेअन्यश्चान्तर्गतःसंवत्सरं प्राप्नोति अन्ते इति चेत् उत्क्रान्त्यनन्तरमपि एकसंवत्सरानन्तरमेव ब्रह्मगमनमित्यपि स्यात् । इदं चानुपपन्नम् ।अतः कालपरत्वं न युक्तम् ।सिद्धान्तमाह - एवंप्राप्त इतिउपसंहारे श्रूयमाणमिति। सर्वत्र सन्दिग्धार्थे वाक्यशेषबलेन ह्यर्थोनिर्णेयः ।विद्युत्पुरुषस्य गमयितृत्वं श्रुतिसिद्धमिति तस्य मार्गचिह्नभूतत्वभोगस्थानत्वेन संभवतः । इत्थं च क्वचिद्गमयितृत्वे सिद्धे अन्येषामपि तथात्वमेवोचितम्ततश्च विद्युतः साक्षाद्गमयितृत्वं अन्येषां परंपरयेति भिदासिद्धिश्चेतिभावः । नन्वर्चिरादि शब्दस्य कथं देवतावाचित्वमित्यत्राह - वदन्तिचेति । आपो वाअकामयन्त अग्निर्वाग्भूत्वा मुखे प्राविरादित्यादौयथा चेतनलिंगेन तत्तदभिमानि देवतापरत्वं तत्तच्छब्दानां, तथैवात्रापिगमयितृत्वचेतनलिंगादभिमानि देवतापरत्वमिति भावः ।।
उत्तरसूत्रमवतारयति - यद्येवमिति । सूत्रार्थमाह - तत इत्यादि । उक्तशंकाकथं परिहृतेत्यत्राह - वरुणादयस्त्विति ।अयमत्र सूत्रार्थः - ततः अनन्तरम्कस्मादनन्तरं इत्युक्तेः “तटितोऽपि’ इति सूत्रोक्त तटित्पुरुषादनन्तरंइत्यर्थः । तरित् विद्युत्पुरुषः अमानवः । सर्वमेकार्थकम् । एतदनन्तरंवरुणादयः श्रुताः । अथापि ते न साक्षात् गमयितारः । तर्हि साक्षात्गमयिता कः इत्युक्तौ विद्युत्पुरुष एव । अतोऽनेनैव सहविदुषां गमनम्नान्यैः सह इत्येतदर्थं वैद्युतेन एव इति सूत्रे उक्तम् । अनेनवैद्युतात्पुरुषोमानस सत्य ब्रह्मलोकान् “इति श्रुत्यर्थोपि निर्णीतःएवकारः वारुणादि व्यवच्छेदमिव अन्यस्यापि व्यवच्छेदं करोति । श्रुत्यक्मानसःकः इति चेत् । विद्युत्पुरुष एवेति वैद्युतात्पुरुषो मानसः इत्यत्रपंचम्याः कथं निर्वाह इति चेत्? अमानवः स एवान् ब्रह्मगमयतीति श्रुतेःकथं निर्वाह इति प्रश्नसंभवात् । अतः श्रुतिद्वयनिर्वाहार्थं विद्युतादितिपंचम्यर्थः - त्याज्यः । वैद्युतार इन्द्रादि निक्षेप इव मानसपुरुषस्याप्यन्यस्यनिक्षेपोऽस्तु इत्यपि न शंकाम् । निर्देशस्यान्यथारूपत्वात् ।अतः पंचम्याः अभेदार्थकत्वमेव स्वीकार्यं वैद्युतपुरुषो मानसः इत्यपिपाठात् । अथ यइमे ग्रामे इत्याद्युक्त धूमादि मार्गे, आकाशाच्चन्द्रमसमित्यादिना - चन्द्रप्राप्तिःसुकृतिनामुक्ताओमित्यात्मानं युञ्जीतेत्यादि विहितन्यासविद्याप्रकरणे “अथयो दक्षिणेप्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छतीतिचन्द्रप्राप्तिरुक्ता । अर्चिरादि मार्गेऽपि चन्द्र प्राप्तिरुक्ताएतास्सर्वा अपि परस्परं भिन्नाः ।तत्तच्चन्द्रप्राप्तिजन्य फलस्यभिन्नत्वादिति ध्येयम् । केचितु आतिवाहिकार्चिरादिगणाः प्रसिद्धसांसारिकदेवताविशेषाएवअसंसारिदेवतारूपत्वे अग्न्यादि शब्दा स्वारस्यात् । अग्न्यादिशब्दानांस्थलानुसारेण भिन्नार्थकत्वानौचित्त्याच्चेति वदन्ति । अपरेत्वाचार्याःअमानवस्य वैकुण्ठवासिपरमपुरुष प्रापकत्वोक्त्या नित्यत्वसिद्धेःअन्येपि श्रीवैकुण्ठभृत्याः अप्राकृताः नित्यसूरिभूता एवअग्न्यादि शब्दस्य अग्रनयनादि प्रवृत्ति निमित्तेन भगवदाज्ञप्तनित्यसूरिवाचकत्वंच युक्तमिति वदन्ति । अत्राधिकरण सारावलिः । …..इदमत्रावधेयम् - श्रीमद्रहस्यत्रयसार न्यायसिद्धान्जन परमपदसोपानादिग्रन्थ परामर्श पूर्वकं अत्रार्थो निष्कर्ष्टव्यः । - न्यायसिद्धाञ्जनेनित्यविभूतिपरिच्छेदे इयं श्रीसूक्तिः “प्राकृताप्राकृतसंसर्गोनानुपपन्नः । अन्यथा प्राकृतलोकेषु भगवदवताराः परमपदेपि अर्चिरादिमार्गेसूक्ष्म शरीरस्य, वैदिकपुत्रादेर्गमनं वा कथं घटेत् । इति । अत्रपरमपद शब्दो विरजानद्यभि प्रायः । विद्यामाहात्म्यानुवृत्त सूक्ष्मशरीरस्य विरजास्नानानन्तरमेव निवृत्तिप्रतिपादनात् । निरजायाश्चशुद्धसत्वमयत्वात् । न तु वैकुण्ठ लोकाभिप्रायकः । सूक्ष्म शरीररस्यतत्र गमनाभावात्इति व्याख्यानं कृतम् । एतदनुसारे परमपदे सूक्ष्मशरीरस्य गमनं नास्तीतिप्रतीयते । एवं चेत् प्राकृताप्राकृतसंयोगस्य कथं सूक्ष्म शरीरमादायोपपपादनं इति शंकाऽवशिष्यते । अस्याः शंकायाः, विरजायाः शुद्धसत्वमयत्वेनाप्राकृतत्वात्तत्रसूक्ष्मशरीरेण स्नानं कृत्वा तस्य त्यागात् तदानीं प्राकृताप्राकृतसंयोगःउपपन्नः इति परिहारः कार्यः ।एतन्मते त्रिगुणद्रव्यस्य अप्राकृतद्रव्यस्यवैकुण्ठस्य च विरजा नदी सीमभूतेति वाच्यम् । अधोभागरूपत्रिगुणद्रव्यात्ऊर्ध्वभागस्थित वैकुण्ढलोकं गच्छन्न् सूक्ष्म शरीरयुक्तो जीवः विरजायांस्नानं विरचय्यैव गच्छतीतिअत एव परमपदसोपाने दिव्य देश प्राप्तिपर्वरूपाष्टमभागे “विमल मधुरसुरभिशीतल विरजा प्रवाहे अवगाह्य मलं प्रक्षाज्य इति वचनमपि सुसंगतम्एवमेतन्मते तां मनसात्येति इति श्रुतेः निर्वाहः दुश्शकः । स्नानमन्तरैव विरजानदीतरणोक्तेः । विभूतिद्वयसीमभूत नदी स्नानमन्तरेणतरणं चानुपपन्नम् । अर्चिरादिपर्वणि मनसा अत्येतीत्यस्य संकल्पेनतरतीत्यर्थश्च विवृतः । एतेन विरजायां स्नानं नाभिमतमिति प्रतीयतेविरजानदीप्रथमतीरे एव सर्वेन्द्रिय मनः प्राणविशिष्ट सूक्ष्मशरीरस्य त्यक्तत्वात् कथं मनसा तरणमिति शंकायां संकल्पेन तरतीत्यर्थस्वीकारेण परिहारः उक्तःश्रीमद्रहस्य त्रयसारेच बहुकालमभिलषितं देशविशेषं गत्वा नदीतरणोपायभूतपोतस्य तरणानन्तरं त्यागवत् संसार नदीतरणो पाय भूतस्य “महतापुण्यपण्येन क्रीतेयं काय नौस्त्वया इति साधनभूतस्य सूक्ष्मशरीरस्यत्यागं कृत्वा विरजायाः अनन्तरपार्श्वंगच्छतीत्युक्तम् । एतेन विरजानद्यांन स्नानं विवक्षितमिति च ज्ञायते । ननु तर्हि सीमभूतविरजास्नानमन्तरावैकुण्ठगमनं कथं इति शंका अवशिष्यते ।त्र छान्दोग्य श्रुति रादरणीयाननित्यविभूतिरूपं वैकुण्ठ भुवनं सच वैकुण्ठदेशो महान् । तत्र वैकुण्ठजनपदम्तत्रच वैकुण्ठ नगरम् । तत्रच मणिमण्टपादिविरजाच न वैकुण्टदेश सीमभूता । परं तु वैकुण्ठजनपद सीमभूता । त्रिगुणद्रव्यात्ऊर्ध्वं गच्छन्नयं मुक्तः सोपानमारुह्य प्रासादे पादमिव वैकुण्टभुवने पादं निक्षिपति । तत्रवैकुण्ठजनपदं गच्छति । ततश्च प्रकृतिमण्डलोत्तीर्णानन्तरंवैकुण्ठगमनम् । तदनन्तरम्। समदेशे एव गमनात् वैकुण्ठजनपद सीमभूतविरजां संकल्पेनैव तरति । स्नानस्यात्र न निर्बन्धः । अतः निरजानदीपूर्वतीरेएव सूक्ष्मशरीरत्यागः । अतो नदीविवक्षामन्तरापि प्राकृता प्राकृतसंसर्गोपपत्तिः सुसमीचीनापि भवतीति । “छान्दोग्येइति श्रुतिः - अनन्तरंविरजानदी प्रोक्ताअत्रायं क्रमो वेदितव्यः । मथित सूक्ष्मशरीरे सकरणग्रामस्य सप्राणस्यजीवस्य प्रवेशनम् । परमात्मनि अस्यविश्रमः । नाभिमूर्धान्त व्यापृतब्रह्मनाड्यां हृदयसमीपे भेदनम् । तद्वारा जीवस्य नाड्यन्तः प्रवेशःनतु हृदयात् नाभि पर्यन्तं गत्वा तत्रस्थ सुषुम्ना नाड्यां अन्तर्गमनम्जीवस्याधोगमनस्यानुपपत्तेः । ब्रह्मनाड्या बहिर्गमनं शीर्षकपालभेदन पुरस्सरम् । सूर्यकिरणावलम्बनेनोर्ध्वगमनम् । क्रमेण अग्निदेवता,दिनदेवता शुक्ल पक्षदेवता उत्तारायण देवता संवत्सरदेवता वायुदेवतादिभिःमार्गे सत्कारः । ततः सूर्य मण्डलगमनंततो सूर्यसत्कारः । उत्तारायण मृतस्य तत्र किंचित्कालं सायुज्यम्तदनन्तरंचन्द्रलोकगमनं सत्कारश्च । दक्षिणायन मृतस्य किंचित्कालंतत्र सायुज्यम् । पश्चात् विद्युत्पुरुष सत्कारः ।ततः वरुणेन्द्रप्रजापतिगमनम्तत्र तदातिबाहिक साहाय्येन विद्युत्पुरुषेन नयनम् । एवमण्डान्तर्वर्तिलोक अण्डकटाहदशगुणितोत्तर सप्तावरण भेदनपुरस्सरं बहिर्गमनम् । पश्चात्वैकुण्ठभुवनेपादन्यासः ।। एवं सुदूरगमनम् । जनपदसीमभूत विरजानदीतीरगमनं सूक्ष्म शरीरत्यागः । विरजातरणम् ।अमानवकरस्पर्शः । सालोक्यम्अमृतमयविग्रह योगात् सारुप्यलाभःवैकुण्डलोकान्तःप्रवेशः ।इति अमृतमय समुद्र दर्शनम् । ऐरंमदीयनामकामृतमयसरसस्समीपगमनम् । भगवतः स्थावरावतार वत्स्थितस्याश्वत्थस्य समीपगमनम्पंचशताप्सरस्त्रीसत्कारः । तिल्यवृक्ष समीप गमनम् । सालज्यसंस्थानरूपास्थान मण्टपगमनम् । अपराजितायतनरूपदिव्यास्थानगमनम् । दिव्यगन्धप्रवेशः (मुक्तेषु) गन्धर सतेजस्समुदित विलक्षणदिव्य मगंलविग्रहवैशिष्ट्यम् । वैकुण्ठनगर समीपगमनम् । पंक्तिशो नित्य सूर्यागमनम्पुरतः आगत्य तैः पूजनम् । गोपुरसमीपगमनम् । तत्र गोपुरद्वारस्थद्वारपालभूतेन्द्र प्रजापति समीपगमनम् ।। भगद्दासभूता इमे अस्मत्स्वामिनःएवइत्युक्त्वा इमान् दिव्यनगरे प्रवेशयन्तु इति प्राथनापूर्वकं तैःप्रवेशनम्द्वारकवाटलङ्घनम् । उभयवीथीमध्यगमनम् ।तदा तत्तुद्गृहेषु पादप्रक्षालनम्महालक्ष्मि प्रभृत्यति सुन्दरीभिः स्त्रीभिः श्रीशढकोप सच्चूर्णगन्ध पूर्णकुंभ फल दीपादि पुरस्सरेण अग्रतः आगत्याह्वानम् । हिरण्मयदिव्यविमानप्रवेशनं ब्रह्मयशः - (परमात्मसर्वगुण) प्रवेशः। श्रीमहामणि मण्डपप्रवेशः । तत्र - कुमुदकुमुदाक्षःशंखकर्ण सर्पनेत्र पुण्डरीक, वामनसुमुख सुप्रतिष्टिताः अष्टौ पार्ष देश्वेराः । एवंचण्डप्रचण्ड धातृविधातृ जयविजय भद्र सुभद्राः अष्टौ द्वारपालका सन्तिः । एतैः सस्नेहंसबहुमानंच सादरेणावलोकनम् ।सूत्रवतीसमेत विश्वक्सेन नियुक्तास्थाननिर्वाहकैः शेषाभूतपरिवट्टालंकारःअथोत्थायोत्थाय पुनः । प्रणामःपुनः ।मणिमण्डपस्य पुरतो गमनम् ।तत्र गरुडदर्शन तन्नमस्कारादि । भगवद्गुणोत्सुकानां रसिकानां भगवतिअस्थानेप्यभयकाङ्खिणां नित्यसूरीणां मध्ये प्रवेशनम् । पूर्वं कदाकदाइति संजातायाः आशायाः पूर्तिकरणम् । भगवत्सेवासक्त स्वासाधारणविग्रहविशिष्ट दिव्य परिजन परिच्छदादि दर्शनं सर्व विधकैंकर्य मनोरथविशिष्टस्यास्य,पर्यंकपरिसरस्थशिष्यविषयेप्सित मनोरथ लाभतुष्टास्वाचार्याणां वन्दनं कृतज्ञताविष्करणम्दिव्य पर्यक समीपगमनम् ।सहस्र स्थूणे दृढे उग्रे इत्युक्तं सहस्र पादयुक्तं हिरण्मयदिव्यविमानंइदमेव प्रजापतेः सभां वेश्म प्रपद्ये इत्युक्तं वेश्म । अत्र विमानेअष्टपार्श्वेषु कुमुद कुमुदाक्षादयः अष्टगणाधिपतयः (सायुधाः वाहनाधिरुढाःसपरिवारा भगवन्तं रक्षन्तो निवसन्ति । चण्डप्रचण्डादयः अष्टौ द्वारपालाःद्वारचतुष्टयेपि पार्श्वद्वये द्वौ द्वौ इतिरीत्या रक्षन्ति । तदन्तेगजानन जयत्सेनादिपरिवारैः सहितः सूत्रवती समेतः विष्वक्सेनः सेनान्यःआस्थाननिर्वाहकस्तिष्टति । रुद्रा सुकीर्तिभूतपन्तीसहितः छन्दोमयोगरुडः पुरतस्तिष्टति । वारुणीकान्तीभूतस्वपत्नीभ्यां अनन्ताख्यःआदिशेषः पश्चाद्भागेएकत्राचार्यपंक्तिः । अपरत्र महानन्दपरवशाः नित्यमुक्ताः ।।मध्ये ज्योतिर्मयं सिंहासनरूपं दिव्यपर्यकम् । पर्यंकस्यायवाः तत्त्वाभिमानिदेवताएव । धर्म ज्ञानवैराग्य ऐश्वर्यरूपाःपादाःचत्वारः पीठपादाः । अधर्मअज्ञान अवैराग्य अनैश्वर्यरूपाः चत्वारः पाठवाहकाः ।सत्वरजस्तमांसिकृतत्रेता द्वापरकलियुगाश्च ओतःप्रोतरूपाः विमानफलकाः एतत्पर्यंकोपरि - कोटिसूर्यप्रकाशं महत्तामरस पुष्पं विराजते । अत्र विमला, उत्कर्षिणी ज्ञानक्रिया योगा प्रभ्वी सत्या ईशानाः चामरहस्ताः अष्टदलेषु वर्तन्तेकर्णिकायां अनुग्रहरूपाचामरहस्ता कैंकर्यं कुर्वन्ती वर्तते ।आ्युधाभिमानि देवताः आभरणाभिमानिदेवताश्च शिरोहस्ताः विराजन्तेकर्णिकामध्ये अनन्तरूप आदिशेषः । तस्मिन् भोगि भोगे नीलमेघश्यामलःसर्वेश्वरः शंख चक्रपाणिः।। दक्षिणपार्श्वे विद्युत्सदृशवर्णा महालाक्ष्मीःचकास्ति । वामपार्श्वे श्यामलवर्णे भूमिनीले विराजेते । नित्यसूरिभ्योमुक्तेभ्यश्चाभयं प्रदिशन् स्वानुभवं च दास्यन् अनुगृह्णानः विद्योततेयस्य अस्यभगवतः अवस्थिति प्रदर्शकोऽयं श्लोकः - “सव्यं पादं प्रसार्यंश्रितदुरितहरं दक्षिणं कुञ्च चित्वा जानुन्याधाय सव्येतरमितर भुजंनागभोगे निधाय ।पश्चात् बाहुद्वयेन प्रतिभटशमने धारयन् शंखचक्रेदेवीभूषादिजुष्टोजनयतु जगतां शर्म वैकुण्टनायः ।।“इति ।।एव मर्चिरादि मार्गेण वैकुण्ठलोकं गतस्य न पुनरावृत्तिः एतेन प्रतिपाद्यमानाइमं मानव भावर्तं नावर्तन्ते इति श्रुतेः । एवं मार्गान्तराण्यपिसन्ति । वस्वादि पदप्राप्ति पूर्वक मोक्षसाधनभूतमधुविद्यानिष्ठानांआदित्यसायुज्यं प्राप्तानां आदित्यावासने एव मोक्षावश्यं भावात्ततः पूर्वं अग्न्यादीनां नाशात् नार्चिरादिगति संभवः । परिशुद्धसत्वगुणवतांअनिरुद्धस्वरूपनारायण प्राप्तिः । सचानिरुद्धः स्वयमेव परवासुदेवं नयति इत्युक्तत्वादेषांअन्या सरणिः । केषांचित्पुण्यपाप विरहिणां स्वाभिमतविष्णु लोक जिगमिषूणांदग्धेन्धनानां सर्व लोकतमोहन्त्रादित्यो द्वारंतेनदग्धसर्वांगाः परमाण्वात्मभूताः अनिरुद्धं प्रविशन्ति । तस्मात्त्यक्ताःप्रद्युम्नम् । तेन विसर्जिताः जीवाभिमानि देवतारूप संकर्षणंप्राप्नुवन्ति । ज्ञानयोगिनोपि तैस्सहः संकर्षणमाप्नुवन्ति । ततःत्रैगुण्यहीनाः शीघ्रमेव परमात्मानं लभन्ते । स एव प्राप्यः वासुदेवःसर्वावास भूतः इत्युक्तम् । अतोन्योपि मार्गः भारते उक्तः । एवंजयत्संहितायामपि । - श्वेतद्वीपं गत्वा सर्वान्तर्यामि परमात्मानंलभन्ते । ततः क्षीराब्धिस्थं अनिरुद्धं प्रविशन्ति । ततः प्रद्युम्नम्ततः संकर्षणम् । सदा ब्रह्मध्यानसक्तानां पांचकलिक कर्मसु निरतानांसिद्धानामपरो़यं मार्गः इत्युक्तम् । श्रीभाष्येपि श्रीपाञ्चरात्राधिकरणे विभवार्चानात्व्यूहं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवारण्यं सूक्ष्मंप्राप्यते इति वदन्ति इति चोक्तम् । केषांचिदधिकारिविशेषणां अयंक्रममुक्तिपक्षः । एवं सत्यलोकात् मुक्तिं प्राप्नुवतां नार्चिरादिःतेषां पूर्वमेवनाशात् ।अतो ब्रह्म प्रेप्सूनां अधिकारि भेदेनमार्ग भेदः स्वीकार्यः ।एतेषामपि न पुनरावृत्तिः । वैदिकपुत्राणांतुअस्त्येव पुनरावृत्तिः । येन मार्गेण गमने पुनरावृत्तिः नास्तीतिश्रुति सिद्धं तद्भिन्नमार्गेण तेषां नयनात् पुनरावृत्तिःधर्मसुनु राज्यपालनकाले सूतिकागृह एव मृतपुत्रस्य द्विजस्य कस्यचित्प्रलापमवेक्ष्य, पुनरप्येवं मरणे अग्निं प्रवेक्ष्यामीति अर्जुनेनसान्त्वनं प्राप्तस्य शरकूटेन छन्नत्वेपि पुनरपि मृतंशिशु मवेक्ष्यासहमानदुखस्य तस्य द्विजस्य शान्त्यर्थं अग्निं प्रविष्टुकामेनार्जनुनेनतेन च विप्रेण सह रथमारुह्य परमपदं श्रीकृष्णः ययौ । दूर एवं अर्जुनंविप्तं रथं च निक्षिप्य स्वयमेकाकी जगाम। “द्विजात्मजास्ते युवयोःदिदृक्षुणा मयोपनीताः भुवि धर्मगुप्तये । कलावतीर्णौ अवनेः भरासुरान्हत्वेह भूयस्त्वरयेत मन्ति मे इति लक्ष्म्यादिभिः शान्तहृदयः श्रीकृष्णःतान् द्विज सूतानानाय ददौ इति पौराणिकी कथा"घाम्नो निजात् द्विजसुतान् पुनरानयंस्त्वं, ता मेवतां तनुमहो कथमानयंस्त्वम्इत्यभियुक्तानां स्तुतिश्च । ऋषिपुत्रत्वात् जननकाले एव हरिद्राचूर्णपट्टवस्त्र यज्ञोपवीताभरणादिभिस्सह जाताः । इमेद्विजपुत्राः । तथैवायंकृष्णः आनीय ददौ इति तात्पर्यम् । यथा कृष्णः जननकाले पीताम्बरादिविशिष्टो जातः यथा च कर्णः कवच कुण्डलैस्सहः यथा चाग्निसकाशात्दौपद्याः धृष्टघूम्नस्य जननम् ।। अतिवाहिकाधिकरणं समाप्तम् ।।