(4.01.010) अग्निहोत्राद्यधिकरणम्ब्रह्मविद्योत्तरकृत दुष्कृतानामिव ब्रह्मविद्योत्तरकृतसुकृत कर्मणामपि इतरस्याप्येवमसंश्लेषः इत्यनेन ब्रह्मविदि अश्लेषःउक्तः । तर्हि नित्यनैमित्तिकाद्यश्रमधर्माणा मग्निहोत्रादीनामपिब्रह्मनिष्ठकृतानां सुकृतत्वाविशेषेणाश्लेषो वक्तव्यः । तथा च तत्फलस्यब्रह्मविद्यसंभवेन फलानिच्छया तदननुष्ठानमेव युक्तमिति शंकया संगतिःपूर्वपक्षमाह - अग्निहोत्रेति । अयमाशयः - अग्निहोत्रादि पुण्यकर्मभिःब्रह्मविदि फलश्लेषे बन्ध एवाभ्युपगतः स्यात् । फलाश्लेषे च निष्फलत्मेवतेषाम् । फलाश्लेषश्च विद्याऽननुगुणकारीर्यादिकर्मवत् सुकृतत्वाविशेषेणइतरस्यापीति सूत्रेणसिद्धः । ततश्च ब्रह्मविदः साक्षात्कारावस्थ ब्रह्मविद्याप्राप्यनन्तरंअग्निहोत्रादि धर्मानुष्ठानपरित्याग एव युक्त इति । सिद्धान्तमाह - उच्यतइति । सुकृतान्तरवैलक्षण्यं बोधयन्ननुष्टेयत्वमाह - अग्निहोत्राद्याश्रमधर्मा इति । फलाश्लेषासंभवः कुतइत्यत्राह - तद संभवश्चेति । ननु तत्कार्यफलश्लेषे बन्ध एवस्यादित्यत्राह - विद्याख्येति । अग्नि होत्रादि धर्माणांबन्धार्थत्वं यदि स्यात् तर्हि विदुषा तदनुष्ठाने बन्धापत्तिः शंक्येतापि ।विद्यार्थत्वं हि तेषामिति भावःनन्वग्निहोत्रादि धर्माणां स्वर्गाद्यर्थत्वादर्शनेनविद्यार्थत्वावगमः कथमित्याशयेन शंकते - कथमिति । एतच्छंकापरिहारं सूत्रखण्डं व्याचष्टे - तद्दर्शनादितिददर्शनमेव विवृणोति - दृश्यत इति । ननु तेषां विद्यार्थत्वे साक्षात्कारावस्थब्रह्मोपासननिष्पत्त्यर्थतया ततः पूर्वमनुष्ठानमेवालमित्यत्राह - विद्यायाश्चेतिविपक्षे बाधकमाह - अन्यथेति । उपासनं हि यावदायुरनुष्ठेयं तदङ्कुरभूताचान्तः करणशुद्धिः । सा च सर्वदाऽपेक्षिता, ततश्च विद्याङ्कुरभूतान्तःकरणशुद्धिजनकत्वादग्निहोत्रादिधर्माणामपि यावदायुर नुष्टेधत्व मावश्यकमेवअत एवहि सखल्वेवं वर्तयन् यावदायुषमिति विद्यांगकर्मणां यावदायुरनुष्टेयत्वमुक्तम्।। तथाच नित्यनैमित्तिकानामाश्रमधर्माणां विद्यार्थत्वेन फलश्लेषावश्यकत्वात्नाश्लेषः । अतो मुमुक्षोः मोक्षसाधन भूतविद्यानिष्पत्त्यर्थतयातदनुष्ठानमावश्यकमेव । इतरस्याप्यमेवमित्यने न काम्यकर्मणामेवाश्लेषःउक्त इति सुकृतत्वसामान्येन नैवमाशंकनं, युक्तमिति ।। ननु सर्वापेक्षाच यज्ञादि श्रुतेरश्ववदिति सूत्रेणैव नित्यनैमितिक कर्मणां विद्यांगत्वोक्त्यातत एव तदनुष्ठान स्यावश्यकर्तव्यत्वसिद्धेः पुनरस्मिन्नधिकरणे तेषामनुष्टेयत्वसमर्थनं पिष्टपेषणमेव भवतीति चेत् नसमाधेरेक रूपत्वेपि आशयभेदेन पूर्वपक्षोत्थितेः तत्परिहारस्यावश्यकर्तव्यत्वात् ।पूर्वत्र हि ऊर्ध्वरेतस्सु विद्यायाः अग्निहोत्रादिनैरपेक्ष्यदर्शनादनूर्ध्वरेतस्स्वपि तस्याः अग्निहोत्रादिनैरपेक्ष्यशंका जातेति तत्परिहारायतेषामङ्गत्वेनानुष्ठेयत्वं प्रसाधितम् । अत्र तु सुकृतत्वसामान्येनाश्लेषशंकयाऽननुष्ठेयत्वे परिहारः कृतः ।।
उत्तरसूत्रशंकामाह - यदीति । भुक्तशिष्टंचेति विद्यानिष्पत्त्यर्थमितिसंबध्यते । भुक्तावशिष्टं प्राचीनं सुकृतं विद्यानिष्पत्त्युपयोगिशरीरधारणाद्यनुकूल वृष्ट्यन्नादि फलदानाय प्रवृत्तमित्यर्थः । अयमाशयः - विदुषोनित्यनैमित्तिकानां विद्याधिगमानन्तरकृतानां अग्निहोत्रादिसुकृतकर्मणांविद्योत्पादनेन दत्त फलत्वात् विद्योत्पत्तेः पूर्वकृतानां च सुकृतकर्मणांमध्येकेषांचित् स्वर्गादि फलभोगेन नष्टत्वात् भुक्तावशिष्ठानांच केषांचित् सुकृतानां विद्यानिर्वृत्त्यर्थवृष्ट्यन्नादि फलदानायप्रवृत्तत्वाच्च अवशिष्यमाण सुकृतकर्मण एवासंभवात् तस्यपुत्रा दायमुपयन्तिसुहृदस्साधुकृत्यामिति श्रुते र्विषय एव न संभवतिद्विषन्तः पापकृत्यामित्यस्यतु विषयलाभस्संभवति । विद्योत्पत्तेःपूर्वंकृतानां पश्चात् बुद्धिपूर्वकं कृतानां चादत्त फलानां पापकर्मणांसत्वात् । नहितेषां विद्यार्थत्वम् । यद्यपि विद्योत्पत्तेः पश्चात्बुद्धिपूर्वकं कृतानां पापकर्मणां मनुभवनाश्यत्वमेव । अथापि प्रतिबन्धेन अदत्तफलानां तेषां प्रामादिकानां च कर्मणां सत्त्वात् विषयलाभसंभवः । यदि तु सुकृत विषयेपि विद्योपयुक्तानां प्रति बन्धेनादत्तंफलानां विद्यानुपयुक्तानां च तथाविद्यानां कर्मणां प्रामादिकानांच सत्वेन विषयलाभ इति मन्यसे तर्हि कर्मणां फलप्रतिबन्धसंभवज्ञानविधुरस्येयमाशंकेत्युभयत्रैव शंका संगमनीयाभाष्यं तूपलक्षणम् । ननु संचित कर्मणां कथं चिदपिविद्यानिष्टे उपयोगाभावेनतथैव सत्त्वात् तेषां संक्रमसंभवेन संक्रमण श्रुति रूपपन्नैवेतिकथमियमाशंका ।उच्यते संचितकर्मणां संक्रमणोपपत्तावपि प्रारब्धकर्मस्वपिसंक्रमोऽस्तीति व्यं क्तुं प्रारब्धादिकर्मसु न कस्यापि संक्रमःइति मन्वानस्य पूर्वपक्षिणोऽभिप्रायोद्बोधनेनादोषात् । यद्वा निष्पन्नविद्यस्य पुंसः कानिचित्कर्माणि विद्यार्थानिदित्तफलानि कानिचित्विनाशविषयाणि कानिचिच्चाश्लेषविषयाणि एतदतिरिक्तं च कर्म न विद्यतेअतः संक्रमणश्रुतेः का गतिरित्याशयेन शंकनम्विनाशाश्लेषविषयकर्मणामेव संक्रमणमित्याशयेन समाधानं चेति न दोषःअत एव विद्ययाऽश्लेषविनाश श्रुतिश्च तद्विषयेति भाषितम् ।। तथाचाश्लेषविनाशविषय व्यतिरिक्त सुकृतानां अग्नि होत्रादीनां काम्यकर्मणांच साक्षात्परंपरया वा विद्यानिष्पत्यर्थत्वात् तदतिरिक्त सुकृतानांचाश्लेषविनाशवत्वाच्चावशिष्यमाण कर्मण एवाभावात् संक्रमण श्रुतिःकथं घटतामिति पूर्वपक्ष्याशयः । भाष्ये चाश्लेषविनाशौ पूर्वोक्तौस्वतः प्राप्ताविति मत्वा विद्यार्थत्वमात्रोपपादनेन पूर्व पक्षःकृतः ।। इत्थं च सुकृतविषयमात्रे एवं शंकनमपि युज्यतेब्रह्मवित्कृतानां दुष्कृतानां अश्लेषविनाश विषयव्यतिरिक्त कर्मणामवश्यानुभाव्यत्वेपिप्रबलकर्मभिः प्रतिबन्धः संभावित इति तादृशप्रतिबद्धदुष्कृतस्यादत्तफलस्यद्विषदि संक्रमो युक्तः । तादृशसुकृतस्य तु न प्रतिबन्धसंभवःविद्यार्थत्वात् । अन्यथाहि विद्यैव न निष्पद्येत ।अतस्तेषामप्रतिबन्धादफलत्वमिति न सुकृत संक्रमण श्रुति रूपद्यतामिति ।।सूत्रार्थमाह - अतःइति । उभयोः पूर्वोत्तरकृतयोः सुकृतयो र्मध्येअग्निहोत्रादि साधुकृत्याव्यतिरिक्ताप्रतिबद्धफला साधुकृत्या संभवति । एकेषां शाखिनां वचनं तद्विषयमिति सूत्रार्थः ।कर्म हि भुक्तं भुज्यमानं भोक्ष्यमाणं प्रतिबद्धफलंचेति विविधमस्तितत्र विद्योत्पत्तेः पूर्वकृतं, पश्चाच्च वृष्ट्यन्नादिहेतोःकृतं सुकृतं प्रतिबन्धफलमस्ति तद्विषयं तद्वचनमिति भावः । पूर्वसुकृतस्यहिविद्यया विनाशः तच्चप्रतिबद्धफलंसुकृतं कर्म । अन्यथा स्वर्गादिभोगेनवृष्ट्यन्नादि फलदानेन च सर्वेषामेव सुकृतानां विनाशेन विनाशकथनमेवासंगतम्एएवमुत्तर कृतानां हि सुकृतानामश्लेषः । तत्रोत्तर कृत वृष्ट्यन्नादिफलकसर्वसुकृतानामपि फल जनकत्वाभ्युपगमे कस्याश्लेषः इति अश्लेषवचनमपिअसंगतं स्यादिति भावः । अतो विद्यामाहात्म्यादश्लेष विनाशविषयत्वेनोक्तानामेवसुकृतानां = संक्रमणमिति भावः ।।
उत्तरसूत्रं व्याचष्टे - अनुष्ठितस्यापीति । पूर्वोक्तं पृथग्घ्यप्रतिबन्धःफलमित्यनेन “ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनादित्यनेनच प्रदर्शितमित्यर्थःएवमुपपादितत्वद्योतनायैव च हि शब्दः सूत्रे प्रयुक्तः । पौनरुक्यपरिहारार्थंस्मारयतीत्युक्तम् । सूत्रार्थमाह - यदेवेति । परमप्रकृतमुपसंहरति - अतइति । अग्निहोत्राद्यधिकरणं समाप्तम् ।।