08 इतराधिकरणम्

(4.01.08) इतराधिकरणम्पूर्वाधिकरणे उत्तरपूर्वाधयोरश्लेषविनाशावुक्तौ ।अथोक्तरीत्यैव पूर्वोत्तरसुकृतयो र्विनाशाश्लेषौ प्रतिपाद्येतेइत्यातिदेशिकी संगतिः । एवमिति खण्डस्य - उक्तेन न्यायेनाश्लेषविनाशौविद्यया स्यातामिति व्याख्यानम् । उक्तेन न्यायेनेयेतत् स्वयमेवविवृणोति - विद्याफलेति । स्वर्गादिफलजनकपुण्यस्य विद्याफल भूतमोक्षविरोधित्वादित्यर्थःएवं शब्द सूचितं व्यपदेशं मपि प्रदर्शयति - भवतीति । उभे सुकृतदुष्कृतेनिर्दिश्य एवं व्यपदेशो भवतीत्यन्वयः । न सुकृतं नदुष्कृतं सर्वेपाप्मानोऽतोनिवर्तन्ते इति श्रुतिः । उदाहृतस्थलद्वयेपि दुष्कृतस्येव सुकृतस्यापिनिवृत्तिः उक्तेति भावःसर्वेपाप्मान इति सुकृतदुष्कृतयोः क्रोडीकृत्योक्तिः । सुकृतधुष्कृतेइति पृथगुक्तिः ।ननु धर्मत्वेन लोकप्रसिद्धस्य सुकृतस्य पाप्मानइति पाप्मशब्देन व्यपदेशः कथमित्यत्राह - मुमुक्षोरिति । अनुकूलफलकशास्त्रीयकर्मत्वंपुण्यत्वं प्रतिकूलफलक कर्मत्वं पापत्वं, अध्यात्मविदां अपवर्गस्यैवाभिमतत्वेनानुकूलत्वात्स्वर्गाद्यनुभावस्य च एते वैनिरयास्तात स्थानस्य परमात्मनः इत्याद्युक्तनयेनप्रतिकूलत्वात् स्वर्गार्थ पुण्यकर्मापि प्रतिकूलफलक कर्मत्वेनपाप मेवेति भावः । नच यज्ञादिकर्मणामपि मोक्षव्यतिरिक्त फलकत्वेनपापत्वात् विद्यांगतया तदनुष्ठानमपि न संभवतीति वाच्यं मोक्षजनकविद्याष्पित्त्यर्थतयैवविद्यांगकर्मणामनुष्ठानेन तेषां चानुकूल फलकत्वेन पुण्यकोटावन्तर्भावात्प्रतिकूलस्वर्गादि फलाभिसन्धि रहितत्वेनैवानुष्ठानाच्च ।।अथाति देशस्याधिकं प्रयोजनमाह - सुकृतस्यापीति ।। पापं कर्म नश्लिष्यतेसर्वे पाप्मानः प्रदूयन्ते इति पापानामेवाश्लेषविनाशोक्तेःसुकृतस्यापिनिवर्तनीयत्वे अधत्व प्रसंगेन पुण्यापुण्याव्यस्थितेः सुकृतकर्मणःशास्त्रबोधितत्वात् तत्फलस्येष्टत्वदर्शनाच्च विद्याविरोधाभावेनन पूर्वोत्तरसुकृतयोरश्लेषविनाशौ वक्तव्यौ इत्यधिकाशंका । तत्परिहारस्तु - दुष्कृतकर्मणइव सुकृतकर्मणोपि ब्रह्मविद्विषये मोक्षरूपविद्याफलविरोधित्वेनानिष्टफलसाधनत्वात् अत एव न सुकृतं न दुष्कृतं सर्वेपाप्मानः इति दुष्कृतेइव सुकृतेपि पापशब्दप्रयोगात् “पाप्मानो़तोनिवर्तन्ते सुकृत दुष्कृते धूनुते इति सुकृतस्यापि निवृत्तिश्रवणाच्चसुकृतयोरपि विद्यामाहात्म्यात् विनाशोऽश्लेषश्चावश्यकइति ।। सूत्रखण्डमवतारयति - नन्वितिनहि तत्करणं लोके वेदे वा किं चिदीदृशम् । इति कर्तव्यतासाध्येयस्याननुग्रहेऽर्थिता इतीति कर्तव्यताख्याङ्गविरहिणः करणत्वनिषेधेनविद्याख्यसाधनस्य किंचिदंगं वक्तव्यम् । यज्ञेनदाननेत्याद्युक्तंयज्ञादिकमेव तत् । वृष्ट्यन्नादिफलकस्यापि अस्य कर्मणः वर्णाश्रयधर्माणांचित्तशुध्यौपयिकत्वेन विद्यांगत्ववत् वृष्ट्यन्नादिफलजननेन शरीरधारणद्वारासांगोपासन निर्वृत्त्यु पयोगित्वेनाङ्गत्वमेषितव्यम् । इत्थं चपूर्वकृतानां सुकृत कर्मणां सांगविद्यानिष्पत्त्यर्थत्वेन विद्ययाविरोधाभावात् पूर्वाधवत् पूर्वसूकृतस्य कथं विनाशः उच्यते इति शंकितुराशयःशरीरपाते=चरमशरी रपाते इत्यर्थः। विनाशःइत्यनेनासंश्लेषपदं विवृतम्।। अयमभिसन्धिः=सुकृतं कर्म पूर्वकृतं द्विविधम् । विद्यानिष्पत्त्यौपयिकशरीरेन्द्रियवर्धकान्नारोग्यादिफलजननद्वारा विद्यानिष्पत्ति सहकारि, विद्यानुपयुक्तंफलान्तरजनकंचेति । तत्र फलान्तरजनकस्य विद्यानुप युक्तस्यावश्यमेवविद्याधिगमे एव विनाशः । विद्यासहकारिभूतं काम्यं कर्मतु विद्यानिष्पादकतयासफलत्वेन न विनाश्यम् । तत्रापि पूर्वकृतानां विद्यार्थतया स्थितानांबहूनां कर्मणां कैश्चिदेव विद्योत्पत्तौ सत्यां तदतिरिक्तकर्मणांविद्योत्पत्यर्थतया तावत्पर्यन्तं प्रतीक्षमाणानां निष्पन्नविद्यस्यशरीरपातान्तरं विनाशः इतिएतेन वृष्ट्यन्नादिजनकस्य काम्यकर्मणः विद्यार्थत्वेनोपयोगात् शरीरपातसमयेतादृशकर्मण एवाभावात् कस्य कर्मणः शरीरपातादूर्ध्वं विनाशः उच्यतेइति शंकनं निरस्तम् । विद्यार्थ कर्मणा मेवादत्त फलानां निष्पन्नविद्यशरीरपातादूर्ध्वंविनाशावश्यकत्वात् । नच साक्षात्कारावस्थब्रह्मोपासनप्राप्तेः संप्रतिलब्धत्वेन चरमशरीरपातपर्यन्तं विद्यानिष्पत्त्यर्थ काम्यकर्मणामवस्थितिःकुतोऽङ्गीक्रियते इति वाच्यम् । आप्रयाण मनुवर्तितस्यैवोपासनस्यपूर्णोपायत्वेनतादृशोपायपूर्तेरेव विद्यानिष्पत्तिशब्देन विवक्षणात् तदर्थतयातेषांकर्मणामावश्यकत्वात्शास्त्रेणहि उपासनस्याप्रयाणमनुवर्तने एवापाय पूर्तिरित्युच्यतेततावत्पर्यन्तस्थितस्यापासकस्य शरीरारोग्यादिसत्वे एव तदनुवृर्त्तिर्युक्तेतितदर्थं पूर्वकृतं काम्यमवश्यापेक्षितमेव ।।ननु “अनारब्ध कार्ये एव तु पूर्वे तदवधेः इत्यधिकरणे फल प्रदानार्थंप्रवृत्त कर्मव्यतिरिक्तकर्मणः एव साक्षात्कारावस्थोपासनिष्पत्त्यनन्तरंनाश इति सिद्धान्तस्य वक्ष्यमाणत्वात् विद्यानिष्पत्त्युपयोगितयास्थितानां पूर्वकृतानां काम्य कर्मणां विद्यानिष्पत्त्युपयोगिशरीरारोग्यादिफल प्रदानार्थ प्रवृत्ततया एषां नाशस्यैवानभिमतत्वेन इतरस्याप्येवमितिसूत्रेणाविवक्षितत्वात् “ननु विदुषोपि सेतिकर्तव्यताकोपास निर्वृत्तयेवृष्ट्यनादिफलानीष्ठान्येव कथं तेषां विरोधाद्विनाशःउच्यते इतिशंकनं एतत्परिहारपरस्य असंश्लेषः पाते तु इति खण्डस्य प्रवृत्तिश्चकथं घटते इति चेत् - उच्यते - कर्म हि चतुर्विधं, संचितं,प्रारब्धं,प्रारब्धकर्मफलानुभवसमये साक्षात्कारावस्थापन्नोपासन निष्पत्तेः प्राक्कृतंततः उत्तरकृतं चेतिअनादिकालेन जीवसंचितानि कर्माणि बहूनि सन्ति । तत्रैकं कर्म शरीरपरिग्रहपूर्वकफालनुभवार्थं विपक्वं सदीश्वरेण प्रवर्त्यते । तदेव प्रारब्धं संचितधटकम्तत अन्यतु संञ्चितम् । इत्थंच प्रारब्धकर्मानुभवदशायां उपासननिष्पत्तेःप्राक् विद्यार्थानि यानि सुकृतान्यनुष्ठितानि तेषामपि प्रारब्धव्यतिरिक्तत्वाविदोषेणनाशे प्राप्ते असंश्लेषः पातेतु तु इति खण्डेन तद्व्यावर्त्यत इतिन दोषःइदं त्वनुसन्धेयम् - ब्रह्मविद्यानिष्टस्य साक्षात्कारावस्थोपासननिष्पत्तौअविशेषोणानारब्धकार्याणां पापानां उपासन समाप्तौ नाशो भूयादितिभगवत्संकल्पो जायते, अतस्तेषां प्रारब्धर्काय कर्मावसाने न फलजनकत्वमितिशरीरान्तराप्राप्त्या अर्चिरादिमार्गेण विदुषोगमनम् । एवं पूर्वकृतसुकृतेषुविद्यानुपयुक्तकर्मणां मोक्षफलविरोधित्वेन विद्याविरोधात् साक्षात्कारावस्थोपासनलाभेसमाप्तौ नाशोभूयादिति पूर्ववत् भगवत्संकल्पो जायते । विद्यार्थतयास्थितानां सुकृतकर्मणां तु विद्यानिष्पत्त्यर्थत्वेन चरमशरीरपातपर्यन्तंप्रतीक्षमाणत्वात् कानिचत्तानि दत्तफलानि अवीर्याणिभवन्तिकानिचित्तु कैश्चिदेवोपायपूर्ते र्निष्पन्नत्वेन अनुपयोगात् तत्सत्वेअनन्तरं बन्धापत्या मुमुक्षोरनिष्टत्वाच्च तदानीं, भगवान् नश्यन्तुइमानि इति संकल्पयतीति तदानीं स्वयमेव नश्यन्तीति । ननु सर्वज्ञस्यभगवतः विद्योपयुक्तकर्मसु पूर्वकृतेषु इमानि कर्माणि विद्योत्पत्तिंकरिष्यन्ति इमानि वृष्ट्यन्नादिफलजनकान्यपि उपासकशरीरपातावधि नफलवन्तीति विविच्य ज्ञान संभवेन, विद्यानुपयुक्त सुकृतानामिव विद्योपयुक्तकर्मणामपि अदास्यमान फलकानां साक्षात्कारावस्थोपासन प्राप्ति दशायामेवउपासनसमाप्तौ नाशो भूयादिति भगवतःसंकल्पाभ्युपगमे किं बाधकमितिचेत् इष्टमेवतत्किं ततः।तावता विद्योपयोगि पूर्वकृत काम्यकर्मविनाशो न सेत्स्यतिपपाते त्व संश्लेषः इत्यनेनापि न वृष्ट्यन्नादि फलक कर्मणां पूर्वकृतानांसर्वेषामपि विनाशः । किंतु विद्योपयुक्तानामपि शरीरपतनावधि फलाजनकानामेवविनाशः इति विवक्षितमिति न विरोधः ।शरीरपातपर्यन्तमेतेषां फलजनकत्वंनास्तीति विशेषार्थसूचनायैवपाते तु इत्यधिकमुक्तम् । अतो नानुपपत्तिः।।अत्र पूर्वकृतानां काम्यकर्मणां केषांचित् पाते विनाशकथनं ब्रह्मविदःउत्तरत्रस्थितानामेवंप्रायाणां केषांचित्अश्लेषः इत्यस्याप्युपलक्षणम्।।ननु ब्रह्मविदो विरक्तत्वात् उत्तरत्र काम्यकर्मानुष्ठानस्यैवाभावात्केषांचिद्विद्योपयोगित्वं केषांचित् विनाशः इति विभाग एवाननुपपन्नःनचाबुद्धिपूर्वकोत्तराधस्येवाबुद्धिपूर्वककाम्यस्य संभवात्तदश्लेषःइति वक्तुं शक्यम् । काम्यस्याबुद्धिपूर्वकत्वासंभवात् ।फलरागादेवहि काम्यस्यानुष्ठानमिति वक्तव्यम् । ततश्च बुद्धिपूर्वकमेव प्रवृत्तिरितिचेन्न - वीतरागत्वेपि वासनावशादन्यार्थतया मोहतोऽनुष्ठितानां सान्तरायत्वेनादत्तफलकानां अध्यात्मविदि स्नेहवशेन बन्धुभिरनुष्ठितानां काम्यकर्मणांबहुनां सत्वेनाविरोधात् । अत एव ह्युत्तराधाश्लेषवचनस्योपपत्तिःनन्वेवं सति सूत्रे एवंरीतिः कुतो नोक्तेति चेदर्थसिद्धत्वाभिप्रायेणयद्वा - इतरस्यापि=उत्तरपूर्वसुकृतयोः एवं=उक्तप्रकारेण, असंश्लेषः=अश्लेषविनाशौअश्लेषपदं विनाशस्याप्युपलक्षणम् । विद्योपयुक्तानां शरीरपतनावधिअदास्यमानफलकानां उत्तरपूर्वसुकृतानां तु शरीरपातानन्तरमश्लेषविनाशौःइति सूत्रार्थः । अतो न विरोधः।।इदमत्रावधेयं - प्रपत्ति वाक्योच्चारणाद्यक्षणे एव क्षमिष्यामितिसंकल्पः कुतः? देहावसाने एव दायविभाग समकाले क्षान्तःइति संकस्यैकस्यैवयुक्तत्वात् तदनीं हि पुण्यपाप संक्रमणमन्यत्र करोति इति चेत्?तस्मिन् दृष्टे परावरे इति भक्त विषये तदधिगमरूपोपासन प्रारंभकालेएव सर्वकर्मणां नाशोक्तेः"तस्य यदा दायमुपयन्ति ।इतिशरीरविमोचनकालेसंक्रमणे इवचाविरोधाय उभयविधसंकल्पस्यावश्यकत्वाक्तेः।तदनुसारेणप्रपन्नेपि उपासनप्रारम्भतुल्यप्रपत्ति वाक्योच्चारणाद्यक्षणेपिसंकल्पावश्यकत्वात् । नच श्रुतिरपि पूर्वसंकल्प बोधिका किमर्थंप्रवृत्तेति चेत् आरम्भे एव भगवतः उपासके स्वस्मिन् वात्सल्यानिशयप्रदर्शन पूर्वकं अनुग्रह बोधनायतेन च प्रारब्धोपासनेऽस्य त्वरातिशयः भगवति प्राप्यनिशयश्च सिध्यतःइति हेतोः । ननु तर्हि प्रथमत एव क्षमिष्यामीति संकल्पदशायामेवपुण्यपापसंक्रान्तिमन्यत्र कुतो न करोति चेत्? मध्ये अन्तरायादिनाप्रारब्धोपासनस्यानिष्पत्तौ क्षान्तसंकल्पोऽनुपपन्नः इति हेतोःअधुनैव संक्रमणे उपासननिष्पत्ति पूर्व भाविष्वेव प्रतिकूलानुकूलेषु संक्रमसिध्या पश्चात्तनेषु द्विषत्सु मित्रेषु संक्रमानुपपत्तेश्चतदानींतनेष्वपि संक्रमस्यावश्यकत्वात् । अन्यथा दुष्करणमैत्राचरणस्यपश्चाद्बाविनः निष्प्रयोजनत्वापत्तेः । एतद्भयादेवहि भक्तेषु प्रपन्नेषुच विरुद्धाचरणं न कुर्युःपूर्वमनुकूलाः प्रतिकूलाश्चपश्चात् प्रतिकूलाः अनुकूलाश्च भवेयुश्चेत्तेषु संक्रमणकार्यमनुपपन्नमिति हेतो श्चोक्रान्तिकाले एव संक्रमणोक्तिर्युक्ताशश्रुतिरपि इममाशयं मनसि निधायैव एव मुक्तवती । तथा च तत्समये प्रतिकूलेषुअनुकूलेष्वव पाप पुण्य संक्रमः । पूर्वप्रतिकूलोपि अन्ते क्षमापणपूर्वकंप्रार्थनायां तस्मिन् पापसंक्रमस्यायुक्तत्वात् । एवं पूर्वमनुकूलोपिअन्ते अपराधकरणे तस्मिन् पुण्यसंक्रमणस्य चायुक्तत्वात् ।।नन्वेवमपि उक्तानुपपत्तेः परिहारो नैव भवति - भक्तेष्वपि परस्परंप्रपन्नेपुवा परस्परं भक्तप्रपन्नेष्वपि परस्परं सच्चरणं दुश्चरणंच न संभवतीति न वक्तुं शक्यं कर्मगतेः विचित्रत्वात् । आयुषःकालनियतिश्चएकरूपैवेप्यपि न वक्तुं शक्यम् अपचार कर्तुः उपचारकर्तुश्च प्रपन्नस्ययत्र पूर्वमेव मरणं अपचारोपचार लक्ष्यभूतस्य पश्चात्मरणं तत्र कागतिःपूर्वमेव तस्य मृतत्वात् प्रपन्नत्वेन मुक्तत्वाच्च कथं मित्रेप्रतिकूलेच संक्रमः । अप्रपन्नस्य पूर्व मृतत्वे तु कथंचित् संक्रमःसूपपादो भवेत् । तस्यामुक्तत्वेन जन्मान्तरे संभवात् संक्रमस्यप्रपन्नत्वेन पूर्वमृतत्वेच दायविभाग समकाल सक्रमणं अनुपपन्नमेवअतः आरम्भकालेसंक्रमणं यथानुपपन्नं तथैव उत्क्रान्तिकाले संक्रमणमपिइति उभयतस्स्पाशा रज्जुः । वृश्चिकभिया पलायमानस्य आशीविषमुखे निपातवत्इति चेत् ? अत्र वदन्ति । संक्रमणश्रुतिः अप्रपन्न द्विषत् सुहृद्विषयैवनतु प्रपन्नभक्तविषयापि । नच तर्हि ब्रह्मवित्सु अपचरतां ब्रह्मविदां - निर्भयानांउत्तरोत्तरापचार करणेपि अनिष्टाभावः इति वाच्यम् - अपराधपरिहाराधिकारोक्तरीत्यैवतेषां दण्डस्य नियतत्वात् । प्रायश्चित्ताकरणे तु शिक्षा । अपचारतारतम्य मनुसृत्य लघुदण्डेष्वपि तारताम्यस्वीकारात्शापादिर्वा निपतितःइति न्यायसिद्धाञ्जनोक्तरीत्यापि शिक्षैवापचारफलमितिउपचरतां ब्रह्मविदांतु पुरुषार्थकाष्टाधिकारोक्तन्यायिन भगवद्भागवतोपचाराणांस्वयं प्रयोजनत्वमिति तत्रापि न पुण्यसंक्रमणन्या यावतारःइति ।।अत्रायं विवेकः सुकृतदुष्कृताख्यं कर्म उपायविरोधि प्राप्तिविरोधिभेदेनद्वि विधम् । तत्रोपायनिष्पत्त्या उपायविरोधिकर्मनश्यति ।प्राप्तिविरोधिकर्म तु उपायात्पूर्व कृत मुत्तरकृतं चेतिद्विविधम्पूर्वकृतं सुकृतदुष्कृताख्यं कर्मतु त्रिविधं,संञ्चितं प्रारब्धंप्रारब्धफलानुभवसमये उपायनिष्पत्तेः प्राक् कृतं चेति । उत्तरकृतंसुकृतदुष्कृताख्यं कर्म तु बुद्धिपूर्वाबुद्धिपूर्वभेदेन द्विविधम्बुद्धिपूर्वकमपि दुष्कृतं आपत्कृतमनापत्कृतमिति द्विविधम् । बुद्धिपूर्वकंसुकृतं कैंकर्यरूपं फलार्थमिति द्विविधम् । फलार्थ सुकृतं विद्यानुगणंविद्याननुगुणं चेति द्विविधम्एतदुभयमपि प्रतिबद्धफलमप्रतिबद्धफलं चेति द्वि विधम् । कैंकर्यरूपंसुकृतं सात्त्विकत्यागसहितं तद्रहितं चेति द्वि विधम् । सात्विकत्यागयुक्तंतु कैंकर्यार्थाकं लोकसंग्रहविधि प्रयुक्तमिति द्विविधम् । तत्रोपायात्पूर्वकृतस्यसुकृतदुष्कृताख्य संञ्चित कर्मणः विद्याधिगमे विद्या माहात्म्यात्विनाशः । तादृशप्रारब्धस्यत्वनुभवेनैव विनाशः । प्रारब्ध फलानुभवसमयेउपायनिष्पत्तेः प्राक्कृतस्य सुकृतकर्मणः विद्योपयोगिनः अप्रतिबद्ध फलस्य विद्यानिर्वृत्यर्थत्वात् न विनाशः । विद्योपयुक्तस्यप्रतिबद्धफलस्य, विद्यानुपयुक्तस्य तु विद्याधिगम एव विनाशःचरमशरीरपातानन्तरं विनाशः ।दुष्कृतकर्मणः सर्वस्यापि विद्याधिगमेएव विनाशः । उत्तरकृतानां अबुद्धि पूर्वकाणां, बुद्धिपूर्वकाणामप्यापत्कृतानांविद्याया अश्लेषः । बुद्धिपूर्वक मनापत्कृतानां चानुभवेनैव विनाशःएवमबुद्धिपूर्वकोत्तरकृतसुकृतानामश्लेष एव ।।बुद्धिपूर्वक कैंकर्यरूपोत्तरसुकृतस्य अनवधानेन सात्विकत्यागरहितस्याश्लेषएव । सात्विकत्याग सहितस्य तस्य केवलकैंकर्यत्वेन दत्तफलत्वमितिनाश्लेषः । लोकसंग्रहविधि प्रयुक्तस्योत्तरसुकृतस्यापि तथैवभगवदाज्ञासिद्धत्वेनकेवल कैंकर्यरूपत्वमिति नाश्लेषः । फलार्थोत्तरसुकृतस्य विद्यानुगुणस्याप्रतिबद्धफलस्य विद्यानिर्वृत्यर्थत्वमिति न तेषामश्लेषः । प्रतिबद्धफलस्यविद्यानुगुणस्य सुकृतस्य, विद्याननुगुणस्य प्रतिबद्ध फलस्य चोत्तरसुकृतस्याप्यश्लेषएव । विद्याननुगुणस्याप्रतिबद्धफलस्य तु नाश्लेष इति । अत्राश्लेषविनाशविषयत्वेनोक्तानियानि कर्माणि तेषामेव द्विषत्सु सुहृत्सु च तस्य पुत्रा दायमुपयन्तिसुहृदः साधुकृत्यां द्विषन्तःपापकृत्यामित्युक्तसंक्रमःयद्यपीश्वरेणोक्तकर्मणां अन्तिमदशाप्रतीक्षणमन्तरा विद्याधिगमेएव सुहृत्सु हिषत्सुच संक्रमः कर्तुं शक्यः ।अथापि विद्याधिगमकालेद्वेषिभूतानां सुहृद्भूतानां च पश्चात् क्षमापणापचारप्रसक्तौ तदानींतेषु संक्रमनिवृत्त्यर्थं तावत्काल प्रतीक्षणम् । नहि पूर्वसुहृदिपश्चादपचारकरणेपि सुकृतसंक्रमः पूर्वं द्वेषिभिः पश्चात् क्षमाकरणेदुष्कृतसंक्रमश्च युक्तः । पूर्वमेव पापपुण्ययोः संक्रमणे मध्येअपचारोपचार कर्तृषु पुण्यपापसंक्रमानु पपत्तेश्च । अतोऽन्तिमकालीनसौहार्दद्वेषनिमित्तमेव संक्रमणमिति । अत एव दायसमकालीनतया संक्रमःश्रुत्या प्रतिपादितःननु ब्रह्मविन्निष्ठ स्वर्गाद्यर्थ सुकृतानां कथं उपायनिष्टे सुहृदिसंक्रमः इति चेत् तादृशसुकृतानां उपायनिष्ठमुमुक्ष्वपेक्षया पापत्वेनसाधुकृत्यत्वाभावात् असंक्रम एवेष्टः ।ननु मुमुक्ष्वपेक्षया सर्वस्यापि सुकृतस्य दुष्कृतत्वेन सुहृदिउपायनिष्टे न किंचिदपि सुकृतं संक्रमेदिति चेन्न, उपायनिष्टस्यापिमुमुक्षोः विद्यानिर्वृत्यर्थ सुकृतानां पापत्वाभावेन तेषां संक्रमोपपत्तेःसौहार्दफल प्रसिद्धेः। एवमुपायनिष्टो यदि प्रसिद्धः तर्हि तस्मिन्द्विषदि नरकाद्यर्थदुष्कृतमपि न संक्रमति तदन्यदेव दुष्कृतं उपक्लेशादिजनकं संक्रमतीति द्वेषफलस्यापि प्रसिद्धिः तद्विषये बोध्यायद्वा ब्रह्मविद्यानिष्टेनोत्तरत्रात्युत्कटदुष्कृतकरणेपि तादृशदुष्कृतस्यन नरकाद्यर्थत्वं किं तूपक्लेशजनकत्वमेवन खलु भागवताः यमविषयं गच्छन्तीति श्रुतेः । पूर्वकृतानां तु नरकाद्यर्थत्वंप्रतिपन्नम् । तेषां चेतरब्रह्मविदि संक्रमणे तस्य ब्रह्मविद्योत्तरकालीनद्वेषफलत्वात्उपक्लेशादिजनकत्वमेव । न तु नरकादिजनकत्वम् । ईश्वरेण तथा संकल्पकरणात्अतो न विरोधः । यत्तु स्वर्गनरकाद्यर्थ सुकृतदुष्कृतानां ब्रह्मविद्यानिष्ठानांमुमुक्ष्वन्तरे सुहृदि द्विषदि च यथातथ्येन संक्रमेपि न बाधकम्सुहृद्विषदोरपि ब्रह्मविद्यानिष्टत्वात् तेषां सुहृद्द्विषदन्तरेअन्तिमकाले संक्रमोपपत्तेरिति । तन्न पेशलं सुहृदन्तरस्य द्विषदन्तरस्यच ब्रह्मविद्या निष्टत्वे तत्संक्रमित तादृश सुकृत दुष्कृतयोः तथाविधेऽन्यत्र संक्रमः इत्यनवस्थापातात् । अतः उक्तरीतिरेव युक्ता । ब्रह्मविद्याधिगमसमयेकर्मणांविनाशोनाम यद्ययमुपासकः प्रारब्धमुपासनं परिसमापयेत्तर्हित धीननिग्रजन्यंएतस्मिन्न दास्यामीत्यभि सन्धिः । एतत्प्राचीनकर्मानुष्ठान जनितनिग्रहजन्य स्थित फल प्रदानाभि सन्धिपरित्यागः । अश्लेषो नाम उपासककरिष्यमाण कृत कर्मणां तेषु विषये फलजनकत्वं माभूदित्यभिसन्धिःसंक्रमो नाम सुहृदि द्विषदि च सौहार्दद्वेषफलतया उपासकगतकर्मणांफलजनकत्वमस्त्वित्यभिसन्धिः ।।