(4.02.01) वागधिकरणम्- पादसंगतिमाह - इदानीमिति । अयमाशयः - प्रथमाध्याये परतत्व प्रतिपादनंकृतम् । द्वितीयाध्यायेच नित्यत्वज्ञातृत्वप्रभृतिगुणैः जीवतत्त्वस्वरूपंशोधितम् । तृतीयाध्यायप्राथमिकपादद्वयेन जीवात्मनः सर्वावस्थासुदोषवत्वंपरमात्मनः र्निदोषत्वकल्याण गुणाकरत्वं च प्रतिपादितम् । तदनन्तरंपरमात्म प्राप्त्यर्थोपायश्च निरूपितः ।पश्चात् उपासकस्यापेक्षितंविद्यारम्भमुपक्रम्य विद्यावसानपर्यन्तं मध्ये यद्वक्तव्यं तत्सर्वमुक्तम्अथ प्रारब्ध कर्मववसाने स्थूलदेहं विजहतो जीवस्य गमनोपक्रमरूपाउत्क्रान्तिः प्रतिपाद्यते इतियद्यपि स्थूल देहपरित्यागस्य मरणरूपत्वेन वैराग्यपादे एव जाग्रदाद्यवस्थानिरुपणवत्मरणावस्थानिरूपणमपि युक्तम् । अथापि ब्रह्मज्ञस्य महानुभावत्वेनमरणमेव नास्तीति बाल बुद्धिशंकापनोदनेन तस्यापि प्राप्तकाले मरणमस्तीति विशेष सूचनार्थं, ब्रह्मविदां मरणस्य सुखात्मकत्वद्योतनार्थं ब्रह्मविद उत्क्रान्तौ मूर्धन्यनाड्या गमनमिति विशेषाभिव्यक्यैच सर्वसाधारणमपि मरणं फलाध्याये चिन्त्यते इति बोध्यम् । विषयादिकंदर्शयति - तत्रेदमिति । उदाहृतवाक्यार्थस्य क्रमेणविचार्यमाणत्वादत्रविचारणीयमशमुदाहृत्य संशयं प्रदर्शयति - अत्रेतिवाग्वृतिः=वाग्व्यापारः ।वाक्प्रकृतिकत्वाभावादिति । वागिन्द्रियोपादानत्वाभावादित्यर्थः । ननु मनसःवागिन्द्रियोपादानत्वस्येव वागिन्द्रियव्यापारोपादानत्वस्याप्यभावात्तत्र वागिन्द्रिय व्यापारलयस्याप्यसंभवस्तदवस्थः एवेत्यत्राह - वागादिवृत्तीनामिति । अयमाशयः - वाङ्मनसि संपद्यते इत्यत्र वाक्शब्दबोध्यस्यमनसि लयः प्रतिपाद्यते । तत्र वाक्शब्दबोध्यं लय प्रतियोगिभूतंकिमित्यपेक्षायां स्वरसतः प्रतिपन्नं वागिन्द्रियं न भवितुमर्हतिकारणे एवलयस्य संभवात् मनसश्च वागिन्द्रियं प्रति कारणत्वाभावात्इन्द्रियाणामाहंकारिकत्वात्अतो वाग्व्यापार एव वाक्शब्दवाच्यः इति निश्चेयम् । यद्यपि वाक्व्यापारोपिन मनः प्रकृतिकः । अथापि तस्य मनः कारणकत्वेन वाग्वृत्तेः मनसिउपरमकथनं कथंचिदुपपन्नं भवति । मनसि स्थितेपि वाग्व्यापाराभावस्तुउपपद्यते । विद्यमानस्य वागिन्द्रियस्य तादात्त्विकाभावस्याप्यभावेन वाक्शब्दस्येन्द्रियपरत्वे संपत्तिश्रुतिः न कथं चिदप्युपपद्यतेइति । सिद्धान्तमाह - एवं प्राप्ते इति । दर्शनादिति खण्डं विवृणोति - दृश्यतेहीति ।दृश्यते=अनुमीयत इत्यर्थः मनसि स्थितेपि वाग्व्यापाराभावमात्रमेवोपपद्यतेन तु वागिन्द्रियाभावोपि इति न नियमःवागिन्द्रियोपरमेपि मनः प्रवृत्तिदर्शनात् । अतः वाग्व्यापाराभाववत्वागिन्द्रियाभावोपि तदनीमुपपद्यते इति एतदभि प्रायिण्येव संपत्तिश्रुतिः किं न स्यादिति भावः । उत्तरखण्डमवतारयति - वृत्तिमात्रेतिविनिगमकं नास्तीत्याशयः ।वाक्स्वरूपसंपत्तावेवेति। मनसः प्रवृत्तव्यापारत्वेपिवागिन्द्रियस्य निवृत्तव्यापारत्व संभवात् तादृशेच मनसि प्रवृत्तस्वकार्येदारुणि निवृत्तस्वकार्यस्याग्नेरन्तर्भूतत्ववत् निवृत्तव्यापारस्यवागिन्द्रियस्यैवान्तर्भूतत्वसंभवात् वागिति शब्दस्वारस्याच्च वाक्स्वरूपस्यैवमनसिसंपत्तिर्युक्तेति भावःअथतदानीं वृत्तेरिव वागिन्द्रियस्यापि सद्भावः अनुपलम्भनिरस्तःइत्याह - नहीति ।ननु वागिन्द्रियं प्रति मनसः उपादानत्वाभावात् तत्रतस्य लयकथनमसंगतमिति बाधकहेतुरस्माकमधिकः इति शंकामनूद्य परिहरति - यदुक्तमितिसंयुज्यत इति । अत्र संपत्ति शब्दस्य लयपरत्वेहि त्वदुक्तदूषणंप्रसरेत् । संयोगपरत्वमभ्युपगम्य वागिन्द्रियमुपरतव्यापारं सत्मनसा संयुज्यते इत्यर्थ स्वीकारेण नोक्त दोषस्य प्रसक्तिः । संपत्तिशब्दस्य संयोगपरत्वमपि लोकदृष्टम् । ननु संपत्ति शब्दस्य लयसंयोगोभयपरत्वेपिलयपरत्वप्रसिद्धिस्वारस्यात् तदेवात्रस्वीकार्यमिति चेन्न उपक्रमस्थवाक्शब्दस्वारस्येनतादृशप्रसिद्धेस्सापवादत्वात्वस्तुतः तादृशप्रसिद्ध्यभ्युपगमेनार्थ वर्णनमपि न युक्तम् । वाक्शब्दस्यवाग्व्यापारत्वं हि तदानीमाश्रितम् । मनसः वागिन्द्रियव्यापारनिमित्तकारणत्वेपितदुपादानकारणत्वाभावात् तत्र व्यापारलयस्याप्यसंभव एव । उपादानकारणेएव हिलयः न तु निमित्ते । वाग्वृत्त्युपादानंच तदाश्रयभूता वागेवनतु मनः । अतो वाक्शब्दस्य वागिन्द्रिय परत्वे तदु परति परत्वेच चोद्यं समानम् । परंतु भवतां वाक्शब्दस्य वृत्ति परत्वेन लाक्षणा,संपत्तिशब्दास्वारस्यं च । अस्माकं तु नेन्द्रियपरत्वे लक्षणा ।संपद्यत इति शब्दास्वारस्य मात्रमेवेत्याशयः
उत्तरसूत्रार्थमाह - यत इत्यादि । इदं चातश्शब्दार्थ विवरणम् । वाचमनु= वाचः पश्चादित्यर्थः । अत्रहि सर्वेषामिन्द्रियाणां “मनसि संपद्यमानैरितिसंपत्तिरुक्ता । संपत्तेः (च) लयरूपत्वे चेदं न संगतं स्यात् ।मनसः सर्वेन्द्रियं प्रति प्रकृतित्वाभावात् । अतस्संयोगमात्रमेवसंपत्तिशब्देन विवक्षितमिति निश्चेतव्यम् । तथा च सर्वेषामिन्द्रियाणांनिर्व्यापारताहेतुभूतः मनसा संयोगविशेषः एव संपत्ति शब्दार्थः इतिध्येयम् ।। इदमत्रावधेयम् बाह्यसांसारिक प्रवृत्तौ एवं क्रमः आत्मामनसा संयुज्यते मनः इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षमितिजीवस्य शरीरात् उत्क्रमणदशायां बाह्यविषयकप्रत्यक्षादीनामभावात्इन्द्रियमर्थेन न संयुज्यते । इन्द्रियं च वागादिकं मनसा, मनस्तुप्राणादिना । इति क्रमः । अत एव श्रुतौ वाड् मनसि संपद्यते इत्युक्तं,न तु वाचि मन संपद्यते इति । ततश्चान्ततः ।वागादीन्द्रियमनस्संयोगस्योभयत्रसत्वेपि वैलक्षण्यमस्ति । पूर्वत्रतु इन्द्रियादीनां सव्यापारता,उत्तरत्र निर्व्यापरता ।अत्र संपत्तिः लयरूपा, संयोगरूपावेति संशयःलयरूपत्वे, पृथिवीत्वा वस्थां विहाय जलत्वावस्था प्राप्तिवत्इन्द्रियत्वावस्थां विहा यमनस्त्वावस्था प्राप्तिः मनस्त्वावस्थांविहायप्राणत्वा वस्थाप्राप्तिः एवं क्रमेण भगवति भूत सूक्षमस्य लयो वाच्यःतथासति सर्वेषां नाशात् जीवमात्रस्यावशिष्टस्योत्क्रान्तिर्वक्तव्यातथा च सूक्ष्मशरीरादिविहाय केवलस्याणोः गमने स्वर्गादिषु शरीरान्तरपरिग्रहःन सेत्स्यति । उपादानस्य भूतसूक्ष्मस्य पूर्वमेव विनाशात् ।तदन्तरप्रतिपत्त्यधिकरणे चेदं सुविशदमुपपादितम् । अतः वागादिशब्दस्य व्यापारपरत्वे लयरूपत्वं सूपपादं भवेदिति पूर्वपक्ष्याशयः ।सिद्धान्ते लयरूपत्वांगीकारेपि वागादिव्यापाराणामुपादान भूतवागादावेवलयः नतु मनसि उपादानत्वाभावात् ।मनसः अनुपादानत्वेऽपि निमित्तत्वमस्ति इन्द्रिय व्यापारस्य मनोऽधीनत्वादिति तदभिप्रायकमेवेदं वचनंइति वक्तुं न शक्यम् । तथासति वागादि व्यापाराणां मनस्यन्तर्गतत्वमुक्तं भवति । तथा च मनो व्यापारविरहप्रयुक्त व्यापाररहितं वागिन्द्रियमितिफलितम् । एतावता यदा वागादिव्यापाराः उपरताः तदैव मनोव्यापारोपिउपरतः इति सिध्येत् ।मनस्सत्वं वागादिव्यापारस्यासत्वं च चेत् तदैववाङ्मनसि संपद्यते इत्युपपन्नं भवेत् । श्रुतेः स्वारस्यं तदैववागादिनामेवोपरम बोधने इदं युज्यते । वागादीन्द्रियोपरमेपि मनसःतत्प्रवृत्तेश्च दर्शनात् ।। एतदभिप्रायेणैव “दृश्यते हि वागिन्द्रिये….मनःप्रवृत्तिरिति भाषितम् ।। अतः निमित्तकारणत्वाभिप्रायेणाप्यस्यवचनस्योपपत्तिः न संभवति । तस्मात् केवल संयोगपरत्वाभिप्रायकमेवनच मनसि वाचः केवल संयोग स्वीकारेपि उत्क्रान्तिसमयत्वात् व्यापारानर्हदशैववाचः उक्ता भवति इति चेत् इष्टमेव तत् । यथाश्रुति अर्थस्य वर्णनीयत्वमित्यभिप्रायात्