(4.02.04) भूताधिकरणम्वृत्तमनुकीर्तयन् संशयादिकं दर्शयति - प्राणस्तेजसीति ।सजीव प्राणस्य तेजसि संबन्धः पूर्वमुक्तः । अधुना संपद्यते इतिसंपत्त्याश्रयत्वेन तेजस एवोपादानात् तन्मात्रे एव संपत्तिर्युक्तानहि भूतान्तरवाचकंपदं श्रूयते । न भूतान्तरवाचकश्च श्रूयमाणस्तेजश्शब्दःनच छत्रिन्यायेन तेजोव्यतिरिक्तानामप्यत्रोपादानं संभवति ।अछत्रिणांगमनस्यप्रत्यक्षतः उपलम्भवत् तेजोव्यतिरिक्त भूत ग्रहणे प्रमाणानुपलब्धेःइतिभावः ।। सिद्धान्तमाह - उच्यत इति ।तच्छ्रुतेरिति सूत्रखण्डं विवृणोति - पृथिवीमयइत्यादिना। सूत्रस्थ तच्छब्दस्य भूतेष्विति प्रकृतभूतमात्रपरत्वेपिसामर्थ्यात् भूतमयत्वपरत्वमित्यभि प्रेत्य भूतमयत्वश्रुतेरित्युक्तम्यद्यपि अत्र श्रुतौ तेजसीति तेजोमात्रे एव संयोग उक्तः । अथापिश्रुत्यन्तरे पृथिवीमयः आपोमयस्तेजोमयः इति संचरतोजीवस्य भूतन्तरसंयोगस्याप्युक्तेःसर्वभूतमयत्व प्रतीतेः छत्रिन्यायेन तेजोभिन्नभूतान्तरसंयोगोपिविवक्षित इति भावः । तथा च तेजश्शब्दः सर्वभूततात्पर्यकः इत्याशयः।सूत्रे भूतशब्दः भूतसूक्ष्मांशपरः । तेजश्शब्दस्यापि तत्रैव तात्पर्यम् ।।
उत्तरसूत्रं चोद्यमुखेनोत्थापयति - नन्विति । अयमाशयः - यद्यपि पृथिवीमयःआपोमयः तेजोमयःइत्यत्रजीवस्य सर्वभूतसंबन्धः उक्तः अथापि एकदैवसर्वभूतसंबन्धस्तत्रोच्यते इति तुन संभवति । क्रमेणापि तत्संभवात्अत एव हि पृथङ् निर्दिश्यते । इत्थं च श्रूत्यन्तरे जीवस्य क्रमेणसर्वभूत संबन्ध सद्भवावगमेपि अत्र तेजश्शब्दमात्रश्रवणात् तन्मात्रसंबन्धःएवविवक्षितः किं न भवेत् । यदित्वेकदैव संचरतो जीवस्य सर्वभूतसंबन्धोविवक्षितस्स्यात्तदाऽत्रतेजस्संबन्धोक्तावपि सर्वभूतसंबन्ध प्रतीतिरार्थिकीस्यात् । तथा चात्रान्यत्र क्रमेण प्रतिपादितायाः तेजस्संपत्तेरेवोक्तत्वात्सैवविवक्षणीयेति न सर्व भूतसंबन्ध सिद्धिरितिनैकस्मिन्निति। एकस्मिन्नेव भूते न संबन्धः इत्यर्थः । कुत इत्यत्रहेतुमभि प्रेतमाह । एकैकस्मिन्निति । श्रुत्यन्तरे क्रमेण वा युगपद्वासर्वभूतसंपत्तिर्विवक्षिताऽस्तु । अथापि केवलस्य तेजोरूप भूतस्यकार्यकरणाक्षमत्वात् केवल तेजोपादानेपि सर्वभूत संबन्ध एषितव्यइति अजहल्लक्षणया तेजश्शब्दः सर्वभूतपर एव । श्रुत्यन्तरे सर्वभूतमयत्वोक्तिरपिअत्रिवृत्कृतस्य कार्याक्षमत्वाभि प्रायिण्येव । एतदाशयेनैव तच्छ्रुतेरितिश्रुत्यन्तरस्य प्रमाणत्वेनोपादानमिति भावः । नन्वत्रिवृत्कृतस्यकार्यक्षमत्वं कुतो न भवतीत्यत्रोत्तर खण्डं विवृणोति - दर्शयत इतिद्विवचन मनुसृत्य श्रुति स्मृती इत्युक्तम् । श्रुतिद्वयस्यैव विवक्षितत्वेश्रुतित्वेन साजात्यात् दर्शयतीत्येकवचनमेवालम् ।। आपः पुरुषवचसोभवन्तीत्यत्र त्रिवृत्कृतानामेवापां कार्यकरत्वं च दृष्टमित्यपिध्येयम् ।। अधिकरणार्थ मुपसंहरति - अत इति ।। ननु प्रथमं भूतसृष्टिःततः पंचीकरणं ततः अण्डसृष्टिः ततो देवादि व्यष्टिसृष्टिरिति क्रमःव्यष्टिसृष्ट्यनन्तरं अत्र विद्यमानस्य जीवस्योत्क्रान्ति दशायांप्राणस्तेजसीति प्राणसंयुक्तस्य जीवस्य तेजसि संपत्तिरुच्पते ।अत्रापंचीकृततेजएव नास्ति । अतः किं तेजोमात्रे उत संहतेषु सर्वेषुभूतेषु “इति कथं संशयः ।न च अपंचीकृत भूतमधुनाऽत्र नास्तीति निश्चप्रचम् । अथापि पंचीकृततेजोमात्रेवा पंचीकृतेषुसर्वेषुवा इति संशयतात्पर्यमिति न दोषः इति वाच्यम्तथा सति समाधानानुपत्तेः “तासां त्रिवृतं त्रिवृतं” अण्डमुत्पादयन्तिते “इत्यत्र अण्डोत्पत्तिकारणतया त्रिवृत्करणदिकं ह्युच्यते । तद्विप्रकृतानपयुक्तम् । इति चेत् सत्यम् । यथा अपंचीकृतस्य भूतस्य कार्योत्पादनसामार्थ्यंनास्तीति भूतान्तर संसर्गः आवश्यकः । तथैव पंचीकृत तेजोमात्रस्यपंचीकृतभूतान्तरासं सृष्टस्यापि कार्यकरत्वं न भावतीति तात्पर्यात्नहि पंचीकृततेजोमात्रे संपत्तिं प्राप्य वर्तमानः पंचीकृततेजस्सूक्ष्ममात्रशरीरकः देहान्तर प्राप्ति समये पंचीकृतपञ्च भूतात्मशरीर भाक् भवितुमर्हतिअतः पंचीकृत भूतसूक्ष्म पंचकशरीर विशिष्टत्वमावश्यकमित्यत्र तात्पर्यमितिन दोषः ।। त्रयात्मकत्वात्तु भूयस्त्वादिप्यत्रापीदमेवोक्तम् ।ननु संहतसर्वभूतेषु संपत्तेः सत्वे पृथिव्यां संपद्यते आकाशे संपद्यतेइति वा कुतो नोक्तम् । तेजोग्रहणस्य किं प्रयोजनमिति चेत् शृणुउत्क्रान्तेः पूर्वं “संतापयनि स्वं देहमापादतलमस्तकं इति तेजसःसर्वव्याप्तिः उक्ता । उत्क्रान्तिदशायां तु तादृशाग्नेः उपसंहारःक्वचित्प्रदेशे एव कंचित्काल मूष्मोपलब्धिः । इदं च प्रत्यक्षसिद्धम्एतत्सूचनायैव तेजसीत्युक्तम् । अतः उत्क्रान्तेः प्राक् सूक्ष्मदेहसंबन्धःआत्मनि आवश्यकः इति ज्ञापितम् । तेनचोपासनकाले मुख्यामृतत्वमस्यनास्तीतिच ज्ञापितम् । “अस्यैवचोपपत्तेरूष्मा इति सूत्रे व्यक्ती भविष्यतितेजसः ऊर्ध्वगति स्वभावात् उत्क्रान्तस्यास्य ऊर्ध्वगति संपादनसौकर्यं च इत्यतोपि तेजसि संपद्यते इत्युक्तम् । । भूताधिकरणं समाप्तम् ।।