25 वरुणाधिकरणम्

(4.03.03) वरुणाधिकरणम्उत्तरत्र संशय प्रदर्शनायादौ उक्तमर्थं प्रदर्शयति - कौषीतिकिनामिति । वायोरनन्तरं वायुलोकं स वरुणलोकमिति पाठक्रमेण वरुणस्यप्राप्तत्वेपि देवलोकादादित्यमिति श्रैतक्रमेणबलीयसा आदित्यस्यैवप्राप्तिरित्याह - आदित्यस्यापीति । अत्र=कौषीतिकीवाक्ये । अर्चिप्रभृतिष्वितिअअर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाण पक्षाद्यान्षडुदङेति मासांस्तान्मासेभ्यः संवत्सरमिति श्रौतक्रमात् अर्चिर्दिनपूर्वपक्ष षडुदङ्मासशब्दानां प्रवृतौ मासेभ्यो देवलोकं स वायुमागच्छति इति प्रमाणबलेनानन्तरंवायोः ततो देवलोकादादित्यमिति आदित्यस्य तदनन्तरं आदित्याच्चन्द्रमसमित्यादीनांचन्द्राद्यमानवान्तानां च प्रवृत्तौ तस्य “स एनात् ब्रह्म गमयतीतिब्रह्मप्रापकत्वोक्तेःमध्ये अन्ते वा वरुणेन्द्रप्रजापतीनामवकाशएव नास्तिन चावकाशाभावात्तेषां त्याज्यत्वम् । सवरुणलोकं स आदित्यलोकं सचन्द्रलोकंस प्रजापति लोकमिति श्रुतिवैयर्थ्यापत्तेः । नच पाठक्रमानुरोधेनवरुणस्य वाय्वनन्तरं प्राप्तिर्युक्ता । तस्यापि प्रबलेन देवलोकादादित्यमितिश्रौत क्रमेणादित्यस्यैव प्राप्तेः । नच श्रुतावैयर्थ्यायार्चिषःपूर्वमेव वरुणादीनां निवेशो युक्तः । तेऽर्चिषमभि संभवन्तीति श्रुतेरन्यथासिद्धत्वेपिदेवयानं पन्थान मापद्यानिलोकमिति श्रुत्या अग्नि पर्यायस्यार्चिषएव प्राथम्योक्तेस्तद्विरोधात् । आपद्याग्निलोकमिति हि श्रूयतेएतदर्थमेव कौषीतिकिनां स एवं…प्राथम्यमविगीतमिति आदौ भाषितम्एवं च पठितस्य वरुणस्य पाठार्थवत्वायवायुलोकं वरुणलोकमिति पाठक्रमानुसारेणवायोरुर्ध्वं निवेशः कार्यः । क्रमिबाधापेक्षया श्रौतक्रमबाधस्योचितत्वात्इइन्द्र प्रजापती अपि तदनन्तरमेव निवेशयितन्यौ । नच आदित्यलोकंइन्द्रलोकं प्रजापतिलोकं इति पाढ क्रमात् आदित्यादनन्तरं चन्द्रात्प्रागेवतयोर्निवेशस्यादिति वाच्यम् । आदित्याच्चन्द्रमसमिति आदित्यारुर्ध्वंचन्द्रस्य श्रवणेन तत्क्रमबाध प्रसंगात् । चन्द्रादूर्ध्व निवेशोपिन संभवति । चन्द्रमसो विद्यूतमिति विद्युतः क्रमप्राप्तत्वात् ।क्रमद्वयभंगापत्तेश्च । तस्मात् अन्यत्रावकाशाभावात् पाठक्रमरूपहेतोःप्रकृते सत्वाच्च वाय्वादित्ययोरन्तराले अवश्य निवेशनीयवरुणनिवेशनस्यआवश्यकतया तेन च वाय्वादित्ययोः क्रमस्य भग्नतया तत्रैवेन्द्र प्रजापत्योर्विवशनमप्यु चितमितिराद्धान्तमाह - उच्यते इति ।मेघोदरवर्तित्वादित्यादि। वरुणाभिमानविषयीभूत जलंचमेधोदरस्थम् । तत्र विद्युत् स्फुटतर दृश्या । सलि लं चन तथा दृश्यम् । अतः सलिलस्थ विद्युत उपरिस्थितिर्गम्यते ।एवमभिमान,विषययोः परस्परसंबन्धात् तदभिमानिदेवतयोः विद्युद्वरूण शब्दप्रतिपाद्ययोरपिपरस्पर संबन्धस्य न्याय्यत्वात् तटिदभिमानिदेवतायाः ऊर्ध्वं सलिलाभिमानिदेवतायाः निवेशो युक्तः । एवं वेदेपि द्युपर्जन्य पृथिवीक्रमेपर्जन्यःस्वर्गादनन्तरस्थः । ततोपि तटिदधस्तात् । तटित्पुरुषस्याप्युपरिमेधोदरे वरुणः । अतोपि तटित्पुरुषात् उर्ध्वं वरुणनिवेशो युक्तइति भावःननु विद्युद्वरुणयोर्यथोक्तस्संबन्धोऽस्तु । अथापि स वायुलोकंसवरुणलोकं इति पाठक्रमबाधेन विद्युदुपरि वरुणस्य कथं निवेशः इत्यत्राह - एतदुक्तमितिपाठक्रमोपक्षयापि अर्थक्रमस्य बलीयस्त्वात् विद्युदनन्तरमेव वरुणस्यनिवेशो युक्तः इत्थंचागन्तुकानामन्ते निवेश इतिन्यायेन वरुणोपरिइन्द्रप्रजापत्यो निवेशश्च सुकरः । वरुणस्य विद्युत्पुरुषानन्तरभावित्वेपिआन्तं विद्युत्पुरुषस्य न त्यागःवरुणादीनामप्रधानत्व मेवावरुणादीनांकिञ्चिददूरमेव नेतृत्वं, आमानवस्य विद्युत्पुरुषस्यैव आन्तं नेतृत्वम्एएवं विद्युद्वरूणयोः संबन्धस्य समानत्वेपि विद्युदनन्तरमेव वरुणस्यनिवेशः नतु ततः पूर्वं इत्यर्थ विशेषद्योतनार्थः सूत्रे अधि शब्दःअधिकतया प्रयुक्तः"चन्द्रमसो विद्युत” मिति श्रोतृक्रमाभंगाय तथास्वीकारावश्यकत्वात्अत्र दर्पणम् । मेघोदरोत्पन्ना बहिः प्रसृता विद्युत् । अतं प्रथमंगन्त्रा सैव प्राप्यते ।उदरस्थं जलं तदन्तर्देवता पश्चादेवेति ।तर्हि चन्द्रमण्डलादूर्ध्वस्य आदित्यस्य चन्द्रात्पूर्वत्वं कथंइति चेत्? श्रौत क्रमाविरोधाय तत्र चन्द्रदेवतायाः पश्चात्प्रापकत्वमिष्यते । न त्विह स्वरस प्रतीतभंगः । किं तु देवलोकादादित्यं आदित्याच्चन्द्रमसंचन्द्रमसो विद्युतमिति श्रौतक्रमरक्षणमेवेति इति ।।विष्णुपुराणे ध्रुवचरिते एवं क्रमनिर्देशः - 1. भूमेः उपरि लक्षयोजनदूरस्थंसूर्यमण्डलम् । 2. सूर्य मण्डलात् । लक्षयोजनदूरस्थं चन्द्रमण्डलम्3. चन्द्र मण्डलात् । लक्षयोजन नक्षत्र मण्डलं, 4. नक्षत्र मण्डलात्लक्षयोजनदूरस्थंबुधमण्डलं, 5. बुध मण्डलात् । लक्षयोजन दूरस्थंशुक्र मण्डलं 6. शुक्रमण्डलात् । लक्षयोजनदूरस्थं अंगारक मण्डलं7. अंगारक मण्डलात् । लक्षयोजनदूरस्थं बृहस्पति मण्डलम् । 8. बृहस्पतिमण्डलात् । लक्षयोजनदूरस्थं शनिमण्डलम् । शनिमण्डलात् । सप्तर्षिमण्डलम्सप्तर्षि मण्डलात् । लक्षयोजनदूरस्थं ध्रुवमण्डलंइदं च सकल ज्योतिश्चक्रस्यापि मध्ये स्थापितम् । सकलानि च ज्योतींषिइदं प्रदक्षिणीकृत्य भ्रमन्तेमेधिबद्धवृषभा इव सकलज्योतिषि इति।। सप्तसंख्याकेषु दिवसेषु प्रथमं सूर्यवासरः पश्चात् इन्दुवासरः,इति क्रमः ।मण्डले भौममण्डलात् पूर्वं बुधमण्डलं, गुरुमण्डलात्पूर्वं शुक्रमण्डलमिति विपर्ययो द्रष्टव्यः ।। नन्वेवं विद्युतऊर्ध्वंवरुणेन्द्र प्रजापतीनां निवेशे तेषामेव ब्रह्म गमयितृत्वेन तत्पुरुषोऽमानवःस एतान् ब्रह्म गमयतीति श्रुतं विद्युत्पुरुषस्य ब्रह्म गमयितृत्वंविरुध्येत इत्यत्राह - ततश्चेति । वाय्वनन्तरं वरुणनिवेशवादिनामपिश्रौत क्रमविरोधो दुर्वारःपाठक्रमस्तु विशेषहेतुः अस्माकंतु श्रुतविरोधेपि प्रबलः अर्थक्रमोऽधिकःअतश्च वरुणस्य विद्युदनन्तरत्वे सिद्धे सद्वारकमेवामानवस्य गमयितृत्वमित्यभ्युपगम्यतेइति न तद्विरोधोपीति भावः । ननु मेघोदरवर्तित्वरूप संबन्ध लक्षणार्थक्रमबलात् वरुणस्य विद्युतः पूर्वमेव निवेशः किं न स्यात् । तथासति हिविद्युत्पुरुषस्याव्यवधानेन ब्रह्मगमयितृत्वोक्तिरपि रक्षिताभवतीतिचेत् तर्हि इन्द्रप्रजापत्योः कुत्र निवेशः ।वरुणानन्तरत्वे विद्युत्पुरुषात्पूर्वभावित्वेनउक्तार्थक्रमो बाधित एव । विद्युदनन्तन्तरत्वे ब्रह्मगमयितृत्वोक्तिररक्षितैवअत उक्तरीतिरेव शोभनाअत्र श्रुत्यन्तरे मानसस्य ब्रह्म प्रापकत्वोक्तिरपि आमानवस्यैवएकस्यैव नामधेयद्वयमिति बोध्यम् ।। भोजनार्थं ब्राह्मणाः आगताःयथा यथमुपविष्टाश्च । पश्चात् के चन ब्राह्मणाः अपि आगताः तदा पूर्वोपविष्ठानांउत्थापनं नैव संभवति । पूर्वोपविष्ट पुरुषानन्तरमेवेते उपवेश्याभवन्तिअयमेवन्यायः सर्वत्रापि ।। वरुणाधिकरणं समाप्तम् ।।