23 अर्चिराद्यधिकरणम्

(4.03.01) अर्चिराद्यधिकरणम्पादसंगतिं प्रदर्शयितुं पूर्वपादोक्तमर्थमनुवदति - विदुष इति । ब्रह्मरन्ध्राख्यशिरः कपालमध्यरन्ध्रात् निष्क्रान्तस्य ब्रह्मनाड्या संबद्धं सूर्यकिरणंगतिसाधनत्वेनावलंब्य गच्छतः सर्वे अस्मै देवा बलिमावहन्ति इत्युक्तप्रकारेणाभिमुखमागतैःदेवबृन्दैः प्रहितोपहारस्य योगिनः भगवत्प्रापमुक्तिघण्टापथाख्यःअर्चिरादिमार्गः अस्मिन्पादे निरुप्यते तथाच पूर्वपादद्व्येन मुमुक्षोःस्थूलदेहसमयजायमानफलं निरूपितम् । अत्र स्थूलदेहात् उत्क्रान्तस्ययत्फलं तन्निरूप्यते । अर्चिराद्यातिवा हिकैः अस्य ब्रह्मलोकप्राप्तिःअपृनरावृत्तिलक्षणः ब्रह्मानुभवप्रकारः क्रमेण प्रतिपाद्यतेसंशयबीजं दर्शयति - तत्रेति । इत्युपक्रम्य ब्रह्मविद्यामुपदिश्यइत्यनेन अथ यदुचैवेत्यादिना प्रतिपादितो मार्गः ब्रह्मविद एवेतिसूचितम् । यत्=यदि । शव्यं=शवयोग्यं संस्कारम् । शवसंस्कारकरणेतदकरणेपि अर्चिषमेव प्राप्नुवन्तीत्यर्थः । अत्रार्चिरादिशब्दाःतत्तदभिमानि देवतापराः । अस्मिन्मार्गेदेवैर्नीयमानत्वाद्देवपथः।ब्रह्म प्रापकत्वात् ब्रह्मपथः ।यान् षड्दङ् एति - यान् षड् मासान्,उदक्=उत्तरदिशायां आदित्यः एति इत्यर्थः । यद्वा उदङ्= ऊर्ध्वंगच्छन् । सूर्यः उत्तरायणे उत्तरस्या दिशि उपर्युपरि गच्छति । अतअव “उदीची’ इति तस्याः दिशो नामदक्षिणायणे दक्षिणस्यां दिशि क्रमेण आधो गच्छति । अतः अस्याः “अवाची’इति नाम । “तत् पुरुषः इत्यत्र ततत्इति पदच्छेदः । तदेत्यर्थः “अमानवःपुरुषः=उपरि इमं मानवमावर्तं इत्युक्तेः अयं मानवावर्त संबन्धीन भवतीत्यमानवः ।मानवं मनु संबन्धी । चतुर्मुखप्रजापत्यन्तरंग मनुप्रजापतिसंबन्धी अयं संसारः घोरः सचाधोगतिहेतुः अत एवावर्तं इति दर्पणे।। विजिहीते=अवकाशं प्रददातीन्यर्थः ।रथचक्रस्य खमिति। रथचक्रेयावान वकाशस्तावानित्यर्थः ।एवमग्रेऽपि । आडम्बरं वाद्यविशेषःसंशयमाह तत्रेति ।प्रतिपाद्यत इतीति। प्रतिपाद्यते इति हेतोरित्यर्थःश्रुतिभेदेनभिन्नतया प्रतिपादितानामर्चिरादि मार्गाणामेकत्व मभ्युपगम्यतेनैकेनैव मार्गेण ब्रह्मवित् गच्छति, उत मार्गभेद मवलम्ब्य यथायथमनियमेनगच्छतीति संशयार्थः ।। अनेकरूपत्वादिति । भिन्नत्वादित्यर्थः ।क्रमस्य क्रमिणश्च भिन्नत्वादित्यर्थः । ननु तत्रतत्राम्नातमार्गाणामनेकरूपत्वेपिमार्गान्तरापेक्षणं किं न स्यादित्यत्राह - नैरपेक्ष्याच्चेति । श्रुतयोहिक्रमभेदेन क्रमिभेदेन च मार्गान् बोधयन्ति । तत्रतत्र तदाम्नातमार्गेणैवब्रह्मप्राप्तिसंभवात् मार्गान्तरापेक्षणमयुक्तम् । अन्यथा निरपेक्षरवत्वलक्षणश्रुतित्वव्याकोपात्अत एवह्यनेकत्राम्नातानां ब्रह्मविद्यानां परस्परापेक्षत्वं विनैवमोक्षसाधनत्वमुच्यते । तस्मात् विद्यावैषम्यनयेनैव गतिचिन्तनस्यापिविषमत्वसंभवात् मार्गवैषम्यमप्यावश्यकमिति भावः । यद्यपि तृतीयाध्यायतृतीयपादस्थानियमाधिकरणेअर्चिरादिगतेः सर्व ब्रह्मविद्यानिष्ठानां साम्यमुक्तमिति केषांचिद्विदुषां मार्गान्तरेण गमने तद्व्याकोपः इति नात्र वक्तव्य मस्तिअथापि क्रमभेदक्रमिभेद प्रयुक्त शंकायास्तत्रानिराकरणात् न पौनरुक्यम्इथं च तत्तच्छाखाप्रतिपादितमार्गेषु येन केनचिद्वामार्गेण विदुषांगमनं युक्तमिति पूर्वपक्षिहृदयम्छान्दोग्ये चतुर्थे अर्चि - र्दिन - पूर्व पक्ष उत्तरायण - संवत्सर - आदित्य - चन्द्र - विद्युत्(अमानवपुरुष) रूपाः नेतारः । छान्दोग्ये एवाष्टमे आदित्य मात्रस्योक्तिः।कौषीतिकीवाक्येअग्नेः आदित्यस्य चोक्तिरस्ति । छान्दोग्ये अनुक्तानांवायुलोक - वरुणलोक इन्द्रलोक प्रजापतिलोकानामधिकानामुक्तिः ।बृहदारण्यके - अष्टमे - देवलोकपदंमानसपदं चाधिकम् । तत्रैव सप्तमे वाय्वादित्य चन्द्राणामुक्तिःसिद्धान्तमाह - एवं प्राप्ते इति । सिद्धिंः ज्ञानम् । प्रसिद्धिःप्रत्यभिज्ञान मित्यर्थः । क्रमक्रमिभेदशंकां परिहरति - प्रत्यभिज्ञानात्सएवेति । विद्यागुणोपसंहारवदिति । सर्व शाखाप्रत्ययन्यायस्यात्रापिसमानत्वादित्याशयः । मार्गस्य प्रत्यभिज्ञानमेव विवृणोति - छान्दोग्येइत्यादिना । अल्पान्तरः अल्पभेदवान् । संवत्सरशब्दस्थाने देवलोकशब्दश्रवणादिति भावः । अग्निवाय्वादित्यचन्द्रविद्युत्प्रभृतिभिःतदेवेदं देवयानमिति प्रत्यभिज्ञाने सिद्धे अश्रुतानामपि अन्यत्रोपसंहारः न्यायसिद्ध इति न मार्गवैषभ्यम् । नन्वेवमेव परविद्यासुसर्वासु ब्रह्मणः प्रत्यभिज्ञानादेकत्वमेव स्यादिति चेत् न स्यात्तत्र हि गुणानामानन्त्यादुप संहारो न संभवति । अतो न विद्यैक्यसंभवः । एवं विरुद्धगुणानां तत्र तत्रोक्तानामुपसंहारासंभवोपिअत्र च परिमितत्वात् अन्यत्रोक्तस्यान्यत्रोपसंहारेणानुसन्धातुंशक्यत्वादविरुद्धत्वाच्चैकत्वमिति । ये चेमेश्रद्धां सत्यमुपासतेइति सर्वब्रह्मविद्यानिष्ठानपि क्रोडीकृत्य मार्गविधानात् सर्वत्रैकरूपत्वमपि।। अतोऽर्चिरादिमार्गेणैव ब्रह्मविदो गमनम् ।। ब्रह्मविद्विशेषाणांमार्गान्तरेण गमनबोधकप्रमाणानां नयममनियमाधकरणे उक्तमिति तत्रैवद्रष्टव्यम् । अयं च गमननियमः सामन्यतः । नानाप्रकारेण गमनस्यतत्रतत्र प्रमाणसिद्धत्वात्ब्रह्मविद्विशेषाणां विशेषस्यांगीकर्तव्यत्वात् । अयमर्थः सारवल्यांप्रदर्शितः ।“चैद्यादीनाम्योध्यास्थिरचरजनुषां इत्यादिना । वस्तुतःआतिवाहिकाः द्वादशसंखख्याकाः । येये उपासकाः यत्र यत्रस्थित्वाब्रह्मलोकं गच्छन्ति तत्तत्स्थानेषु यः आतिवाहिकस्तिष्टति उक्तेष्वन्यतमःसः ब्रह्म प्राप्यति । सः अर्चिरादिक एव वस्तुतः । द्वादशसंख्याकपुरुषाणांसर्वेषामेव सर्वब्रह्मविद्यानिब्रह्मविद विषये आतिवाहिकत्वमितिन निर्बन्धः । कस्यचित्संबन्धेपि समार्गः आतिवाहिकसंबन्ध्येव ।अन्तिगमानुषपुरुष संबन्धं बिना न कस्य चिदपि नयनम्चैद्यस्य तदानीमेव वासुदेवप्राप्ति सत्वेपि जयविजयादिद्वारपालकत्वंप्राप्यैव ब्रह्मलोकगमनम् । नह्यैद्वैतिनामिवात्रैव ब्रह्मप्राप्तेःमोक्षरूपत्वमस्माभिरिष्यते । देशविशेषं गत्वैव परं ज्योतिरूपसंपद्यैवस्वस्वरूपादिर्भावस्य सिद्धान्तसिद्धत्वात् ।। अर्चिराद्यधिकरणं समाप्तम्।।