(4.02.07) अविभागाधिकरणम्एवं जीवपरिष्वक्तभूतसूक्ष्माणां परस्यां देवतायांसंपत्तिरुक्ता । अथतस्या संपत्तेर्लपरूपत्वमाशंक्य निराक्रियतेप्राकृतलयवदिति । पृथिव्यस्सु प्रलीयते इत्यादौ पृथिव्याः अप्सुयादृशोलयः स्वकारणीभूत जलाद्यापत्तिरूपः तादृश इत्यर्थः । तत्रहि पृथिवीत्वावस्थां विहाय जलत्वावस्थमेव द्रव्यं तद्रीत्यैवात्रापिलयःइति भावः । योनिभूतत्वादिति । परदेवतायाः सर्वोपादानत्वात् उपादानेच कार्यलयस्योचितत्वात् भूतसूक्ष्माणां सर्वेषां परमात्मनि लय एवपरस्यां देवतायां संपद्यते इत्यनेनोच्यत इत्याशयः । ननु उत्क्रान्तस्यपुंसः शरीरभूत भूतसूक्षमाणां परमात्मनि लयाभ्युपगमे शरीरविशिष्टस्योत्तरत्रगमनं न स्यादिति चेत् ? नसर्वशक्तिमता परेण भूयोपि कार्यसंपत्तये देहादिसृष्टि संभवात् इतिसिद्धान्तमाह - उच्यत इति ।पृथग्व्यवहारानर्हसंसर्ग इति। ननु परमात्मनिसर्वेषां कारणापत्तिरूपापि संपत्तिः पृथग्व्यवहारानर्ह संसर्ग एव,नहि पृथिवीत्वावस्था प्रहाणेन जलत्वावस्था प्राप्तिवत् भूतत्वावस्थाप्राहाणेनपरमात्मत्वावस्थाप्राप्तिरित्यस्ति । अतः पूर्वपक्षसिद्धान्तयोःवैषभ्यमेव नास्तीति चेत् उच्यते । संपत्तेः कारणापत्तिरूपत्वे पृथिव्यादिभूतसूक्ष्माणांक्रमेण जलत्वाद्य वस्थाप्राप्त्या अन्ते तमस्त्वावस्थं सत् तमःपरे देव एकीभवतीत्युक्तरीत्या एकमेव द्रव्यं प्रलय दशायां अविभक्तनामरूपंसत् परमात्मानि पृथग्व्यवहारानर्ह संसर्गवत् भवेत्अविभागरूपत्वे स्थितानामेव भूत सूक्ष्माणां परमात्माना गाढ संसर्गएवअतः पक्षद्वयवैषम्यम् । एतत्सूचनायैव प्राकृत लयवत्कारणापत्तिरूपेतिपूर्वपक्षे भाषितम् ।। नन्वस्त्वनुषंगःअथापि कारणापत्तिपरत्वं तस्यकिं न स्यादित्यत्राह - तस्य चेति । ननुपूर्वत्र तस्य संसर्गवाचित्वमस्तुअधुनाऽनुषक्तस्य कारणापत्तिपरत्वे किं बाधकमित्यत्राह - अनुषक्तस्येतिपपूर्वत्र संपत्तिशब्दस्य संश्लेषमात्रमर्थः इहपुनरनुषक्तस्यतस्यैवपरमात्मनिलयः इत्यर्थान्तराभिधाने अर्थवैरुप्यं प्रसज्यते । अवैरुप्येण निर्वाहेसंभवति वैरुप्यकल्पनं चान्याय्यंसति प्रमाणे वैरुप्येणार्थवर्णनं च युक्तम् । अत्र तु तादृशं प्रमाणमपिनास्तीति भावः । प्रयोजनाभावादिति । प्रलयकाले कारणापत्तौ यादृशंप्रयोजनं तादृशस्यात्राभावाच्च नोत्क्रान्तिदशायां कारणापत्तिरितिभावः । कारणेलीनस्य करणकलेबर रहितस्य द्विपरार्धकालं विश्रमार्थंप्रलये कारणापत्तिः अत्रतु शरीरेन्द्रिय संबन्धवत एव परमात्मनिविश्रमार्थं (सति) संपत्तिरिति भावः । एवं लयाभ्युपगमे तदुत्तरगमनचन्द्रसंवादादि श्रुतिसिद्धव्यापारोपि अनुपपन्न स्स्यात् । नहिसर्वशक्तिमता परेणापूर्वशरीर सृष्टिर्युक्ता कल्पनागौरवात्पुनश्शरीर सृष्ट्यर्थं हि अव्यक्तप्रभृति सर्वं वस्तु स्रष्टव्यम्पूर्वं क्रमेण सर्वस्यापि ब्रह्मणि लीनत्वात् । अव्यक्तादि सृष्टेःश्रुतत्वेतु तदन्यथानुपपत्त्या कारणपत्तिः प्रयोजनं च कल्प्यं स्यात्अत्राव्यक्तादि सृष्टिश्च न श्रुतेत्याशयेनाह - पुनस्तत्रेति ।अविभागो वचनादित्यत्र"अवचनादिति पदच्छेदोपि’ सूचितः । अयमत्र विवेकः - सुषुप्तौजीवमात्रस्याविभागापत्तिः। प्रलये विशिष्टस्य लयापत्तिः ।उत्क्रान्तिदशायां तु भूतसूक्ष्मविशिष्टस्य जीवस्य लयानुपपत्त्या परमात्मनिसंयोगमात्रमेव । ननु विशेष्यांशस्यास्तु प्रलय इति चेन्न, तेजश्शब्दस्यभूतसूक्ष्मविशिष्ट जीववाचिनः विशेष्य मात्रवाचित्वा भावात्अतस्तेजः परस्यां देवतायां संपद्यते इति श्रवणात् संयोगमात्रमेवशास्त्रेणविवक्षितमिति गम्यत इति । तेजः परस्यां देवतायां इति श्रुतिःतेजसो लयः वायौ भवति । कथमेवं सति परदेवतायां लयः । भूतविशिष्टप्राणस्य लयः इत्युक्तावपि आकाशे लयः स्वरसः । तथापि न परदेवतायाम्नच पंचभूत सूक्ष्मविशिष्टस्य जीवस्य हि लयः अत्रोप्यते । तत्राकाशस्यापिलयोक्त्या कथं आकाशे लय संभवः इति वाच्यम् । तथा सति अहंकारे लयोवक्तव्यः न परदेवतायाम् प्राणकरण भूतसूक्ष्मविशिष्टस्य जीवस्य लयःइत्युक्तावपि तस्याक्षरशब्दवाच्यत्वात् अक्षरं तमसिलीयते इति वचनानुसारात्न परदेवतायां लय संभव इति चेत् सत्यम्घटस्य मृदिलयः इति वत्अस्योपपत्तेः । घटत्वावस्थाप्रहाणेन अन्यावस्थाःएवंतत्तदवस्था प्रहाण पूर्वकं मृत्वावस्था प्राप्तिः संभवति ।एवंकथं मृदिलयः? परमकारणत्वादिति वाच्यम् । एवमेवात्रापीति बोध्यम्अत एव भाष्ये परमात्मनः सर्वेषां योनिभूतत्वादिति भाषितम् ।। इत्यविभागाधिकरणम्समाप्तम् ।।