(4.02.05) आसृत्युपक्रमाधिकरणम्एवं सजीवस्य प्राणस्य भूतसूक्ष्मांशेषु संपत्तिरूपोत्क्रान्तिरुक्ताअथोक्तोत्क्रान्तेः विद्वदविद्वत्साधारण्यं ब्रूते इति संगतिःयद्यपि तेजः परस्यां देवतायामिति श्रुत्यर्थ विचारानन्तरं तदोकाधिकरणात्पूर्वंएतदधिकरणप्रवृत्तिर्युक्ता । तेजः परस्यां देवतायामित्युक्तायाःपरस्मिन्संपत्तेरपि उभयसाधारणत्वात् नाडीप्रवेशे एव विदुषो विशेषसद्भावाच्चअथापि - परमात्म संपत्तौ मुक्तस्यास्तित्व नास्तित्वविगानाभावात्पूर्वाधिकरण प्रतिपादितार्थे एव विगानाच्च विदुषः उत्क्रान्ति निषेधोऽत्रपरिहृियतेअत एव सैषा संपत्तिर्विदुषोन विद्यते इत्याशंक्यपरिहृतमिति परसंपत्त्यधिकरणादौभाषिष्यते । संशयादि दर्शयति - इयमित्यादिना । पूर्वपक्षयुक्तिमाह - विदुषोऽत्रैवेति।।विदुषोऽत्रैवामृतत्वं केन वचनेनैवगम्यते इत्यत्राह - विदुषोहीतिअत्रहि विदुषोऽत्रैवामृतत्वस्य ब्रह्मप्राप्तेश्च प्रतिपादनात्नोत्क्रान्तिर्युक्तेति भावः । सिद्धान्तमाह एवं प्राप्ते इति ।आ - सृत्युपक्रमादिति भिन्नं पदम् । सृतिःगतिः । फलितार्थमाह - नाडीप्रवेशात्प्रागित्यर्थःइति । सूत्रे नाडी प्रवेशात्प्रागित्यानुक्त्वा आसृत्युपक्रमादितिगत्युपक्रमावधि साम्यकथनेन विवक्षितं हेतुं विवृणोति - विदुषोऽपि हीति । उत्क्रम्य गति श्रवणमेव हेतुतया गत्युपक्रमादिति सूत्रयताविवक्षितमिति भावः । एका=नाडी मूर्धानमभिनिःसृता । सैवमूर्धन्यनाडीत्युच्यतेतया=मूर्धन्यनाड्या । आयन्=गच्छन् इण्गताविति धानुः । अन्याः=नाड्यःविष्वक् भवन्तिः=अमुमुक्षूणामुत्क्रमणार्थाः इत्यर्थः । अनयाश्रुत्या फलितं हेतु दर्शयन् विदुषोऽप्यु क्रान्तेरवर्जनीयत्वमाह - एवंनाडीति । अत्रोर्ध्वमायन्निति उत्क्रान्तिरुक्ता नाडीप्रवेशे चविशेषः उक्तः न ततः पूर्वम् ।अतो नाडी प्रवेशात्प्राग् उक्तोक्रान्तिःसर्वसाधारणीत्याशयः । अथ नाडीप्रवेशदशायां विशेषबोधकं वचन मुदाहरति- तेन प्रद्योतेनेतिप्रद्योतेन=प्रकाशेनेत्यर्थः । तस्य हैतस्य हृदयस्याग्रं प्रद्योततेतेनैष आत्मा निष्क्रामतीति हि पूर्वं श्रुतिः ।मूर्ध्नानिष्क्रमणंविद्वद्विषयमिति। मूर्ध्नोनिष्क्रमत एवहि ऊर्ध्वया नाड्या प्रकाशितद्वारयानिष्क्रमणंसंभवति । अतो वस्तुसामर्थ्यात् मूर्ध्नो निष्क्रमणं मूर्धानमभिर्निःसृतैकातयोर्ध्वमायन्नित्युक्तं निष्क्रमणं चैकविषयकमेव ।तथा निष्क्रमतश्च"अमृतत्वमेति’इति अमृतत्वोक्तेः तत्साधनभूतविद्यानिष्टस्यैव तथा निष्क्रमणमितिनिश्चीयते इति भावः ।मूर्ध्नो निष्क्रमणस्य विद्वद्विषयकत्वनिश्चयात्चक्षुरादिभ्योनिष्क्रमणस्याविद्वद्विषयकत्वं निश्चित प्रायमित्याशयेनाह - इतरदितिपूर्वपक्षहेतु मनूद्य निरस्यति - यदुक्तमिति । अनुपोष्येति । उष दाहेइति धातुः अदग्ध्वेत्यर्थः । तत्र च कर्माकांक्षाया मौचित्त्यात्शरीरोन्द्रियादि संबन्धमित्यध्याहृतम् ।।उत्तरपूर्वाधयोरश्लेषविनाशरूपमिति।यतोऽयं ब्रह्मज्ञानी, अतः अस्य ज्ञानं, ज्ञानाग्निः सर्वकर्माणिभस्मसात् कुरुते तथा, सर्वेपाप्मानः प्रदूयन्तेः इति शास्त्रमनुसृत्यअस्य कर्माणि दहति । ननु शरीरेन्द्रियादिकम् । अतः शरीराद्यदाहकमस्यज्ञानं शरीरसत्व काले एव यदमृतत्वं प्रापयति । तदमृतत्वं अश्लेषविनाशरूपमित्याशयःयद्यपि चरमशरीरावसान एवात्तर पूर्वाधाश्लेषविनाशौ अथापि तयोःतावत्पर्यन्तमपि कार्यकरत्वाभावेन तदभिप्रायकममृतत्ववचनमिति भावःविदुषोऽत्रामृतत्ववचनवत् अत्र ब्रह्म प्राप्तिवचनमप्यन्याभिप्रायमित्याह - अत्रेति । उपासनकालीन ब्रह्मानु भवाभिप्रायकं तद्वचनमित्यर्थःननु विदुषोऽत्रैव ब्रह्मप्राप्तिकथनं सगुणब्रह्मप्राप्तिविषयकमस्तुउत्क्रान्त्यादिश्रवणं तु निर्गुणब्रह्मप्राप्त्यर्थमिति किंन स्यादिति चेत् न । सगुणब्रह्मव्यतिरिक्त ब्रह्म सद्भावे प्रमाणाभावात्अत एव तादृश ब्रह्मप्राप्तेः निरस्तत्वात् । सत्यं ज्ञानमनन्तंब्रह्मेत्युक्त ब्रह्मवेदनस्य सोऽभ्नुते सर्वान्कामान् सह ब्रह्मणाविपश्चितेति सगुण ब्रह्मप्राप्ति फलकत्वावगमात् मुक्तेस्सगुण विषयकत्वनियमादिति
उत्तर सूत्रे तदित्यस्य अमृतत्वमिति व्याख्यानम् । ब्रह्मणस्सर्वगतत्वेनात्रापितस्य प्राप्तत्वात् अदग्धदेहसंबन्धस्यैव पुंसः ब्रह्मप्राप्तिरितिन युज्यते इति शंकायामाह - सा चार्चिरादिनेति । अन्यथाऽविदुषोऽप्यत्रब्रह्म प्राप्तिस्यादिति भावः । आतदंवस्था प्राप्तेः देशवि शेषप्राप्तिपर्यन्तमित्यर्थःउत्क्रान्तिदशायामपिहि सूक्ष्मशरीरसंबन्धसत्वम् । अतस्तावत्पर्यन्तंसंसार एव आ - अपीतेः इति पदच्छेदः । ननु मरणसमये एव भोगहेतुसर्वकर्मनिवृत्त्या नोत्क्रान्तिदशायां सूक्ष्मशरीर संबन्ध सद्भावः इतिन तदानीं संसारत्वंनच कर्मनाशेन शरीरस्यापि नाशात् जीवस्य कथं गमनमिति वाच्यम् । जीवस्याणुत्वेनस्वभावत एव क्रियावत्वात् सूक्ष्मदेहानुवृत्तिमन्तरेणापि गति संभवादितिचेन्न, तथा गमनसंभवेपि श्रूयमाण चन्द्रसंवादाद्युपपत्तये तदानीमपिशरीरसंबन्धस्यावर्जनीयत्वात् । नहि चन्द्रलोकपर्यन्तं स्वरूपेणगत्वा तत्र कंचिदपूर्वं देहं परिगृह्य चन्द्रेण सवदते इति वक्तुंशक्यं,कल्पना गौरवात् । कृत्स्नाविद्यानिवृत्तेः परमपदगमनापेक्षत्वाच्चतस्मादुत्कान्तिदशायामपिसूक्ष्म शरीरसंबन्धसत्वात् संसार एवेतितस्य तावदेवेत्यदिना ब्रह्मविदः यावद् ब्रह्मप्राप्ति देहबन्धानुवृत्तिश्चोक्ताअतो ज्ञानसमनन्तरमेव मोक्षः इति पक्षः अनादरणीयः । यावन्न विमोक्षयेइति विलम्ब कथनाच्च विमुक्तेः प्राक् गानकाले संसारित्वमेव, नमुक्तत्वं इति ।।
उत्तरसूत्रार्थमाह - इतश्चेति न मुक्तः इत्यर्थः । मरणात्पूर्वमनुवर्तमानस्यस्थूल देहस्य प्रत्यक्षसिद्धत्वात् तत्रादग्धत्वस्थापन मनावश्यकमित्याशयेनोत्क्रान्तिदशायांतत्स्थापनम् ।। यद्वा ब्रह्मलोकप्राप्ति पर्यन्तं स्थूलशरीरस्यसूक्ष्मशरीरस्य च सद्भावस्यावश्यसिद्धत्वात् नात्र बन्धस्य दग्धत्वसंभवः इत्याशयः । यद्यपि पूर्व सूत्रेपि तावत्पर्यन्तं देहसंबन्धस्स्थापितःअथापि पूर्वसूत्रोक्त शरीरसंबन्ध सद्भावे प्रमाण प्रदर्शनमिहक्रियते इति भिदा । चशब्द श्रवणात् इतश्चेत्युक्तम् । सच पूर्वसिद्धशरीरसद्भाव प्रमाण हेतु समुच्चायकःतमागतं पृच्छति । कोसीति । तं प्रतिब्रूयात् विचक्षणादृतवो रेतआभृतं पंचदशात् प्रसूतात् पित्र्यावतस्तन्मा पुंसि कर्तर्येरयध्वं….तेनसत्येन तपसाऋतुरस्मि, आर्तवोऽसि कोऽसि त्वमहमस्मीति तमतिसृजते,इति श्रुतिः । अत्र ताल्वादिव्यापाररूपवचनस्य “प्रतिब्रूयादि” त्यनेनचोक्तत्वात्शरीरानुवृत्तिः ।।
अनन्तरसूत्रार्थमाह - अत इति । एवमुक्तैः विदुषो गतिश्रवणादिहेतुभिःअत्र ब्रह्म समश्नुते इति वचनमन्याभि प्रायकमेव नतु इहैव बन्धोपमर्देनामृतत्वबोधकमिति भावः । यद्यपि अमृतत्वं चानुपोष्येत्यादिनैव जीवन्मुक्तिःकण्ठतो निरस्ता अथाप्युपसंहारबलेन पुनरपि निराकरणं निराचिकीर्षातिशयात्कृतमिति ध्येयम् । मुक्युपायोपासनस्या प्रयाणादनुवृत्तिश्रुतेःउत्क्रान्तिश्रुतेःअर्चिरादिमार्गेण गमनश्रुतेः देशविशेषप्राप्त्या सर्वबन्धविनिर्मोक्षश्रुतेःतावत्पर्यन्तं सूक्ष्मशरीरानुवृत्तिश्रुतेश्च प्रत्यक्षविरोधात्जीवन्मुक्ति पक्षो़संगतः । विरुद्धश्च जीवन्मुक्तिवादः मममाता बन्ध्येति वचनवत् ।नहि तत्त्वबोधात् तत्त्वविदः इहैवमुक्तत्वे पश्चात् दुखानुवृत्तिर्युक्तान च तद् दुःखस्य मिथ्यात्वेन परिहारःसंभवति । पश्चात्तनस्य दुःखस्येवतत्त्व बोधपूर्वभाविदुःखस्यापि मिथ्यात्वेनाविशेषात् । अन्यथा तद्दुःखस्य सत्यत्वापातेनापसिद्धान्तप्रसंगात् । अत एव वेदानिमं लोकममुंच परित्यज्यात्मानमन्विच्छेत् । बुद्धे क्षेमप्रायणं तच्छास्त्रैर्विप्रतिषिद्धं बुद्धेचेत्क्षेमप्रापणमिहैव दुःखमुपलभेतेति आपस्तम्बेनापिजीवन्मुक्तिवादो निरस्तः । तस्मात्अमृतत्वस्य ब्रह्मानुभवस्य बन्धोपमर्दनानन्तरभावित्वात् उपासनकालभावीब्रह्मानुभवः अमुख्यः इति निश्चेतव्यम्
अनन्तरसूत्रं व्याचष्टे - अस्येति । स्थूल शरीरे क्वाचित्कोष्मोपलब्ध्यासूक्ष्मशरीर सद्भावः क्वचि न्निश्चीयते । नच क्वाचित्कोष्मणः स्थूलशरीरीयत्वसंभवः । सन्तापयति स्वं देहमापाद तलमस्तकमिति श्रुत्या स्थूलशरीरोष्माणःसार्वत्रिकत्वावगमात् । अस्य च क्वचिदेवोपलब्ध्याऽन्यत्रानुपलब्धेःअतो म्रियमाणस्योत्क्रान्तौ क्वचित्कः उष्मासूक्ष्मशरीरस्य क्वचित्कत्वेनैवेतिक्वचिदूष्मोपलब्ध्या सूक्ष्मशरीरविशिष्टस्य विदुषः उत्क्रान्तिरस्तीतिनिश्चीयते ।अतः उत्क्रान्तिस्सर्वसमानेति भावः ।। अत्र कल्पादिमारभ्यकल्पावसानपर्यन्तं जीवीयेषु सर्वेष्वपि स्थूलशरीरेषु एकमेवानुवर्ततेतदेवलिङ्गशरीरम्कर्मानुरूपमनियतेषु देवतिर्यङ्गमनुष्यादि स्थूल शरीरेष्वनुयायिचेति सांख्या प्राहुः ।वस्तुतस्तु उत्तरदेहपरिग्रहार्थं पूर्वदेहान्निष्क्रान्तःपूर्वशरीरपञ्चभूत सूक्ष्मांश समुदायविशेष एव सूक्ष्मशरीरम् ।सेन्द्रियप्राणभूतसूक्ष्मांशानामेवपूर्वपूर्व शरीरगृहीतानां जीवेन सह गमनादि श्रवणात् । स्थापितंचैवमेव रंहत्यधिकरणे ।अतो देशविशेषप्राध्यर्थं गतस्यापि जीवस्यभूतसूक्ष्मांश सहितस्यैव गमनम् । परमपदप्राप्ति दशायांच निःशेषकर्मक्षयात्न कर्मकृतोत्तरदेहपरिग्रहः इति विशेषः ।।
अर्थानुवादेनोत्तरसूत्रमवतारयति - पुनरपीति । अत्रामृतत्वश्रुति निबन्धनःउत्क्रान्त्यसंभवः पूर्वं परिहृतः अत्रतु उत्क्रान्ति निषेधश्रुतिनिबन्धनः स एवोत्क्रान्त्यसंभवः निराक्रियते इत्याशयः । उत्क्रान्तिप्रतिषेधमेव श्रुत्योपपादयति - तथा हीति । सःअविद्वान् । तेजोमात्राःभूतसूक्ष्मांशान् । समभ्याददानः गृह्नन् ।हृदयमेवान्वपक्रामति=हृदयान्निक्रामतिततेन प्रद्योतेनेत्यादि वाक्यं अविद्वद्विषयमिति पूर्वपक्ष्याशयःवविहद्विषयमिति सिद्धान्ति हृदयम् । यद्यप्यर्चिरादिगतिस्तत्र श्रुताअथापि चतुर्मुखलोकगन्तुरूपासकस्वैव सा़र्चिरादिगतिः न तु मुक्तस्य । अतोऽविद्वद्विषयमेवेदं वाक्यमित्यभिसन्धिःअतः इत्यविदुषः उत्क्रान्ति प्रकरमभिधायेत्युक्तम् । अन्यन्नवतरंप्राप्यान्तमित्याद्युपरितन श्रुति बलादपि अविद्वद्विषयमेवेदम्अत एव “इतितुकामयमानः” इति अविद्विद्विषयं परिसमाप्य “अथाकामयमानः"इति विद्वद्विषयप्रस्तावः क्रियते इति भावः । अकामयमानः=पुत्रकामनारहितःअकामः=वित्तकामनारहितः । निष्कामः = विषयकामनारहितः । ईषणात्रयराहित्यमुक्तं भवति । तेन च विद्वद्विषयत्वं निश्चितम् । न तस्येत्यादिनाविद्वत्प्राणोत्क्रान्ति निषेधात् विद्वदुत्क्रान्तिनिषेधोप्यर्थात्सिद्ध इति भावःवक्ष्यमाणप्रश्नप्रतिवचनयोः विद्वद्विषयत्व ज्ञापनाय “अथ उपरित्याद्युक्तम्उदस्मादित्यत्रोच्छब्दः क्रामन्तीत्यनेन संबध्यते । अत्रैव समबलीयन्ते=शरीरेएवलीयन्ते इत्यर्थः । आध्मातः उच्छ्वयति=वायुनापूरितः=उच्छूनो भवतिपूर्वपक्षमुपसंहरति - अत इति ।परिहारखण्डं व्याचष्टे - तन्नेति । परिहारे हेत्वाकांक्षायां शारीरादितिखण्डेन विवक्षितं हेतुं व्यनक्ति - शारीरादिति ।प्रत्यगात्मनः इतिव्याख्यानम् । शरीरात् न प्रतिषिध्यते इति कथमित्यत्राह - न तस्येतिततच्छब्दस्य प्रकृतपरामर्शित्वात् तस्येत्यत्र तच्छब्दः पूर्वप्रकृतजीवपरामर्शक एव नतु प्रकृत शरीरपरामर्शकः । अतो जीवात् प्राणोत्क्रान्तिनिषेधेपि न तच्छरीरान्निषेध इति भावः । ननु न तस्य प्राणाः उत्क्रामन्तीत्यत्रविदुषः शरीरात् प्राणाः नोत्क्रामन्तीत्येवार्थो वक्तव्यः । जीववाचकतच्छब्दस्यचषष्ट्यन्तत्वेन उत्क्रामन्तीत्युक्तोत्क्रान्त्यपादानवाचकत्वासंभवात्उत्क्रान्तेश्चापादान सापेक्षत्वात् शरीरस्यचोत्क्रान्त्यपादानत्वेनान्वयात्इत्याशयेन चोदयति - तस्येति षष्ट्येति । परिहरति नेति । यद्यप्युत्क्रान्तेरपादानापेक्षाअस्ति अथापि तच्छब्देनश्रुत एव शारीरः अपादानं, अश्रुतस्य धर्मिणःतस्यापादानत्वस्य चोभयोः कल्पनापेक्षयापि श्रुतस्य शारीररूपधर्मिणः एवअपादानत्वमात्र कल्पनस्य लघीयस्त्वात् ।अतस्तस्येति षष्ट्या तच्छब्दबोधितस्यजीवस्य प्राणशब्दबोधितानां - चोपकरणोपरकणित्वलक्षणसंबन्ध प्रतीतावपिश्रुतस्यैवशारीरस्यापादानत्वकल्पनं युक्तमिति तस्मादेव शारीरात् प्राणानामुत्क्रान्तिर्निषिध्यतेन शरीरादिति भावःएएवं तस्येत्यत्र षष्ट्याः संबन्धपरत्वमुभ्युपगम्य निर्वाहः कृतःअथसंबन्ध सामान्यवाचिन्या षष्ट्याः अपादानरूपविशेषपरत्वाभ्युपगमेननिर्वाहं प्रदर्शयति - किंचेति ।तत्संबन्धकथने प्रयोजनाभावादितिजीवप्राणानामुपकरणोपकरणित्वलक्षणसंबन्धस्य प्रज्ञातत्वेन तत्कथने नैरर्थक्यादिस्यर्थः । षष्ट्याःअपादानवाचकत्वे दृष्टान्तमाह - नटस्य श्रुणोतीति । संबन्धान्तरकथनेनैरर्थधात् षष्ट्याःअपादनवाचकत्वदर्शनाच्च शारीर एवापादनमिति भावःएवमुपपत्तिबलात् शारीरस्यापादानत्वमुक्तम् । अथ श्रुत्यन्तरबलादपिशारीरस्यैवापादानत्वमित्याशयेनाह - न चात्रेतिअपादानमिति=अपादानत्वेनेत्यर्थः । शारीरो=जीवः एकेषां शाखिनामपादानत्वेनस्पष्टःइत्यर्थः ।अयमाशयः - माध्यन्दिनशाखायां समानप्रकरणे अथाकमयमानः इति ब्रह्मविदंप्रस्तुप्य “न तस्मात्प्राणा उत्क्रामन्ति इति तस्येति काण्वशाखाश्रुतषष्टीस्थानेतस्मादिति पंचमीश्रवणेन आत्मनस्सकाशादेव प्राणानामुत्कान्ति प्रतिषेधःस्पष्टः। एवमेवहि योविज्ञानेतिष्ठन्नित्यत्र विज्ञान शब्दस्य समानप्रकरणस्थेनायआत्मनितिष्ठन्नित्यत्र स्थितात्मशब्देनात्मपरत्वं निर्णीयत इति।। अप्रसक्त प्रतिषेध प्रसंगं शंकते - शारीरादिति । अयमुत्क्रान्तिप्रतिषेधः प्रसक्तप्रतिषेध एवेत्याशयेन परिहरति - नेत्यादिना । शरीरवियोगकालेविदुषः प्राणानामुत्क्रान्तिरिष्ठैवेति अनिष्टत्वाभावात्तन्निषेधो़युक्त इत्यत्राह - ततश्च देवयानेनेति ।नोपपद्यत इतिन तस्य प्राणाउत्क्रामन्तीत्युच्यते इत्यन्वयः । देवयानेनेत्यादि न तस्येति श्रुत्यर्थः।। तस्य तावदेवेत्यादिना देहवियोग समनन्तरमेव ब्रह्मप्राप्तिरुक्तातदानीमेवच शारीरात् प्राणानामुत्क्रमणं च प्रसक्तम् । तथा च सतिदेवयानेनगमनं चन्द्रसंवादादि श्रुत्यन्तरसिद्धंअनुपपन्नं भवतीतितदानीं विदुषः प्राणोत्क्रान्तिर्निषिध्यते इति भावः । उक्तैवरीतिःआर्तभागप्रश्नादावपीत्याह - आर्तेति । तस्याविद्वद्विषयत्वमेव युक्तमित्यभिप्रयन्नाह - सत्विति । कुतः इत्यत्राह - तत्रेतिइत्थं च तस्याविद्वद्विषयत्वात्अविदुषश्च शरीरात् प्राणोत्क्रान्तिनिषेधासंभवात् शारीरापादानकोत्क्रान्ति प्रतिषेध परत्वमेवाश्रयणीयमितिभावः ।ग्रहातिग्रहरूपेणोति । ग्रहः=पात्रविशेषः । तत्स्यंं द्रव्यं=अतिग्रहःतदूपेणेत्यर्थः । आकर्षकरज्जु तत्समाकृष्टव्यरूपेणवेत्यर्थः ।यथा पात्र तत्स्थ द्रव्ययोःआकर्षक रज्जु आकृत्यवस्तुनोश्च संबन्धःतादृशः शब्दार्थयोस्संबन्धः इति भावः ।अपाभग्न्यन्नत्वं=अग्नेःअपोभक्षकत्वानुसन्धानं फलविशेषायविहितम् ।जीवस्य प्राणापरित्यागइति। उदस्मात्प्राणा उत्क्रामन्त्यहोनेत्यादिना़परित्यागः उक्तः । अप पुनर्मृत्युं जयतीत्यनेन विद्वद्विषयकत्वशंकां परिहरति - तत्र चेति । मृत्युशब्दवाच्यः अग्निरेवेति न विद्वत्प्रस्तावःइति भावः । ननु उदस्मादित्यादिवचनस्याविद्वद्विषयकत्वे कथं प्राणानुत्क्रान्तिकथनमित्यत्राह - अविदुषरस्त्विति । अविदुषोपि स्थूलदेहपरित्यागइव प्राणपरित्यागोनास्ति । किं तुजीवस्य भूतसूक्ष्मपरिष्वंगइव प्राणपरिष्वंगोऽस्तीतिउत्क्रान्तिनिषेधः युक्तइति भावः ।अथ हैनंजारत्कारवः अतिभागः पप्रच्छ । याज्ञवल्क्येति होवाच । कतिग्रहाः कत्यतिग्रहाः इति ।अष्टौग्रहाः अष्टावतिग्रहाः इत्यारभ्यप्राण - वाक् - जिह्वा - चक्षुः - श्रोत्र - मनो - हस्त - त्वचः इति उक्तानामिन्द्रियाणांअष्ठानांग्रहत्वमुपवर्ण्य, तत्तद्विषयाणामतिग्रहत्वं च प्रतिपादितम्अत्र प्राणशब्दः ध्राणवाची । गन्धवान् जिघ्रति । इत्युपर्युक्तेःततत्रेन्द्रियाणां स्ववशे जीवस्थापकत्वं स्वभावः । अतिग्रहाणामिन्द्रियाणांतु इन्द्रियापेक्षयापि अतिस्थापकत्वं मति शयतं इति चोक्तम् । अनन्तरंच यज्ञवल्क्येति हो वाच, यदिदं सर्वं मृत्योरन्नं, कास्वित्सा देवता,यस्याः मृत्युरन्नमिति, अग्निर्वै मृत्युः सो़पामन्नं अप पुनर्मृत्युं जयतीति, अपां अग्न्यन्नकत्वं प्रतिपादितम्ततः - याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उतस्मात्प्राणाःक्रामन्ति आहो नेति, नेतिहोवाच “इत्यादि वाक्यं’श्रूयते । पूर्वपक्षिणोऽयभर्थःपुरुषः=देहः म्रियते = नष्टो भवति । तदा प्राणानां अस्मात् =शरीरात्उत्क्रामन्ति नवेति ।प्रश्नः ।। समाधानं तु=अत्रैव=शरीरे एव संगताःक्रियन्ते । अत एव स=देहः उच्छ्रवयति=उच्छूनः =पीनो भवति । आध्मायति=बाह्व्यवायुनापूरितो भवति । इति । सिद्धान्तिनस्तु - पुरुषः जीवः । म्रियते=देहसंबन्धंत्यजतितदा अस्मात् जीवात् प्राणाः उत्क्रामन्ति न वेति सन्देहः । अस्यसमाधानं तु अत्रैव=जीवे एव = उत्क्रमणार्थं प्राणाः संमेलिताः भवन्तिसः=देही=पीनो भवति । अत्र विशेष्य जीवेपीनत्वाद्यसंभवात् विशेषणेदेहे पर्यवस्यति । अनन्तरं च यत्रायं पुरुषः म्रियते किमेनं न जहातिइति प्रश्नः ।नामेति समाधानम् । नामशब्दवाच्या कीर्ति न जहातीत्यर्थःपश्चात्=यत्रास्य पुरुषस्य मृतस्याग्नि वागप्येतीत्यारभ्य - क्वायंतदा पुरुषो भवति । इति म्रियमाणविषयगति प्रश्नः । सजने अस्यसमाधानंन युक्तमिति अतिभागहस्तं ग्रहीत्वा विजने समाहितं - पुण्यो वै पुण्येनकर्मणा भवति पापः पापेन इति अतोऽत्र प्रश्नप्रतिवचनानि सर्वाणि अविद्वद्विषयाणीति बोध्यम् ।।
उत्तरसूत्रार्थमाह - स्मर्यते चेति । तेषां = हृदयरश्मीनां मध्ये य एकःऊर्ध्वं स्थितः रश्मिः सुषुम्नाख्यः तेन सूर्यमण्डलं भित्वा ब्रह्मलोकं = चतुर्मुखलोकमतिक्रम्यपरमं प्राप्यं परं ब्रह्म प्राप्नोतीति तदर्थः । ननु विद्वविदुषोर्द्वयोरपिदेहादुत्क्रान्त्यभ्युपगमे अथाकामयमान इति ब्रह्मविदः पृथगारम्भप्रयोजनं किमित्ति चेत् ब्रह्मविदः उत्क्रान्तस्य ब्रह्मप्राप्तिरूपविशेष प्रतिपादनायेति ध्येयम् । उभयोरपि नाडीप्रवेशस्य श्रवणात्उत्क्रान्तिः समाना, ततः नाडी प्रवेशे एव वैलक्षण्यम् । पूर्वमुक्ताउत्क्रान्तिः पर संपत्तिश्च समाना तथा च “समाना च’ इत्यत्र चकारःविद्वदविद्वोभयसमुच्चायकःउत्क्रान्तिः पर संपत्ति नाडी प्रवेशपर्यन्त समुच्चायकश्च ।। आसृत्युपक्रमाधिकरणंसमाप्तम् ।।