(4.02.03) अध्यक्षाधिकरणम्वाङ्गमनसि संपद्यत इति श्रुतिवाक्यस्य क्रमेणार्थविचारणात्संगतिः । यद्वा पूर्ववत् वचनानु सारेण प्राणस्तेजसीत्यत्रापितेजसि प्राणसंबन्धप्रतीतिः स्यादित्याक्षेप संगतिः । पूर्वपक्षमाह - यथेतियथा श्रुतिर्बोधयति तथैवास्माभिस्स्वीकर्तव्यम् । अस्माकमसर्वज्ञत्वात्अत एव वाङ्मनसि संपद्यते मनः प्राणे इत्यत्र यथाश्रुति अर्थोवर्णितः । तस्मात् प्राणस्तेजसीत्यत्र एकादशेन्द्रिय सहितस्य प्राणस्यतेजस्येव संयोगः प्रतिपाद्यते इत्यभ्युपेत्यम् । मध्येऽन्यत्रसंबन्धकल्पने श्रुतहानि अश्रुतकल्पना प्रसंगःसिद्धान्तमाह - इति प्राप्तइति । जीवोपगमः जीवसंबन्धः ।अभिसमायन्तीति।यदि तेजस्येव प्राणस्य योगः श्रूयेत तदाभवदुक्तारीतिः स्वीकर्तुंशक्या । मध्ये पुनः आत्मानमन्तकाले सर्वे प्राणाः अभिसमायन्तीतिप्राणानामात्मनि योगोऽपि साक्षादभिधीयते । अतः उक्तश्रुतिवाक्ययोरविरोधेनैवनिर्वाहः कर्तव्य इति भावः । सूत्रस्थादि शब्दविवक्षितमर्थद्वयंप्रदर्शयति - तथेत्यादिना । अथाविरोधेन निर्वाहं दर्शयति - एवं जीवेनेतिप्राणस्य जीव संबन्धः तेजस्संबन्धश्च श्रुतः ।अतस्संबन्धद्वयनिर्वाहाय जीवे प्राणसंबन्धं स्वीकृत्य प्राणसंयुक्तस्य जीवस्यतेजस्संबन्धः इति स्वीकरणे न दोषःननु प्राणस्य जीवद्वारैव तेजस्संबन्धः नतु साक्षादिति प्राणस्तेजसीतिव्यवहारः कथमित्यत्रानुरूपं दृष्टान्तमाह - यथेति । नच विनिगमनाविरहात्प्राणस्य तेजोद्वारेणैव जीव संबन्धोस्तु इति वाच्यम् । निरध्यक्षस्यप्राणस्यतेजसि स्थित्यसंभवात् । एतत्सूचनायैव सूत्रे अध्यक्षे इत्युक्तम्उपगमः समीपगमनम् । संश्लेषाय समागमः ।सर्वे प्राणाः - दश इन्द्रियाणिमनःप्राणवायुश्च । एतेषां सर्वेषां अभिसमायानं, (आगमनं) श्रुतम् ।उत्क्रान्तिः=अनुगमः ।“कस्मिन् उत्क्रान्ते” इत्यादिना प्रतिष्टोक्ताइदं वाक्यं स्वात्मनि जीवस्य चिन्तनरूपंननु अस्मात् वाक्यात् प्राणोत्क्रमाद्यनन्तरं जीवोत्क्रमणं उच्यतेतमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति हि श्रुतिः । कथमिदमुपपद्यतेइति चेत् अयं भावः । मयासह कस्मिन् उत्क्रान्ते सति अहमुत्क्रमणकार्यभाक्स्याम् मया सह कस्मिन्वसति वासः स्थितः स्यात् इति जीवश्चिन्तयतिएवं चिन्तनरूपसमीक्षैव प्रतिष्टा । अतः उभयोरेकदैवोत्क्रमः । अतएव “सह हि एतौ अस्मिन्वसतः । सहोत्क्रमतः इति श्रुत्यन्तरेचोक्तम् ।।अध्यक्षाधिकरणं समाप्तम् ।