22 दक्षिणायनाधिकरणम्

(4.02.011) दक्षिणायनाधिकरणम्निशायां मृतस्य येन हेतुना ब्रह्म प्राप्तिरुक्तातेनैव हेतुना दक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्तीति प्रतिपाद्यतेइति आतिदेशिकी संगतिः । यथा च विदुषो मरणे दिवारजनिविभागो नास्तितथैव दक्षिणायनोत्तरायणविभागोऽपि नास्तीति प्रतिपाद्यते । सूत्रार्थमाह - निशिमृतस्यापीति । तत इत्यन्तेनातश्शब्दार्थः उक्तः । एवकारेण चार्थःउक्तः । अधिकशंकामाह - अधिकेति । ननु चन्द्रप्राप्ति श्रवणमस्तु किंतत इत्यत्राह - चन्द्रंप्राप्तानां चेति। तत्र चान्द्रमसं ज्योतिर्योगीप्राप्य निवर्तते इति स्मृतिरप्यत्रानुसन्धेयाउत्तरायण प्रतीक्षादर्शनादिति ।दक्षिणायने मृतस्यापिब्रह्मप्राप्तिसंभवेभीष्मादेः मरणार्थमुत्तरायणप्रतीक्षणं निष्फलमिति भावः ।परिहारमाह - परिहारस्त्विति ।पितृयाणेन पथेति । अविदुषां दक्षिणायनेमृतस्य विदुषश्च चन्द्र प्राप्तिरविशिष्टैव अथापि पुनरावृत्तिर्नसमाना । तस्माद्ब्रह्मणो महिमानमाप्नोतीति तस्यैव ब्रह्मप्राप्तेरुक्तत्वात् । अतः पितृयाणेन मार्गेण यस्य चन्द्र प्राप्तिः तस्यपुनरावृत्तिरिति नियमः । अथ यो दक्षिणे प्रमीयते इत्यत्रतु विदुषःचन्द्रप्राप्ति बोधनेपि न धूमादिमार्गः उक्तः । अतो अर्चिरादिमार्गेणगतस्यैव दक्षिणायनरूप मरणकालविशेषात् सन्मानार्थं सूर्य प्राप्तिवत्चन्द्र प्राप्तिरिति भावः । एवं ब्रह्मणो महिमानमाप्नोतीति वाक्यशेषबलात् दक्षिणायन मृतस्यापि विदुषः ब्रह्मप्राप्तिस्स्थापिताअथैतद्वाक्य शेषाभावेपि पूर्वाधिकरणोक्तहेतुरेव पर्याप्त इत्याह - वाक्यशेषाभावेऽपीतिचन्द्रप्राप्तिप्रयोजनमेवात्राधिकं वक्तव्यमित्याशयः । भीष्माद्युत्तरकालप्रतीक्षणस्य प्रयोजनविशेषं दर्शयति - भीष्मादीनामिति । धर्म प्रवर्तकेष्वग्रेसरैःभीष्मादिभिः उत्तरायणमरणं प्रशस्तमिति दर्शयितुमेवोत्तरायणकालःप्रतीक्षितःननतु दक्षिणायनमरणे ब्रह्मप्राप्तिर्न संभवतीत्याशयेन । अतो लोकसंग्रहार्थमेव तथा प्रतीक्षणमिति न दोषः । ननु दक्षिणायनमरणापेक्षयोत्तरायणमरणस्य प्रशस्तत्वं हि उत्तमगतिहेतुत्वेनेति वक्तव्यम् । तथा सतिदक्षिणायणमरणस्योधो गतिहेतुत्वमापद्यतेतच्च न संभवति तथा मृतस्य विदुषः ब्रह्मणोमहिमानमाप्नोतीति उत्तमगतिबोधनात् ततश्च दक्षिणायनमरणापेक्षयोत्तरायण मरणस्य प्राशस्प्याभावात्तत्सूचनाय भीष्मादीनामुत्तरायण प्रतीक्षणमिति कथं वक्तुं शक्यतेइति चेत् ? स्वयं विदुषोपि अविदुषां सुकृतिनां तथामरणस्य प्राशस्त्यबोधनाय तथाचारप्रदर्शन संभवात् । भीष्मादयोपि हि सुकृतिनः । अतस्सुकृतित्वसाम्यात्उत्तरायणमरणे प्राशस्त्यमस्तीति सूचनायोत्तरायणं प्रतीक्षितवान्।। अत एव स्वयं वसुपदं प्राप्तः नतु मुक्तः इति । ननुप्रारब्धकर्मावसानेमोक्षावश्यंभावात् मरणस्वाच्छन्द्यं कथमिति शंकापरिहाराय - योग प्रभावादित्युक्तम्प्रारब्धकर्मणः शीघ्रसमाप्ति संभवेपिहि योगवशात्तद्दृद्धिकरणं संभवतीतिभावः । वस्तुतो भीष्मस्य मरणार्थमुत्तरायण प्रतीक्षणं प्रारब्धकर्म प्रतिनियतम् ।भोगैकविनाश्यप्रारब्धकर्मणः तावत्पर्यन्तं सत्वादेवहि उत्तरायण प्रतीक्षणविषयिणीच्छा अस्योद्भूता =अतोनानुपपत्तिःअतो विदुषां निशायां कृष्णपक्षे दक्षिणायने मृतत्वेपि ब्रह्मप्राप्तिस्संभवतीति । यत्रैकस्यापमर्गः प्रतिनियततया गण्यते जातकज्ञैः तत्स्यादन्त्यंशरीरं न तु भवति ततो प्यन्ययोग व्युदासः । नह्यत्राप्यन्तकाले दिनदजनिभिदादेशभेदादि चैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुचनेत्यादि चैवंविभाव्यंकिंच प्रराब्धकर्म प्रतिनियतमिदं जाह्नवीसंभवस्य स्वेच्छायेनैवमासीत् सच वसुरभवत् नैष साक्षात् विमुक्तः । तस्मात् विम्देत मुक्तिंनरपितृदिविषद्रात्रिकालेपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषयेगीतयोक्तौ तु मार्गौ ।।शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । मां ध्याति पुरुषव्याघ्रः ततोमे तद्गतं मनः ।।तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे । ज्ञानान्यल्पीभविष्यन्तितस्मात्त्वां चोदयाम्यहम् ।। इति श्रीकृष्णः भीष्मं स्तौति ।।

अनन्तरसूत्रं चोद्यमुखेनोत्थापयति - ननु चेति । यस्मिन् काले गतस्ययोगिनः आवृत्तिरनावृत्तिश्च भवति तं कालं वक्ष्यामीत्युक्त्वा अनावृत्तिहेतुत्वेनोत्तरायणकालस्यआवृत्तिहेतुत्वेन दक्षिणायानकालस्य चोक्त्या दक्षिणायनेमृतस्य पुनरावृत्तिसिद्धेः ब्रह्मप्राप्ति र्नास्तीत्यवगम्यते इति भावः ।पूर्वपक्षे शंकितमर्थं निरस्यन् सूत्रार्थमाह - नात्रेति ।योगिनःस्मार्ते इति व्याख्येयपदनिर्देशः योगनिष्ठान् स्मृति विषय भूतेइति तद्व्याख्यानम् । कालविशेष विधानं नात्र स्मर्यत योगाङ्गतयाऽनुदिनंस्मर्तुमेवैवं स्मर्यते इत्यत्र प्रमाणं दर्शयति - तथा ह्युपसंहार इति ।योगयुक्तः=मार्गानुसन्धानरूपयोगयुक्तः । अनेन स्वोक्तार्थे सांगत्यंदर्शितम् । अथ मार्गप्रत्यभिज्ञापनमपरं हेतुमाह - अर्ग्निज्योतिरितिननु यत्र कालेत्वनावृत्तिमित्युपक्रमस्वारस्यात् कालविधानपरत्वमेवयुक्तमिति चेत् न उपक्रमापेक्षयापि महावाक्यस्य प्रबलत्वात् । “तत्रप्रयाता गच्छन्ति” नैते सृती इत्यादिमध्योपसंहारवाक्येषु हि मार्गविधानपरत्वमेवदृश्यतेवस्तुतः अग्निर्ज्योतिः धूमः इत्यादौ अग्न्यादीनां कालत्वासंभवादपिकालविधानपरत्वं न संभवतीति उपक्रमस्थकालशब्दः अन्यथैवनेयः इत्याह - उपक्रमेचेतिउपसंहरति - अत इतिविहित देवयानानु स्मृतिरिति। श्रुतौ देवयानगतिः विहिता । तदनुस्मृतिरूपानुसन्धानंस्मृतौ विहितम् । पितृयाणमपि श्रुतिविहितम् । तदनुसन्धानमप्येवमेवस्मृति विहितम् ।विद्यानिष्ठानामिति। अनेन सूत्रस्थ योगिनां इतिपदं चतुर्विधोपासननिष्टपरमिति सूचितम् । भक्तियोगस्य चतुर्णां साधारणत्वात्तत्र मुमुक्षोः र्देव यानानुसन्धानं इतरेषांपितृयाणानुसन्धानंच विधीयते इति भावः। - यत्र काले इति कालशब्दग्रहणमादाय कालविधिपरत्वशंकयापूर्वपक्षः ।“नैते सृती पार्थजानन्” इति मार्गवाचकसृतिशब्दमुपजीव्यगतिचिन्तनपरत्वमेवेति सिद्धान्तः"जानन् योगी नमुह्यति’ इति उपरिवचनबलादपि गतिचिन्तनपरत्वं स्फुटम्"अग्निःज्योति" रित्युपक्रमे एव कालान्यत्वं स्पष्टम् ।ननु मुमुक्षुणायोगिना अर्चिरादिमार्गस्यैव चिन्त्यत्वं विधीयते । नतु धूमादिमार्गस्य,कथं धूमादिमार्गस्ययोगिचिन्त्यत्वमिति चेत् । ऐश्वर्यार्थियोगिचिन्त्यत्वस्य तस्मिन्सत्वेनादोषात् । नतु मुमुक्षुयोगिचिन्त्यत्वमप्यस्योक्तम्अअत एव “योगिनः” इति सूत्रे बहुवचनम् । वस्तुतः अर्चिरादिमार्गस्यपितृयाणव्यावृत्तत्व ज्ञानं मुमुक्षुयोगिनोप्या वश्यकम् । इदं चपंचाग्निविद्याभिमतं इति तत्प्रकरण परामर्शे ज्ञायतेघूमादि मार्गं विनैव विमानमारुह्य स्वर्गलोकं ब्रह्म अगच्छन्नितिपुराणप्रतिद्धत्वात् कथं तेषां घूमादिमार्गस्य चिन्त्यत्वमिति मावोचःअर्चिरादिमार्गात् । मार्गान्तरेण केषांचित् वैकुण्ठगमनमपि प्रसिद्धमितिकथं अर्चिरादिमार्गस्यचिन्त्यत्वमिति प्रश्नस्य तत्राप्यवतारात्अतःयथायथं मार्गचिन्तनंसामान्यतः अवश्यमिति ।। दक्षिणायनाधिकरणं समाप्तम् ।।इति चतुर्थाध्यायस्य द्वितीयः पादः ।।श्रीः । श्रीमते रामानुजाय नमः ।श्रीभगवद्रामानुजविरचिते श्री शारीरकमीमांसाभाष्ये चतुर्थाध्याये तृतीयः पादः ।