(4.01.09) अनारब्धकार्याधिकरणम्संगतिप्रदर्शकं पूर्ववाक्यम् । संशयमाह - ततः इति ।पूर्वोत्तरकर्मविषयकविचारः कृतः । अत्र पूर्वकर्मविषये विशेषविचारःक्रियते । इदं पुण्यापुण्यो भयविषयकम् ।अग्निहोत्राद्यधिकरणे उत्तरपुण्यकर्मविषयकविचारःकरिष्यते “सर्वे पाप्मानः इति पुण्यापुण्यग्रहणमविशेषेण । तत्रापिसर्वशब्दासंकोचाय सर्वस्यापि कर्मणः इति वक्तव्यम् । ततश्च प्रारब्धस्यापिविनाशोऽस्तु इत्याक्षेपेण संगतिः ननु श्रुति बलेन साक्षात्कारावस्थापन्नोपासननिष्पत्त्यनन्तरंसर्वकर्मविनाशाभ्युपगमे विदुषो देहारंभककर्मणोपि विनाशावशकत्वेनाकार्यकारत्वात् देहस्थितिरेवानुपपन्नेति शंकायामाह - विद्योत्पत्त्युत्तरेतिकुलालकर्तृकचक्रभ्रमणानुकूल व्यापारोपरमेऽपि कतिपयकालं चक्रभ्रमणानुवृत्तिवत्कर्मनाशेपि तत्संस्कारवशात् देहानुवृत्त्युपपत्तिरिति भावः । सांपरायाधिकरणेसर्वकर्मनाशेपि भवद्भिः सूक्ष्मशरीरस्यस्थितिर्यथाऽभ्युपगता ।।अपि च - पामराश्च विद्वांसोपि सूचिरं जीवन्ति । प्रत्यक्षदृष्टमिदम्एवं सति सर्वकर्मक्षयशंका कथं भविष्यति । यावदायुषं वर्तयन् इतिजिजीविषेत् शतँ समा इति च श्रुतिः दर्शन समानाकारोपासननिष्पन्त्यनन्तरंउपासकस्य वर्तमानता उच्यते इति हि भवतां शंका? । कथं सांख्यैः सर्वकर्मक्षयानन्तरमपिशरीरतत्कार्यानुवृत्तिरभ्युपगताकथं वा जीवन्मुक्तिवादिभिः अद्वैतिभिः शरीरतत्कार्यस्थितेः अभ्युपगमः"चक्र भ्रमिवत् घृतशरीरः” इति संस्कारमूलं सर्वमभ्युपगतम् । मृषावादिनांजगन्मिथ्यात्वाभ्युपगमेपि जगत्सत्यत्ववादिसाख्यैरभ्युपगत एवार्थःअस्माकमपि सुघटः । अतः संचित प्रारब्धसर्वकर्मक्षयः अभ्युपगमार्हःइति पूर्वपक्षिहृदयम् । इति दर्पणम् ।। राद्धान्तमाह - इति प्राप्तइति । शरीरपातविलंबावधि श्रुतेरिति । अत्र यावद्देहान्न मुक्तोभवति तावानेव ब्रह्म प्राप्तौ विदुषो विलम्ब इत्युक्त्या शरीरपातानन्तरमेवमोक्षः इति प्रतीतेः विद्योत्पत्तिसमये एव सर्व कर्मणां विनाशे तदानीमेवशरीरस्यापिनाशावश्यकत्वेन शरीरपतनावधि विलम्बकथनमयुक्तं स्यात् ।तत्र विद्याधिगमानन्तरमपि हि शरीरस्थितिरुच्यते इति भावः । ननूक्तंसंस्कारवशात् शरीरस्थितिरिति तत्राह - नचेति । अयमाशयः - साक्षात्कारावस्थापन्नोपसनिष्पत्तिसमयेएव सर्वकर्मविनाशे तदनन्तरं शरीरस्थिति र्न स्यात् शरीरां रंभककर्मणोऽपि नष्टप्रायत्वेनाकार्यकरत्वात् ।न चास्माकमिव भवतां उपासननिष्पत्तिसमये, उपासनसमाप्तौ अस्य कर्म क्षमिष्यामीति भगवत्संकल्पः उपपद्यतेततथा सति समाप्तिपर्यन्तानु गुण शरीरस्याभिमतत्वेन तद्वेतुर्कणोऽप्यभिमतत्वात्सर्वकर्मविनाशपूर्वपक्षस्यैवा संभवात् ।नच तावत्पर्यन्तं संस्कारवशात्शरीरस्थितिरिति युक्तंपुण्यापुण्ययोर्भगवत्प्रत्यप्रीतिरूपत्वेन तन्नाशे संस्कास्यैवासंभवात्ककर्मजन्य प्रीत्य प्रीतिव्यतिरिक्तसंस्कारस्यैवाप्रामाणिकत्वात्कर्मनाशेपि तज्जन्यप्रीत्यप्रीत्यभ्युपगमे कर्मसद्भावांगीकरणमेवायातम् ।वस्तुतः क्षणध्वंसिनः कर्मणस्तदैव नाशे विद्यया सर्वकर्मविनाशःसर्वकर्मजन्यप्रीत्यप्रीतिनाशरूप एवेति प्रीत्यप्रीत्यभ्युपगमएव न युक्तः । नच साक्षात्कारावस्थोपासननिष्पत्त्यनन्तरं शरीरस्थितिरेवनास्तीति वक्तुं शक्यम् । तथा सति उपासननिष्पत्त्यनन्तरमपि शरीरपातपर्यन्तंमोक्षस्य विलम्ब इति कथमस्यासंभवात् । उपासननिष्पत्त्यनन्तरमेव मोक्षावश्यकत्वेनएवं वर्तयन् यावदायुषमिति उपासनानुवृत्तिकथनस्यानुपपन्नत्वात् ।लोकानुभवविरुद्धत्वाच्च । उपलभ्यते हि ब्रह्मविदामपि शरीरानुवृत्त्यातत्कार्य सुखदुःखानुवृत्तिरपिअतोऽनारब्धकार्यकर्मणामेव विनाश इति न सर्वकर्मविनाशः । अत एवहि श्रीविष्णुपुराणे “केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः ।बुभुजे विषयान् कर्म चक्रे चानभिसंहितम् । अकल्याणोपभोगश्च क्षीणपापमलस्तथा ।अवाप सिद्धिमत्यन्ततापक्षयफलां द्विज” इति केषांचित् कर्मणांफलानुभवानन्तरमेव सर्वकर्मक्षयेण मुक्तिसिद्धिरुक्ता । ननूपासननिष्पत्त्यवच्छेदकशरीरारंभककर्मव्यतिरिक्तकर्मणां सर्वेषामपिअविशेषेण विनाशोऽस्तुतच्छरीरनाशानन्तरमेव च मोक्षप्राप्त्या तस्य तावदेवचिरमित्यादिश्रुतिविरोधोपि नास्ति ।तत्रापि तच्छरीरपतन विलम्बपर्यन्तस्यैवमोक्षार्थमपेक्षेत्यर्थ संभवादिति चेन्नतथा संकोचे प्रमाणा भावात् । अनुभवविरोधाच्च । दृष्यते हि ब्रह्मविदामपिअनेकशरीरपरिग्रहः । तस्मात् अनुभवविरोधाय यथा श्रुति प्रतिपत्तव्यत्वात्प्रारब्धव्यतिरिक्त कर्मनाशकत्वमेव ब्रह्मविद्यायाःइत्यभ्युपगन्तव्यमितिप्रारब्धकार्ययोः पुण्यपापयोर्भोगेनैव विनाशः इति ।। इदं अवताररहस्यवेदनविरहिणांविषये इति मन्तव्यम् ।अवताररहस्य वेदिनां तेषां तु “जन्म कर्म चमे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैतिमामेति सोऽजुर्न । “इत्युक्तेः प्रारब्धशेषानुभवाभावेपि अपवर्गप्राप्तेरुक्तत्वात्” ।।अनारब्धकार्याधिकरणं समाप्तम्