(4.02.08) तदोकोऽधिकरणम्पेटिकासंगतिमाह - एवमिति । समानाकारः इति । एतावत्पर्यन्तमुक्तोऽर्थः विद्वदविद्वत्साधारणः । अतस्समानाचासृत्युपक्रमादमृतत्वंचानुपोष्येत्येदत्रैव वक्तव्यम् । अथापि विदुषो ब्रह्मसंपत्तौ विवादाभावात्उत्क्रान्तिविषय एव विवादात्तत्रैवोक्तमिति । विषयवाक्यमाह - तत्रेदमितिउदाहृत श्रुत्यर्थं प्रदर्शयन् संशयमाह - अनयेति । विधिकोटिरवच्छेदकावच्छेदेननिषेधकोटिस्सामानाधिकरण्येन । भूयस्त्वमात्रमप्रयोजकमित्यत्राह - अतिसूक्ष्मत्वाच्चेतियदि एकैव नाडी स्यात्तर्हि नाडीभेदपरिज्ञानस्यान पेक्षितत्वात्मूर्धन्यनाडीपरिज्ञानसंभवात्तयैवगमन मुपपद्यतेनाड्यश्चभिन्नाः । अन्यथा अविदुषामपि तथैव गमनमित्यविशेषः ।भूयस्त्वेपिअतिसूक्ष्मत्वाभावे तत्परिज्ञानं सुशकम् । नाड्यश्चाति सूक्ष्माःअतः इयमेव मुक्तिनाडीति विविच्यज्ञानाभावात्तयैव गमनमिति नियमोन संभवति । ननु तयोर्ध्वमायन्नमृतत्वमेतीति मूर्धन्यनाड्या गच्छतएवामृतत्व प्राप्त्युक्त्या तयैव गमनमिति नियम आवश्यक इत्यत्राह - तयोर्ध्वमितिमूर्धन्यनाडीपरिज्ञानाभावेपि कदाचित्तयापि मुच्यमानस्य पुंसःगमनसंभवात् पक्षप्राप्तविषया साश्रुतिः । तथाच परदेवता संश्लेषपर्यन्तस्ययथा विद्वदविद्वन्साधारण्यं तथा नाडीनामपि सर्वसाधारण्यं भवतीत्याशयःराद्धान्तमाह - एवं प्राप्त इति । पूर्वपक्षयुक्तिमपास्यति - नचेतिभूयसीषु अति सूक्ष्मासु नाडीषु मुक्तिनाड्याः पुरुषेण स्वतो दुर्विवेचनत्वेऽपिस्वेनानुष्ठितया निरतिशय प्रीतिरूपापन्नभक्या प्रत्यहं स्वकृतेनगतिचिन्तनेन च प्रसन्नस्य हृदयपुण्डरीकवर्तिनो भगवतः अनुग्रहेणस्वस्वस्थानभूतहृदयस्याग्रे आकस्मिक स्फुरणं भवति । तेन तादृशनाडीसुविवेचात्तया “गमनंचोपपद्यते । अत एव तस्य हैतस्य हृदयस्याग्रे प्रद्योततेतेन प्रद्योतेनैष आत्मा निष्क्रामति” इति बृहदारण्यके उक्तम् ।तस्यजीवस्यओकः स्थानं तदोकः ।। विद्वान्वा अविद्वान्वा भवतुसर्वेषामपि तत्रतत्रप्रवेशार्हनाडीविषये द्वारप्रकाशः अग्नप्रद्योतश्चविद्वद्विषये भगवान् प्रसन्नः तत्तद्द्वार प्रकाशं पिधाय शतादतिरिक्तसुषुम्नानाड्याः केवलं =अग्रप्रद्योतं द्वारप्रकाशं च करोति । हृदयस्थोऽयंसंयक्ज्ञात्वा निष्क्रामति अत्रायं विवेकः= सुषुम्नानाडी नाभिप्रभृतिमूर्धपर्यन्तमवस्थिता,जीवास्तु “हृदिह्ययमात्मा” इति हृदयस्थः । तस्यचोपासकस्य अधोगमनंन युक्तम् । अतोनाभिपर्यन्तंगत्वा तत्र प्रकाशितद्वारो गच्छतीतितु न संयक् । अतो भगवान् अस्य पुरत एव नाडीं भित्वा प्रवेशयति ।यथा धानुष्कः इषुं प्रेषयति, तथा भक्तानुग्राहको भगवान् नाडीरन्धे जीवात्मानं प्रवेशयति ।यथोक्तं सारावल्यां - “नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरस्थांभित्वा तन्मध्यरन्ध्र प्रहितमिषुमिवोक्षित्य नेता मुमुक्षुम् । इति ।।य एव भगवान् भक्त्युपाये वा प्रपत्त्युपाये वा अस्मान्प्रवेशयति, यश्चभगवान् अस्माकमन्तिमस्मृतिं उत्पादयति, स एव देवः ब्रह्मनाडीविज्ञानपूर्वकंप्रवेशं च करोति । विदानं तत्रापि स्वयमरिवलनिर्माणनिपुणः । एतावतींगमयितुःपदवीं दयालोः शेषाध्वलेशनयने क श्वाति भाढः “प्रियो हि ज्ञानित्यर्थंअहं, सच मम प्रियः इति हि भगवतो वाक्यम् । ज्ञानिकृतप्रीति निक्षेपानन्तरंमया तस्मिन् प्रीति निक्षेपात् स्वकृतिप्रीतेः जघन्यत्वं मनुतेभगवान् उपकार कारिणि, पश्चादुपकारकर्तुः न श्लाध्यता इति निर्विवादम्एवं स्विधमानोदवः कथं वा स्वविषयकात्यन्त प्रीतिमति विदुषि प्रीत्यब्रह्मनाडी प्रवेशं न कुर्यात् ।अतो हार्दानु गृहीतः नाडीं ज्ञात्वा तत्र प्रवश इति । तदोकोधिकरणं समाप्तम् ।।