(4.01.07) तदधिगमाधिकरणम्संगतिमाह - एवमिति । विद्यास्वरूपं विशोध्येत्यनेन पेटिकासंगतिर्दर्शिता ।फलाध्याये ब्रह्मविद्यास्वरूपचिन्तनं तु विद्यास्वरूपस्योपास्यनिरतिशयप्रियत्वेनस्वयमप्यर्थप्रियस्यनिरतिशयानन्दरूपत्वात् फलपक्षनिक्षेपार्हत्वमस्तीत्यभिप्रायेणेति प्रागेवोक्तम् । विषयमाह - ब्रह्मविद्येति । ब्रह्मविद्याप्राप्तिः =साक्षात्कारावस्थापन्नोपासनलाभः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति दर्शनसमानाकारब्रह्मोपासनलाभानन्तरं कर्मविनाशोक्तेः ।इदमेव हि विषयवाक्यतया प्रदर्श्यते । कर्मविनाशस्य दर्शनसमानाकारब्रह्मोपासन लाभानन्तरत्वोक्तिः अघाश्लेषस्यापि समानेति भावः ।अत्रब्रह्मोपासनप्राप्तौ इत्यनुक्त्वा विद्याप्राप्तिरितिकथनं न्यासविद्यायामपीयंरीतिस्समानेति ज्ञापनार्थम् । अथोक्तमर्थं श्रुति प्रदर्शनेन प्रदर्शयति - तद्यथेतिइषीकतूलमिति ।अयं छान्दसः प्रयोगः इति न भ्रमितव्यं इष्टकेषीका मालानां चिततूल भरादिषु इति पुंवद्भावोक्तेः । अत एवेष्टकचितमितिप्रयोगः । ज्वालामाल भारि प्रपद्ये इति अभियुक्त प्रयोगश्च । अत्रेषीकतूलस्यदृष्टान्तत्वग्रहणं विद्यासन्निधौ पापानां पराक्रमन्यूनत्व सूचनायअत्राश्लेषस्योत्तराधविषयत्वं विनाशस्य पूर्वाधविषयत्वमिति विभागकरणमौचित्यात्नहि पूर्वमेव संश्लिष्टस्य पूर्वाधस्य अश्लेषः संभवति । न वा संप्रत्यकृतस्योत्तराधस्यविनाशः इति । ननूदाहृतश्रुतौ अश्लेषविनाशौ प्रतीयते एवेति कोऽत्रसंशय इत्यत्राह - एताविति । नात्र प्रतीतौ संशयः किंतु तयोः विद्याफलत्वेनोपपन्नत्वमस्तिन वेति संशयः इति भावः । नाभुक्तमिति । अवश्यमनुभोक्तव्यंकृतं कर्मशुभाशुभम् । नाभुक्तं…शतैरपि इति भोगमन्तरा कर्मणां नाशोन संभवतीत्येतदर्थकोक्तवचनविरोधःअअतोऽश्लेषविनाशयोः विद्याफलत्वं न संभवतीति भावः । ननूक्तवचनबलेनक्षीयते इति श्रवणात् पूर्वाधविनाशस्य विद्याफलत्वासंभवेपि उत्तराधाश्लेषस्यविद्याफलत्वे किं बाधकंनहि उत्तराधस्यापि भोगमन्तरा अश्लेषो न संभवतीति तत्रोक्तमिति चेत्? न ।तस्याप्यर्थासिद्धत्वात् । यदि तु करिष्यमाणस्य कर्मणः फलोत्पत्तिमन्तराअश्लेषस्तर्हि तत्कर्मकरणानन्तरं भोगं विनैव नाशः इत्युक्तं स्यात्ततश्च नाभुक्तं क्षीयत कर्मेति वचनस्य स्वरसत एव पूर्वार्धस्वारस्याच्चतत एव तत्रापि प्रवृत्तिरिति । ननूक्तवचनबलेन तयोर्विद्याफलत्वाभावेतथा व्यपदेशस्य कागतिरित्यत्राह - अश्लेषेति । विद्याविधायिवाक्यशेषगतःइत्यनेन नाभुक्तमिति वचनस्य स्तुति परत्वेनोपपादनं न संभवतीत्यपिसूचितम् । स्तुतिर्हि विहितार्थ प्रशंसन मेवअत्र विद्यायाः विहितत्वेन तद्वाक्यशेषत्वौचित्यात् स्तुतित्वंयुक्तम् । तथा नाभुक्तमित्यादेः किंचिद्वाक्यशेषत्वाभावेन स्तुतिपरत्वंन संभवतीत्याशयः । कथंचिदित्यनेन अश्लेषविनाशव्यपदेशस्योक्तरीत्याप्युपपादनेनप्रामाण्यं सुघटम् । नाभुक्तमिति वचनस्यतु सर्वात्मना प्रामाण्यमेवमुपपादनाभावेनस्यादिति सूचितम् ।विद्यास्तुतिप्रतिपादनेनेति। ब्रह्मविद्यास्तुतिप्रतिपादनद्वारा ब्रह्मविद्यानिष्टवैभवं प्रतिपादयतीति भावः । ननुनाभुक्तमिति वचन मकृत प्रायाश्चित्तकर्मपरम् । अन्यथा प्रायश्चित्तशास्त्रस्यैव वैयर्थ्यापत्तेःततश्च ब्रह्मविद्यायाः अधप्रायश्चित्तत्वेन विधानात् न तद्वचनविरोधःइत्याशंक्य परिहरति - न चेति। अत्रोत्तराधप्रायश्चित्तत्वेन विधानशंकनंउत्तराधारंभक पाप प्रायश्चित्तत्वेनविधानाभि प्रायकम् । निमित्तानुदयेनैमिति कस्यानुदयादिति द्रष्टव्यम् ।।यद्वा पूर्वाधनाशार्थत्वेनउत्तराधाश्लेषार्थत्वेन च विद्यायाः प्रायश्चित्तत्वमिति भावः ।तदा अधविनाश इति अधासंश्लेषस्याप्युपलक्षणम् । कुतो न तथा विधीयतेइत्यत्राह - विद्या हीति । ब्रह्मप्राप्त्युपायतया विधीयते इति ।ननूक्तयुक्त्या ब्रह्मविधायाः ब्रह्मप्राप्त्युपायत्वमात्रविधानात्अधविनाशाभावेपि ब्रह्मप्राप्त्यनन्तरं विद्यया ब्रह्मप्राप्तिरुपमोक्षाख्यफलसिद्धिरंगीकर्तव्यैव भवन्मते । नाभुक्तं क्षीयत इति वचनबलेन तन्नाशासंभवाच्चनच ब्रह्मविद्यया अधविनाशाभावेऽपि तत्प्रायश्चित्तानुष्ठानबलेनतन्नाशो पपत्त्या प्रायश्चित्तेन क्षपिताधस्य पुंसः ब्रह्मविद्यानिष्पत्तौसमन्तरमेवमोक्ष प्राप्तिरिति न विरोध इति वाच्यम् । संञ्चित कर्मप्रति इदंतया कस्यचित्प्रायश्चित्तस्याविधानेनाधविनाशासंभवात् ।नच विशिष्य तत्तद्दोषप्रायश्चित्तानामनुष्ठानेन संचितकर्मविनाशःउपपद्यतेपापानामनन्तत्वेन स्वस्मिन्सर्वपापवत्वसन्देहात् विशिष्य तत्तत्सर्वपापप्रायश्चित्ततया विहितानां सर्वेषामपिप्रायश्चित्ताना मनुष्ठानावश्यकत्वात्लोके अल्पायुषः अल्पशक्तेः कस्यापि सर्वप्रायश्चित्तानुष्ठानस्यदुष्करत्वाच्च ।नन्वत्रजन्मभेदेन सर्वप्रायश्चित्तानुष्ठानं शक्यम्पूर्वजन्मसंस्कारशून्यानामस्माक मनुष्ठिताननुष्ठित प्रायश्चित्तभेदज्ञानगन्धस्यैवाभावात् अनुष्ठितप्रायश्चित्तानामपि पुनरनुष्ठानापत्त्यासर्वप्रायश्चित्तानुष्ठानस्यैवासंभवात् । तस्मात् ब्रह्मविद्यायाब्रह्म प्राप्त्युपायत्वमात्रमभ्युपगच्छता अधविनाशनमेव न संभवतीतिप्रतिबन्धकाधसत्वेन ब्रह्मप्राप्तिरपि न सेत्स्यतिइत्थंच ब्रह्मविद्यायाः ब्रह्म प्राप्त्युपायत्वमपि विफलमेवेतिचेन्न । उक्तरीत्या प्रायश्चित्तादिनाऽधविनाशासंभवेपि भोगेन विनाशसंभवात् । ना भुक्तं क्षीयते कर्मेति ह्युक्तम् । तस्मात्सर्वकर्मभोगानन्तरंब्रह्मविद्यायां सत्यामवश्यं मोक्षप्राप्ति संभवेन न कश्चिदपि विरोधःइति ।।राद्धान्तमाह - एवमिति ।तदधिगमे=तस्याः प्रकृतायाः विद्यायाः अधिगमे=प्राप्तौसाक्षात्कारावस्थोपासन प्राप्ताविति यावत् । एवं विधमित्यादिनासूत्रस्थ तद्व्य देशादिति सूत्रखण्डो विवृतः । ननु अश्लेषविनाशयोःविद्याफलत्वेनाभुक्तमिति वचनेन विरोधः शंकित इत्यत्राह - नचेति ।अविरोध प्रयोजक प्रयुक्त भिन्नविषयत्वमुपपादयति - तद्धीति ।अयमाशयः - नाभुक्तमितिवचनं कर्मणां फलजननशक्तिः फलानुभवपर्यन्तावस्थायिनीति प्रतिपादयतिनतु कर्मणां नाशाभावम् । आशुतरविनाशित्वेन तन्नाशस्य सिद्धत्वेनतदभाव प्रतिपादनासंभवात् । तद्यथेत्यादिकं तु उत्पन्नायाःउत्पत्स्यमानायाश्चकर्मणां फलजननशक्तेः विद्यया विनाशः प्रतिबन्धकरणं चोच्यते इतिएवं च अग्निः दहति । जलं तं शमयतीति वाक्ययो र्यथा न विरोधः भिन्नविषयत्वात्तथात्रापि न विरोधः । यदि तु विद्यायाः अधनाशकत्वमस्ति नास्ति चेत्युक्तंस्यात् तदा अग्निर्दहति न दहति चेत्यत्रेव विरोधः संभाव्येत इति।। अत्र पापकर्मणां फलज ननशक्तिः भगवनिग्रहरूपः । ननु विद्यया अधाश्लेषविनाशवचनमपिनघटते - अधस्यतस्यसंश्लेषावश्यकत्वात् स्वत एव नष्टत्वोच्चेत्यत्राभिप्रेतमश्लेषकरणादिपदार्थं विवृणोति - अधस्येति ।उत्पत्स्यमानकर्मणः उत्पत्स्यमानायाःकार्यकरणशक्तेः ब्रह्मविदि प्रतिबन्धः अश्लेषः कर्मणो फलजननद्वारभूतशक्यनुत्पत्तिरितियावत्उत्पन्नकर्मणः उत्पन्नायाःफलजनन शक्तेः ब्रह्मविदिनिवृत्ति विनाशःइत्यर्थःससुहृदिद्विषदिच न शक्तेः अश्लेषो विनाशोवा । सूत्रे अश्लेषपदमात्रंपर्याप्तं ब्रह्मविदा कृतस्य करिष्यमाणस्य वा कर्मणः ब्रह्मविदिफलासंबन्ध बोधनोपपत्तेः । अथापि विषयवैलक्षण्यज्ञापनार्थं पापविभागनिर्देशपूर्वक मश्लेषविनाशा वुक्तौ ।।अथ विद्यया तन्नाश तदुत्पत्तिप्रति बन्धावुपपादयति - शक्तिरपीति ।तथा च तद्वचनद्वयस्यापि भिन्नविषयत्वेनोविरोधात् उक्ताश्लेषविनाशयोःब्रह्मविद्याफलत्वं युक्तम् । यत्तु भोगेन सर्वाधनाशानन्तरं ब्रह्मविद्ययाब्रह्मप्राप्तिरित्युक्तं तदपि मन्दम् । कर्मसामान्यस्य भोगैकनाश्यत्वासंभवात्तथा सति अनादिकालोपचितानामनन्तानां पापानां उत्तरोत्तर शरीरांभकत्वात्कर्मनाशार्थ भोगार्थ शरीरस्यावश्यकत्वाच्च तस्मिन् तस्मिन्नपि शरीरेपापार्जनं भवतीति अनिर्मोक्ष एव प्रसजेत् । तथा च ब्रह्मविद्यायाःमोक्षोपायत्वविधानमेवानुपपन्नं स्यात्एवं च प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै यानि तेषामशेषाणांकृष्णानुस्मरणं वरमिति कृष्णानु स्मरणरूप ब्रह्मविद्यायाः सर्वप्रायश्चित्तापेक्षयाप्युत्तमत्वस्मरणेनतया सर्वपापविनाशोपि युक्तः । एतेन ब्रह्मविद्यायाः ब्रह्म प्राप्त्युपायत्वेनविधानेपि अध प्रायश्चित्ततया विधानं नास्तीत्यपि परिहृतम् । ब्रह्मप्राप्त्युपायतया विधानेपि ब्रह्मानु भवरूपायाः ब्रह्म प्राप्तेःस्वतः प्राप्तत्वेनासाध्यत्वात् प्रतिबन्धनिवृत्तिरूपसाध्याधविनाशार्थत्वेनब्रह्मविद्याया विधानावश्यकत्वेनाघप्रायश्चित्तत्वावश्यकत्वाच्चज्योतिष्ठोमादिकर्मणांस्वर्गाद्यर्थतया विहितानांतु स्वर्गादेस्साध्यत्वेनतद्धेतुत्वं युक्तमिति न प्रतिबन्धनिवर्तकत्वमिति विशेषः ।ननु ब्रह्मविद्यायाःपूर्वाधप्रायश्चित्तत्वसंभवेपि उत्तराधप्रायश्चित्तत्वं कथं घटताम्नैमित्तिकस्य निमित्तोत्पत्त्यनन्तरभावित्वनियमादिति चेत् । ब्रह्मविद्यानिष्टस्यजायमानमुत्तराधं पापमेव न भवतीत्यत्र प्रायश्चित्तवचनतात्पर्यात्तदुक्तं - नाधर्मस्तस्य तत्स्यादिति खलुहृदयं ग्राह्यमश्लेषवाचइति । यद्यप्युक्तरीत्या ना भुक्तमिति वचनस्याकृतप्रायश्चित्त पापविषयकत्वेनश्रुताश्लेषविनाशयोः ब्रह्मविद्याफलत्वमुपपन्नमेवअथापि एतदपेक्षया भिन्नविषयत्वेन वास्तवाविरोधो एव भावनेन परिहारदएवोचित इत्याशयेन भाष्यकृता मेवं निर्वाहः इति ध्येयम् ।। तथा चप्रायश्चित्त विधिप्रयुक्तोत्सर्गावादन्यायेन विषयभेदेन वा विरोधपरिहारात्पूर्वोत्तराधाश्लेषविनाशयोः ब्रह्मविद्याफलत्वं युक्तमेव ।अत्र नाभुक्तमिति वचनस्य स्मृतित्वेन श्रुति स्मृत्योर्विरोधे श्रुत्यास्मृति बाधस्यैव युक्तत्वात् स्मृत्या श्रुते स्तुतिपरत्वकल्पनमपिन संभवति । विरोधे त्वनपेक्ष्यं स्यादित्युक्तेः । नच स्मृतेरपिस्मृतित्वहेतुनाश्रुतिमूलकत्वानुमानसंभवेन कथमनादरणीयत्वमिति शंक्यंप्रत्यक्षश्रुतिविरोधेऽसत्येव स्मृत्या श्रुत्यनुमानसंभवात् ।अत्रचासन्दिग्धप्रत्यक्ष श्रुति सत्वात् । उक्तं हि असतिह्यनुमानमितिइत्थं च विद्वदविद्वत्साधारण्येन प्रवृत्ताया नाभुक्तमित्यादिस्मृतेःअश्लेष विनाशबोधकश्रुत्या विद्वद्विषये बाधेन विद्वदविद्वत्साधरणस्वसमानार्थक श्रुतिमूलकत्वानुमाना संभवात् केवलमविद्वन्मात्रविषयकसमानार्थकश्रुत्यनुमानस्यैववक्तव्यत्वेन तेनाविद्वद्विषये प्रामाण्येपि विद्वद्विषये प्रामाण्याभावात्विरोध एव नास्तीति द्रष्टव्यम्ननु ब्रह्मविद्यायाः सर्वाधप्रायश्चित्तत्वे ब्रह्मविदो निषिद्धानुष्ठानेपिन बाधकप्रसक्तिः ब्रह्मविद्ययैव तेषामपि नाशसंभवात् इत्थं च ब्रह्मविद्विषयेनिषेध शास्त्राणां नैव प्रवृत्तिरित्यत्राह - तदिदमश्लेषवचनमिति ।अपिचेत्पातकं किंचित् योगी कुर्यात् प्रमादतः । योगमेव निषेवेतनान्यत् कृच्छ्रं समाचरेदिति प्रामादिकाधप्रायश्चित्तत्वेनैव ब्रह्मविद्यायाःविधानात् न बुद्धि पूर्वकोत्तराध प्रायश्चितत्वं संभवतीत्याशयःउक्तार्थे प्रमाणमाह - नाविरतः इति । दुश्चरितादविरतः उपासनेनपरमात्मानं नाप्नोतीत्युक्त्या दुष्कृतानुष्ठाने ब्रह्मप्राप्त्यर्थब्रह्मविद्यानिष्पत्त्यसंभव प्रतीतेः ब्रह्मविद्यायाः दुष्कर्मविरतिनिष्पाद्यत्वं सिध्यतिअतो ब्रह्मविदामपि दुष्कर्मानुष्ठानं निषिद्धमेवेति न तत्प्रायश्चित्तत्वंब्रह्मविद्यायाः युक्तम् । ननु ब्रह्मविद्यायाः पूर्वमेव निष्पन्नत्वेनतदुत्पत्तेरनपेक्षितत्वात् निष्पन्नब्रह्मविद्यस्य पुंसः निषिद्धानुष्ठानवारणंकथमनेन संभवति इति शंकापरिहाराय - आप्रयाणादित्याद्युक्तम् । साक्षात्कारावस्थब्रह्मविद्याप्राप्त्यनन्तरं क्वचिन्निषिद्धानुष्ठानस्य निषिद्धत्वात् क्वचिच्चतदश्लेषोक्तेः मिथोविरोधपरिहाराय आचित्त्यात् योगी कुर्यात्प्रमादतःइति वचनबलाच्च उत्तराधाश्लेषवचनस्य अबुद्धि पूर्वकाधविषयत्वं वक्तव्यमितिभावःननु ब्रह्मविद्यया अबुद्धिपूर्वकोकराधस्यापि नाश्लेषः । नह्यबुद्धिपूर्वकबीजावापादेःअंकुराद्यजनकत्वमितिचेदत्र परिहारद्वयम्शास्त्रैकसमधिगम्येऽर्थेप्रत्यक्षस्याप्रमाणत्वेन शास्त्रेण प्रत्यक्षबाध एवयुक्तः ।श्रुतेस्तुशब्दमूलत्वादिति हि सूत्रितम् ।अन्यस्तु पापस्य भगवद्प्रीतिरूपत्वेनतस्यापि तत्संकल्परूपत्वात् उत्तरत्राधकरणे फलजननसंकल्पस्य तेनाकरणात्बुद्धिपूर्वकं वा अबुद्धिपूर्वकं क्वचित् स्थलविशेषे बीजनिक्षेपेपिअंकुराद्यनुत्पत्तेरपि दर्शनात् । यद्यपि सांपरायाधिकरणे दुष्कृतस्यदेहावसनेएव निःशेषक्षयः इति प्रतिपादितत्वेनात्र देहे स्थितस्यैवविदुषः दर्शनसमानाकारावस्थापन्न ब्रह्मविद्याप्राप्त्यनन्तरं कर्मक्षयप्रतिपादनं विरुध्यते - अथापि उक्तब्रह्मविद्याप्राप्त्यनन्तरं यद्ययमुपक्रान्तमुपासनंसमापयेत्तदाऽस्य दुष्कृतरूपं कर्म क्षमिष्यामीति प्रथमं भगवान् सकल्पयति ।देहावसाने च क्षान्तमिति संकल्पयतीति संकल्पभेद प्रयुक्त कर्मनाशभेदःउभयत्र प्रतिपाद्यत इति न विरोधः । सर्वज्ञस्यापि भगवतः यद्यालिंगितसंकल्पःब्रह्मविदा उपक्रान्तोपासनस्यावश्यकर्तव्यत्व ज्ञापनार्थः इति ध्येयम्।। यद्वा विद्यारंभे प्रीतस्य परमात्मनः एतदुपासन समाप्तौ एतस्याधनशोभूयादिति संकल्पो जायते । देहवियोगानन्तरं च विद्यायास्समाप्तत्वाद्विनाशः । एतत्सकल्पाभिप्रायेण अघविनाशस्य सिद्धप्रायत्वं मत्त्वातदधिगम इति सूत्रप्रवृत्तिरिति न विरोधःनिष्कृत्यात्मत्वमस्योदित समुन्मूलनस्योपपन्नंनात्र स्वर्गादि नीतिःप्रतिहतिविगमे धीविकासः स्वतो हि ।पापालेपः प्रमादोदितसहनमिति स्याप्यमाज्ञानुवृत्त्यै नो चेत् नस्यात् गतिः नाविरत इति गिरो योगिनां च प्रवृत्तेः ।।अश्लेषः कर्मशक्तेरनुदयः उदये तन्निवृत्तिर्विनाशः शक्तिस्सा चप्रणेतुः तदुचित फलकृन्निग्रहानुग्रहात्मा ।प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यंनाधर्मः तस्यतत्सायात् इति खलु हृदयं ग्राह्यमश्लेषवाचः ।।स्वर्गादिजनकं कर्मान्यत् गोहृत्यादिपापविनाशकं कर्मान्यत् पूर्वंकाम्यकर्म अन्यत्तु प्रायश्चित्तरूपम् ।एकस्यैवोभयजनकत्वं न प्रसिद्धम्प्रायश्चित्तात् पापमात्रं नश्यति । नतु अभीष्टस्वर्गादिसिद्धिःयागात् स्वर्गसिद्धि नतु स्वतकृतपापशान्तिः । अश्वमेघात् ब्रह्महत्याशान्तिःपुत्रकामेष्ट्या पुत्रप्राप्तिः दशरथस्य । अत एव दशरथः उभयं चकारअतोऽत्र विद्यया ब्रह्मप्राप्तिश्चेत् नाधविनाशः । अद्यविनाशश्चेत्न ब्रह्मप्राप्ति संभवः तस्मात् अश्लेषविनाशश्रुतेः विद्याविधिशेषत्वादर्थवादत्वमेववाच्यम् । न चोभयोः श्रुतित्वात् अर्थवादस्यापि अस्माकं मते प्रामाण्यस्वीकारात्विनिगमकाभावेन ब्रह्मप्राप्तिबोधकवाक्यस्यैव स्वार्थे प्रामाण्यंनास्तीति वक्तुं शक्यम्अवश्यमनुभोक्तव्यमिति परामर्शेन विनाशाश्लेषबोधकवचनस्यैवाप्रामाण्यावश्यकत्वात्अपि च सति निमित्ते नैमित्तिकोदयः इतिन्यायेन आगामिपापप्रायश्चित्तरूपतापिविद्यायाः न संभवति । अतस्तत्रविषये स्तुतिरूपत्वमेव स्वीकर्तव्यमितिनाशविषयेपि स्तावकत्वमेव सिध्येदिति पूर्वपक्षितात्पर्यम् । सिद्धान्तिनस्तु - प्रायश्चित्तरूपत्वेन अधनाशकत्वमेकमेव विद्यायाः ननु स्वर्गादिवत् यागस्येवब्रह्मप्राप्ति साधकता । ब्रह्मप्राप्तिश्च स्वतः सिद्धा । एतदभिप्रायेणैव"नात्र स्वर्गादिनीतिः प्रतिहतिविगमेधीविकासः स्वतोहि" “इत्यनुगृहीतम्"एवमपि अश्लेषविषयेस्तावकत्वगतिमन्तरा कथं निर्वाहः इतिचेत् ? तत्रोत्तरंनाधर्मस्तस्य तत्स्स्मात् इत्यादिकम् । अश्लेषविषये न प्रायश्चित्तरूपताविद्यामनुतिष्टतः उत्तरत्र जायमानं अधत्वेन लोकप्रसिद्धं न पापंभवति । तस्य पापत्वमेव नास्ति ।इति तात्पर्यात् । ननु तर्ह्यस्याधिकारिणःपापाचरणेपि नन्यूनता इति चेत् तदर्थमेव प्रामादिकविषयमिति भाष्यंप्रवृत्तमिति । इदं च भाष्य मुपलक्षणं - श्रीमद्रहस्य सारे - भगवत्कैंकर्यनिष्टस्यप्रायेण अनापदि बुद्धिपूर्वका पराधोःन संभावितः । प्रारब्धकर्मविशेषवशात्देश काल अवस्था वैगुण्य हेतुकतया प्रामादिकत्वेन च सुषुप्त्याद्यवस्थासु च जायमानापराध लेशादिः अश्लेषविषयकः इत्युक्तमिति बोध्यम्सूत्रे उत्तर पूर्वाधयोः अश्लेषाविनाशौ इत्यत्र यथा संख्यमन्वयःयद्यप्यल्पाच्कत्वानुरोधेन पूर्वोत्तरयोः इत्येव वक्तव्यम् ।नच श्रुतौ अश्लेष वचनं पूर्वं विनाशवचनं पश्चादिति तदनुसारेणैवंनिर्देशः इति वाच्यम् अधनाशस्यापि प्रपूर्वं प्रतिपन्नत्वात् ।छान्दोग्ये एव प्रथमाध्याये उदेति हवै सर्वेभ्यः पाप्मभ्यः इतिनाशस्य पूर्वं उक्तत्वात् । किं च उत्तरं च पूर्वं च इति विग्रहकरणेपिपूर्वोत्तरे इत्येव रूपम् । अथापि प्रथमं अश्लेषविनाशौ इति अश्लेषस्योक्तत्वात्उपरितनप्रयोगमनुसृत्यान्वयसौकर्याय च उत्तरपूर्वाधयोः इति सूत्रितंनचोपर्यपि विनाशाश्लेषौ इति कुतो निर्देशः न कृतः इति वाच्यम् ।अश्लेषश्च विनाशश्च, इति, विनाशश्चाश्लेषश्च इति वा विग्रहकरणेपिअश्लेषशब्दस्यैव पूर्वनिपातः इति व्याकरणसिद्धत्वात्तथा निर्देशःइति न स्वारस्यभंगः ।। तदधिगमाधिकरणं समाप्तम् ।।