11 इतरक्षपणाधिकरणम्

(4.01.011) इतरक्षपणाधिकरणम्अनारब्धकार्ययोः पुण्यपापयोःअश्लेषविनाशावुक्तौअथारब्धकार्ययोःपुण्यपापयोः विद्यायोनिशरीरावसने वा तदनन्तरशरीरावसानेवा समाप्तिरिति प्रतिपाद्यत इति संगतिः ।संशय प्रदर्शन पूर्वकंपूर्वपक्षमाह - ययोरितिताभ्यामित्यनेन सूत्रस्थेतरशब्दार्थप्रतियोगिनौ निर्दिष्टौ ।आरब्धकार्ये इति अर्थनिरूपणम् ।संशयशिरसि पुण्यपापे इति विशेष्यवाचकं,विद्यायोनि शरीरवज्ञाने ….शरीरान्तरावसाने वा इत्येतत् विशेषणवाचकंद्विवचनान्तम् । शरीरं अवसानं यथोस्ते इति विग्रहः ।। तस्यतावदितिअस्माच्छरीरात्समुत्थाय परं ज्योति रूप संपद्य स्वेनरूपेणाभिनिष्पद्यतेइत्यत्रास्माच्छरीरादिति विद्यारंभशरीरं निर्दिश्य तदवसाने ब्रह्मप्राप्त्युक्तेःविद्यायोनिशरीरावसनेएव मोक्षप्राप्ति रावश्यकीअतः प्रारब्धकार्ययोः पुण्यपापयोरपि तच्छरीरावसाने एव समाप्तिर्युक्ताइइत्थंच “तस्यतावदेवचिरं यावन्न विमोक्ष्ये इत्यत्र यावच्छब्दःतच्छरीरान्तकर्मेव प्रतिपादयतीति तच्छरीरविमोचनावसानत्वमेव ब्रह्मप्राप्तेरवगम्यते इति भावः ।। सिद्धान्तमाह - इति प्राप्त इति । स्वारब्धफलभोगेनक्षपयित्वेति ।सूत्रे हेतुर्नोक्तः । भोगेन इत्यनेन सूचितः इतिव्यङ्क्तुं - स्वारब्धफलभोगेन क्षपयित्वा इति भाषितम् । फलदान प्रवृत्तपुण्यपापयोःफलानु भवमन्तरा नाशासंभवादिति भावः । तर्हि तयो रेक शरीरेणैव फलभोगोऽस्तुइत्यत्राह - ते चेति पूर्वपक्षोक्तहेतुं द्यति - तस्येतियावन्न विमोक्ष्ये इत्यत्र देहोवा तदवधिर्वा न श्रुतः । ननु धूत्वाशरीरमित्यत्र श्रुतमिति चेत् । किं ततः । तत्रापि हि नावधिः श्रुतःशरीर शब्दश्च जात्यभि प्रायकः । रोमाणि विधूयपापमित्यत्रपूर्वखण्डेपाप शब्दवत् । इत्थं च तस्य तावदेवेत्यत्र विद्योयोनि शरीरावसानत्वनियमाश्रवणात् न तेनोक्तार्थसिद्धिः ।ननु अस्माच्छरीरात्समुत्थायेत्यादिश्रुतेःनिर्वाहः कथमिति चेत् तत्रस्थ शरीर पदस्य बुद्धिस्थ चरमशरीरपरत्वमितिनिरुह्यताम् । अन्यथा ब्रह्मविद्यानिष्ठानामेव महर्षीणांपुराणादिषु प्रतिपादितस्यानेक जन्म संबन्धस्य विरोधापत्तेःअस्मात् शरीरादित्यत्र इदं शब्दः एतच्छरीरव्यक्तिपरं न भवति । अनुभूयमानशरीरस्यहेयत्वप्रतिपादनपरम् ।।ननु शरीरपदस्य कथंचिन्निर्वाहेपि अस्मादिति विशेषणस्य कथं भवतांस्वारस्यमिति चेत् , शरीरस्य हेयत्व बोधन परतया सप्रयोजनत्वेन स्वारस्यमित्यवेहिअत एव त्याज्यत्वाभिव्यक्यर्थं अनित्यमसुखं लोकमिमं प्राप्येत्यत्रइममिविशेषणं भगवतिगीतम् । एव मनुरपि “अस्थिस्थूणं स्नायुबन्धं मासशोणितलेपनम्चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः । जराशोकसमाविष्टंरोमायतनमातुरम् ।रजस्वलमनित्यं च भूतावासममं त्यजेदित्यत्र भूतावासशब्दवाच्यशरीरविशेषणतया इममित्युक्तवान् ।अथ शिष्यानुग्राहेण तदधिगमाधि करणप्रभृत्युक्तमर्थ संगृह्णाति - तदेवमितिउत्तरपूर्वाधयोरित्युक्त मवलम्ब्य प्रागनुष्ठितमित्युक्तम् । कर्मफलभोगेनैवकर्मणां नाशेन विद्यामाहात्म्यसिद्धिरित्यत उक्तंअभुक्तफलमिति।अनेनपातेतु इत्युक्तार्थश्चोक्तः । अनारब्धकार्ये इति सूत्रमुपजीव्य - अनारब्धफलेत्युक्तम् ।तत्र पुण्यरूपमिति । अत्र विदुषि सुकृत दुष्कृतयोर्नाशःअनयोः फलमस्मैन दास्यामीति भगवत्संकल्पः । सुकृत्सु दुष्कृत्सुचतत्संक्रमः । तत्फलं विद्वदानकूल्यप्रातिकूल्याचारणफलतया दास्यामीतिभगवत्संकल्प इति ध्येयम् ।। इतरक्षपणाधिकरणं समाप्तम् ।।चतुर्थाध्याये प्रथमः पादः ।।श्रीमते रामानुजाय नमः । श्रीमते हयग्रीवाय नमः । श्रीमते लक्ष्मीनृसिंह्मपरब्रह्मणे नमः ।।