20 रश्म्यनुसाराधिकरणम्

(4.02.09) रश्म्यनुसाराधिकरणम्पूर्वं विदुषां मूर्धन्यनाड्या गमननियमःउक्तः अथ रश्म्यनुसारेण गमननियमः प्रतिपाद्यते इति संगतिः । सार्थंविषयवाक्यं दर्शयति - विदुष इति । अनुसृत्येत्यस्य गतिरित्यनेनान्वयःससंशयं पूर्वपक्षमाह - तत्रेति । वचनस्योपपत्तिमाह - वचनंत्विति । एतैरेवरश्मिभिरिति एवकारश्रवणेपि असंभवाद् पक्ष प्राप्तविषयमित्येव स्वीकर्तव्यमितिभावः । राद्धान्तमाह - उच्यते इति । पूर्वपक्षमनूद्य निरस्यति - यदुक्तमितिमध्याह्ने एव छायाया मौष्ण्य लिंगात् दिनकरकिरणसद्भाववत् रात्रावपितत्सद्भावः स्वीकर्तव्यः स्फुटानुपलम्भस्तु मध्याहूच्छायायामिवोपपद्यतेवर्षादिकालेपि रात्रौ सूर्य किरणसद्भावोऽभ्युपेत्यः । मेघच्छन्नेदि ने मध्याह्नेप्येवमेव हि । अतस्सूर्यकिरणस्य सर्वदा सद्भावात्तदनुसारेणैव गमनमुपपद्यते । अतोऽविरोधात् श्रुत्युक्तार्थोपि युक्तएवेत्येवकारस्यान्यथा नयनमप्यनपेक्षितमित्याशयः । सूर्यकिरणानांनाडीनां च सर्वदा परस्पर संबन्धस्य श्रुत्यन्तरे स्पष्टमभिधानादपिनिश्यपि रश्मिसंबन्धोऽवगम्यत इत्याशयेनाह श्रूयतेचेति । सुप्ताः=संबद्धाः।।उपसंहरति - तस्मादिति । रश्म्यनुसाराधिकरणं समाप्तम् ।।