13 मनोधिकरणम्

(4.02.02) मनोऽधिकरणम्सूत्रार्थमाह - तदिति ।सर्वेन्द्रिय संयुक्तं मनइतिअनेन वाङ्मनसीत्यत्र वाक्शब्दः सर्वेन्द्रियोपलक्षणमिति दर्शितम्ननु शब्दाच्चेति पूर्वाधिकरणस्थसुत्रखण्डबलेनैव मनःप्राणे इतिवाक्यस्याप्यर्थनिर्णयसंभवात्तदर्थनिर्धारणाय पृथक्सूत्रं व्यर्थमिति शंकापरिहाराय अधिकाशंकामाह - अधिकेतिपप्राणशब्दनिर्दिष्टाप्सु मनसः लयोपपादनाय अन्नप्रकृतित्वमवगम्यतेइत्यन्त मुक्तम् । अन्नप्रकृतित्वं अन्नप्रकृतिकत्वम् ।।उक्तयुक्त्यामनसः अन्नमयत्वेपि तस्य पृथिवीद्वारा अप्सुलय संभवोपपादनाय अन्नमयत्वंसिद्धमित्यन्तमुपात्तम् । ता अन्नमसृजन्त इति पृथिव्याः अन्न कार्यत्वोक्तेःअप्सु प्रथिवी लयः उपपन्न इति भावः । साक्षात्प्राणशब्द बोधितेमनसः पृथिवीद्वारालयासंभवपरिहाराय प्राणस्याव गम्यते इत्यन्त मुक्तम्शंकामुपसंहरति - अत इति ।परंपरया स्वकारणे लय इति।स्वकारणपृथिवीद्वाराअन्नमयस्य मनसः प्राणशब्दलक्षिताप्सु लयस्य संभवात् मनःप्राणे संपद्यतेइत्येतत्यथावस्थितमेवोपपन्नम् । संपद्यत इति शब्दास्वारस्यंचनेति भावः ।विवक्षितमधिकशंका परिहारमाह - परिहारस्त्विति ।अन्नमयं हि सोम्य मनःइत्यत्र मनसः अन्नेनाप्यायनं, आपोमयः प्राणइत्यत्र प्राण स्याद्भिराप्यायनंचात्रोच्यते । तच्च कार्यक्षमतापादन रूपम् ।न तु तत्र प्रकृतिविकृतिभावः इत्यर्थः। कुत एवमित्यत्राह - आहंकारिकत्वादिति । दूषणान्तरमाह - प्राणेतिममनश्शब्दस्य मनः परत्वमेवाभ्युपगम्य स्वकारण पृथिवीद्वारा लयस्यपूर्वपक्षितत्वात् न मनश्शब्दस्य लक्षणारूप दूषणं युक्तमिति ध्येयम् ।।मनोधिकरणं समाप्तम् ।।