17 परसंपत्त्यधिकरणम्

(4.02.06) परसंपत्त्यधिकरणम्वृत्तं कीर्तयति - सकरणेति । संशयमाह - तानिपुनरिति ।यथाकर्म = कर्मानुसारेण, यथाविद्यं = विद्यानुसारेण । अयमत्र भावः - भोगापवर्गौप्राप्तुं पूर्वशरीरस्थ भूतसूक्ष्मात्मक स्वदेहं प्राप्य गच्छतोजीवस्य परमात्मसंपत्तौ प्रयोजनाभावात् तेजः परस्यां देवतायामितिवचनस्य सर्वदा सर्वगतस्य ब्रह्मणः संबन्धस्य स्वस्मिन् पूर्वमेवसत्वेन सिद्धानुवादरूपत्वाच्च कर्मानुसारेण विद्यानुसारेण च तत्तद्भोगप्रदेशमेवगच्छति । तेजः परस्यां देवतायां इत्यत्र परदेवताशब्दस्य गन्तव्यदेशावच्छिन्नपरमात्मपरत्वसंभवादपि तत्तद्देशावच्चिन्नपरमात्म गमनस्य तत्तद्देश गमने एव पर्यवसानमितिन श्रुति विरोधोपि इत्याशयःसिद्धान्तमाह - इति प्राप्त इति । यथाह श्रुतिरिति । प्रमाणसिद्धेऽर्थेहि प्रमाणानुसारात् प्रयोजनमेव परिकल्प्यम् । नतु आपाततः प्रयोजनादर्शनात्प्रमाणसिद्धोऽर्थः परित्याज्यः इति भावः । तर्हि किमत्र प्रयोजनमित्यत्राह - सुषुप्तीतियथा सुषुप्त्यादौ सुखदुःखोपभोगार्थ करणायासविश्रान्त्यै परमात्मनिसंपत्तिः एवमेव त्रिस्थूणक्षोभपूर्वक देहापादानकोत्क्रान्तिजनितश्रान्तिशान्त्यर्थं परमात्मनि संपत्तिरिति प्रयोजनमस्त्येव । अतएव नात्र सर्ववस्तु साधारणाधारत्वमभिप्रेतम् । वाङ्मनसि संपद्यतेइत्यत्रापि हि न तादृशी संपत्तिःअतस्संपद्यते इत्यनुषक्तस्य सर्वत्राप्येकरूपत्वम् । दुःखोपभागेइव सुखोपभाेगेपि आयासः सर्वविदितः । क्रीडादिषु सुखसत्वेपि पश्चादायासःअनुभूयत एव ।। अत्र सामान्येन जीवोत्क्रान्तिकथनानन्तरं जीवविशेषभूतविदुषामुत्क्रान्तिर्नीस्तीत्याशंक्यतेषामप्युत्क्रान्तिरस्तीति सिद्धान्तकथने संगत्यतिशयोऽस्ति ।भूतोत्क्रान्तिमुक्त्वा पश्चाद्विदुषः उत्क्रान्तिनिषेधपरिहारकथनेकथंचिदेव संगतिस्यादित्यालोच्य जीवोत्क्रान्ति मुक्त्वा विदुषःउत्क्रान्ति स्थापनानन्तरं विद्वदविद्वत्साधारणोपि हार्दयोगः पश्चात्स्थापितःइति ध्येयम्हार्दस्यान्तर्यामिणो विग्रहे संश्लेषः आयास परिहाराय परस्यां देवतायामितिदेवताशब्द प्रयोगात् । अयमेवात्रा विभागः । न तु लयः । लयबोधनेतात्पर्यं चेत् उत्क्रान्तिसमये एव कारणापत्तिः सुवचा । तां विहायवाङ्मनसि संपद्यते इत्येतावत्पर्यन्तस्य कथनादपि न कारणापत्तिरत्रविवक्षितेति ज्ञायते । सर्वजन्तूनामपि उत्क्रान्तेः साधारण्यात्सेर्वषामप्यायास परिहारस्य चावश्यकत्वात् सर्वत्र हार्दस्य सत्वमनेनज्ञाप्यते । “हार्दरहितजन्तुषु तु तदयोगात् आयासपरिहारार्थं प्रसादविशिष्टपरमात्मसंश्लोषोऽयंमविभागः इति दर्पणम् ।। परसंपत्त्यधिकरणं समाप्तम् ।।