(4.03.02) वाय्वधिकरणम्एवमर्चिरादिमार्गस्य भिन्नदेशाम्नातस्यैकत्वं स्थापितम्अथ क्रमश्चिन्त्यते इति संगतिः ।उत्तरत्र चिन्तां विवक्षुः प्रथमंविषयं शोधयति - तत्रार्चिरादिके इत्यादिना । देवलोकस्योपसंहार्यत्वेसिद्धे एव संशयोत्थान मित्यतः सर्व शाखाप्रत्ययन्यायेन पूर्वाधिकरणसिद्धमुभयत्रोभयोपसंहार्यत्वंदर्शयति उभयत्रापीति । संवत्सरदेवलोकयोः पञ्चमीबलेनानन्तर्यस्यश्रुतिसिद्धत्वेपि अधिककालानां न्यूनकालोत्तरनिवेशरूपार्थ स्वभावस्याधिकहेतोःसत्वात् बत्सरस्य मासानन्तरत्वमित्याह - तत्र मासादिति । यद्यपि कालवाचकानांदिनपूर्वपक्षादीनां अभिमानिदेवतापरत्व स्वीकारेण ब्रह्मगमयितृत्वंउत्तरत्र प्रतिपाद्यतेअमानसपुरुषवत् साक्षात् परमात्मना नियुक्त नित्यसूरिवत् पुरुषपरत्वंच । अथापि शब्दस्वाभाव्य पर्यालोचने अधिककालानां न्यूनकालेभ्यःउत्तरोत्तरत्वेन निवेशः सूच्यते इति तात्पर्यम् । दिनाद्यभिमानिदेवतापरत्वे तु नैव विवादः काल तारतम्यस्य स्पष्टत्वात् इति बोध्यम्।।श्रौतक्रमस्य तुल्यत्वेपीति। श्रुत्यर्थ पाठ प्रवृत्ति मुख्यकाण्डाःक्रम प्रमाणानि । पंचमीविभक्यभिहितक्रमस्य श्रौतत्वात् श्रौतक्रमःउभयत्र तुल्य । ननुमासानन्तरं संवत्सरः तदनन्तरंच देवलोक इति युक्तमेवकिं तत इत्यत्राह - अन्यत्रेति । स वायुमित्यादिस ब्रह्मवित् छान्दोग्योक्तार्चिर्दिन पूर्वपक्ष षडुदङ्मासाब्दद्वारेण वायुमागच्छति ।स वायुः तस्मै=आगताय ब्रह्मविदे विजिहीते=आत्मावयवान्विगमयति छिद्रीकरोति स्वात्मानमित्यर्थः । ब्रह्मविदो न गमन प्रतिरोधकःइति भावः । कियत्परिमाणं = छिद्रमित्यत्राह - यथा रथचक्रस्य खमितिचक्रमध्यवर्तिरन्ध्रंयावत्परिमाणं तावत्परिमाणच्छिद्रं करोतितेनछिद्रेण उर्ध्वंगत्वा स आदित्यलोकमागच्छतीत्यर्थः ।एवमग्रेपिएवमत्रादित्यात्पूर्वं वायुर्निवेशितः । यद्यपि कौषीतिकी वाक्येपाठ क्रमेण अर्च्यनन्तरं वायुः प्राप्तइति दिनात्पूर्वमेव तस्यप्राप्तिः नत्वादित्यात् अथापि पाठक्रमापेक्षया श्रौतक्रमस्य बलीयस्त्वात्वायुप्राप्त्यनन्तरं स ऊर्ध्वमाक्रमते स आदित्यमिति श्रुत्यैव आदित्यप्राप्तिबोधनेनआदित्यात्पूर्वं निवेशःआवश्यकःअग्निलोकमागच्छति स वायुलोकमितिपाठक्रम एवहि तत्र।न प्रातिपादिकेनविभक्त्यावा क्रमोनिर्दिष्टः इत्यभि प्रयन्नाह - तत्र कौषीतिकिनामितिएवं फलितं क्रमं दर्शयति - अत इति । तथा चैकस्मिन्नेव स्थाने वायोःदेवलोकस्य च प्राप्तिस्सिद्धा । नात्रपौर्वोपर्यनियाकमप्यस्ति ।अतो यथेष्टंगन्तुं शक्यते इति पूर्वपक्ष्याशयः ।प्रसिद्धेरिति । रुढिभेदादित्यर्थः ।क्रम प्रापकं क्वचित्प्रातिपदिकंक्वचित् विभक्तिः । संवत्सरस्य मासानन्तरत्वेइवार्थसामर्थ्यादिरधिकहेतुर्नकस्यापि । अतः संवत्सरादित्ययोर्मध्यपातरूप क्रमस्योभयोः श्रुतिसिद्धत्वात्अनयोः क्रमेणगन्तव्यत्वे विशेषहेत्वाभावाच्च यथेष्ठं विकल्पेन ब्रह्मविदोगमनमिति पूर्वपक्षि हृदयम् ।राद्धान्तमाह - उच्यते इति । अविशेषविशेषाभ्यां=सामान्यविशेषाभ्याम्देवलोकशब्दः सामान्य शब्दः वायुशब्दश्च विशेष शब्द इति तत्प्रतिपादितार्थस्यैकत्वात्न विकल्पस्यैव प्रसक्तिरिति भावः । ननु वायु शब्दो प्रसिद्धवायुपरःदेवशब्दश्च सामान्यदेवपरः । अतो देवलोक शब्दः वायुलोकपर इति कथमर्थैक्यमित्यत्रदेवलोक शब्द एव सामान्य शब्दः न देवशब्द । अत एव कौषीतिकी वाक्येनिषादस्थाप्पत्यधिकरण सिद्धन्यायानु गृहीतः वायुलोकशब्द एव साक्षात्श्रुतः इत्यभि प्रयन्नाह - वायुश्चासादिति । अथ देवलोक शब्दस्य सामान्यशब्दत्वं मर्थौचित्यं च दर्शयति वायुश्च देवानामितिलोकशब्दोह्यावासस्थानपरः वायोश्चदेवानामावासत्वं श्रुति सिद्धम्ततश्च देवलोक शब्दः देवावासत्वरूपसामान्यधर्मेण वायुबोधकः।वायुशब्दोवायुत्वविशेषेणैवबोधकः इति भावः । ननु इन्द्रप्रजापत्यादीनामपि देवत्वात् ते एवात्रकुतो न गृह्यन्ते इति चेत् । तेषां पृथङ् निर्दिष्टत्वेन पौनरुक्त्यापत्तेःननु संवत्सरः खलु वै देवानां पूरिति श्रुत्यनुरोधात् देवलोकशब्दस्यसंवत्सरविषयत्वं किं न स्यात् । अत एव मासेभ्यः संवत्सरं संवत्सरादादित्यंमासेभ्यो देवलोकं देवलोकादादित्यमिति श्रुतिद्व्यं चोपपादितं भवतिसंवत्सरादनन्तरं आदित्यात्पूर्वं च श्रुत्यन्तरबलेन वायुश्च प्राप्तोभवति इति चेन्न संवत्सरस्य देवपुरत्ववचनस्य स्तुतिमात्रत्वात्वायोर्देवगृहत्व वचनस्य च वास्तवार्थकत्वात् वास्तवार्थस्यैव ग्राह्यत्वात्ज्योतिर्मयकृत्स्नवैमानिकदेवतागणोहि वायुपाशघृतः । अतो वायोर्देवगृहत्वं यथार्थमिति स्वरसत्वात्तदेवात्र ग्राह्यम् ।।अपिच आत्मनितिष्ठन् इति स्थाने विज्ञाने तिष्ठन् इति पाठात् विज्ञानशब्दस्यात्मपर्यायत्वमिवात्रापिवायुपर्यायस्थाने देवलोकपाठ इति देवलोकशब्दस्य वायुपरत्वं स्वरसम् ।।वाय्वधिकरणं समाप्तम् ।।