(4.02.010) निशाधिकरणम्निशि मृतस्य विदुषः सूर्यरश्म्यनुसारः पूर्वत्र स्थापितःअथाप्यात्मविदां निशि मरणस्य शास्त्रेण विप्रतिषिद्धत्वात् निशिमृतस्य ब्रह्म प्राप्तिर्नस्यात् । निशिमरणसद्भावेपि न तदात्मविदांचरममरणमित्याशंकया संगतिः । अथ संशयमाह - इदमिति । ननु निशायामपिसूर्य किरणसद्भात्तदनुसारेण निशि मृतस्यापि गतिसंभावात् ब्रह्मप्राप्तिःपूर्वत्र स्थापितेति निशि मृतस्य ब्रह्मप्राप्तिरस्ति वा ने वेतिसंशयस्यैव नावकाशः इत्याशंक्य परिहरति - यद्यपीत्यादिना । नात्र निशायांसूर्यकिरणसद्भाव शंका प्रयुक्त ब्रह्मप्राप्ति संद्भाव शंकाकिंतु निशामरणस्य निषिद्धत्वात् तथामरणवतो ब्रह्मविदः ब्रह्मप्राप्तिर्नसंभवतीति शंकेति भावः। अत्र निशामरणस्यनिषिद्धत्वं दिवामरणस्य प्रशस्तत्वबोधनात्निशामरणस्य तद्विपरीतत्व बोधनाच्च सिद्धमित्याशयेनाह - शास्त्रेष्वितिननन्वस्तु निशामरणस्य निषिद्धत्वं अथापि तथा ब्रह्म प्राप्तिः कुतोन स्यादित्यत्राह - दिवामरणेत्यादि । दिवामरणस्यप्रशस्तत्वोक्तिर्हियस्य दिवामरणं तस्यैवोत्त मगति प्राप्तिरित्यभिप्रायिणीति वक्तव्यम्अन्यथा प्राशस्त्योपपादनासंभवात् ।एवं निशामरणस्य तद्वपरीतत्वकथनमधोगति प्राप्तिहेतुत्वेनैवेति वक्तव्यंइत्थं च न निशायां मृतस्यउत्तमगतिलक्षणब्रह्मप्राप्तिर्बोभवति ।नच दिवाचेत्यादि वाक्यं अविद्वद्विषयमिति वक्तुं शक्यं संकोचे प्रमाणाभावात्नच निशा मरणवतः ब्रह्म प्राप्त्यभावे तदनुष्ठितोसनोपायवैयर्थ्यापत्तिःततथामरणस्यान्तिममरणत्वाभावेनादोषात् । अतो ब्रह्मप्राप्त्यव्यवहितपूर्वभाविमरणं विदुषा महन्येव संभवतीति न कश्चिद्दोषः । इत्थं चनिशायां रश्म्यनुसार सद्भावस्थापन प्रयासोऽप्यनपक्षितः । अह्निमृतस्यैवब्रह्मप्राप्तेः तदा रश्म्यनुसारसद्भावस्य सिद्धत्वात् । अथैतैरेवरश्मिभिरुर्ध्वमाक्रमते इत्यस्योपपत्तेरितिसिद्धान्तमाह - तन्नेति । ननु कर्मसंबन्धस्य कथं यावद्देहभावित्वंप्रारब्धकर्मणः अनेकदेह हेतुत्वसंभवात् । एवं प्रारब्धकर्म समाप्तावपिअभूतपूर्वकर्मणां सद्भावात् तदनन्तरं कथंदेहान्तरापरिग्रहःअन्यथानिशामरण निन्दावचनस्य कथं चोपपत्तिरित्यत्राशयं विवृणोति - एतदुक्तमितिबब्रह्मविदः निशामरणेपि अधोगतिर्न संभवतीत्यत्र हेतु र्विनाशादित्यन्तेनोक्तःदिवा वा निशायां वा मरणमस्तु प्रारब्धकर्म यदावसितं तदा मोक्षःआवश्यकःप्रारब्धकर्मसमाप्तिश्च निशायां भवति चेत् तदनन्तरं मोक्षःआवश्यक इति निशामृतस्यापि ब्रह्म प्राप्तिरावश्यकीतस्य तावदेवेत्यपि हि प्रारब्धकर्मावसाने एव मोक्षप्राप्तिं बोधयातीतिभावः । एतेन निशामरणं न चरममरणं भवितुर्मर्हतीत्यपि निरस्तम् ।अत एव हि दक्षिणायनाद्य प्रशस्तकाले मृतस्यापि तस्माद्ब्रह्मणोमहिमानमाप्नोतीति ब्रह्मप्राप्तिरुच्यते । तस्मात् अप्रशस्तमरणंन विद्वद्विषये अधोगति हेतुर्भवतीति । उक्तयुक्या संकोचावश्यकत्वात्निन्दावचनमविद्वद्विषयमित्याह - दिवाचेति । यथा विदुषां मरणस्य दिवारजनिवियमोनास्ति तथा देशकालनिमित्तादि नियमोपि नास्ति । चरम शरीरवियोगः हिप्रारब्धकर्मावसानजम्यः । अस्मिन्नेव देशे अस्मिन्नेव काले अनेनैवनिमित्तेनास्यमरण मित्यादिनियमाभावात्यदु चास्मिन् शव्यं कुर्वन्ति यदु च न तेऽर्चिषमेवाभि संभवन्तिइति प्रमाणबलात् पुत्रादिभिः शवसंबन्धि कर्माकरणेपि अपवर्ग प्राप्तिःन विरुद्धा भवतितर्हि अलेपक सिद्धान्त प्रसंगः इति न मन्तव्यम्अकरणे पुत्रादीनामेव दोषात् । विहितकर्मानुष्ठान परित्यागः तेषामेवनन तु मृतानाम् । तत्तत्कर्मानुसारेण विधानुसारेण वा तत्तल्लोकगमनस्यस्वतःप्राप्तेः । अत्र च सारावलिः - “न ह्यत्राप्यन्तकाले दिनरजनिभिदादेशभेदादिचैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवंविमाप्यम् । इति । पुत्राद्यनुष्ठितं कर्म पुत्राद्यभिवृद्धिहेतुःनतु मृतपित्रादि कुशलार्थम् । एवं ज्योतिश्शास्त्र याथात्म्यविद्भिरिपिएतच्छरीरावसाने अवश्यं मोक्षः इति कथिनमपि तत्तथैवेति न मन्तव्यम्अस्मिन् चरमशरीरेपि प्रतिबन्धक कर्मानुष्ठाने शरीरान्तर संबन्धम्यापिसंभवादिति । निशाधिकरणं समाप्तम् ।।