06 आप्रयाणाधिकरणम्

(4.01.06) आप्रयाणाधिकरणम्एवं मोक्षसाधनपर ब्रह्मोपासनस्यासनाद्यपेक्षत्वमुक्तम्अथाप्रयाणमनुवर्तनीयत्वमुच्यते इति संगतिः । संशयं प्रदर्शयन्पूर्वपक्षमाह - तदिदमिति ।शास्त्रार्थस्य कृतत्वादिति । मोक्ष साधनतयाविहित ब्रह्मवेदनस्य शास्त्रबलेन सकृत्कृतः शास्त्रार्थः इति न्यायबाधादसकृदावृत्तरूपत्वं स्थापितम् । तद्वदत्र प्रत्यहमनुवर्तनीयत्वेप्रमाणाभावात् सकृत् कृतः शास्त्रार्थः इति सर्वसाधारणन्यायस्यप्रवृत्तेः एकस्मिन्नह्नि असकृदावृत्ततया उक्तोपासनस्य करणेपि शास्त्रार्थानुष्ठानोपपत्तेःतावतैव विधेर्विश्रान्तिसिद्धेश्च नाप्रयाणं प्रत्यहमनुष्ठेयत्वमितिभावःसिद्धान्तमाह - इति प्राप्त इति । आमरणात् यावदायुषमित्यर्थः । तत्रापिहिदृष्टमिति व्याख्येयोपादानम् । उपासनमित्यध्याहृतम् । दृष्टमित्यनेनअसकृदावृत्तत्वस्य श्रुतिबोधितत्ववत् उक्तोपासनस्यापियावदायुषमनुष्टेयत्वस्यश्रुत्यैव बोधनात् तदतिक्रमे विध्युल्लंघन प्रसंग इति सूचितम् ।सखल्वेवमिति ।यावद्दर्शनमिति नात्रोक्त मित्याशयः ।ननूदाहृतश्रुत्या धर्माणां हि सुचरितानां यावदायुरनुष्टेयत्वमुच्यते नतु उपासनस्येति कथमियं श्रुतिः उपासनस्य यावदायुरनुष्टेयत्वेप्रमाणमिति चेत् उच्यते । ब्रह्मलोकमभिसंपद्यते इति सुचरितानांब्रह्मोपासनजन्य ब्रह्मलोकप्राप्तिहेतुत्वोक्तेः तादृशकर्मणां विद्याङ्गत्वप्रतीतेः विद्यास्वरूपोत्पादकानां तेषां यावदायुरनुष्टेयत्वकथनंउपासनस्य यावदायुरनुष्ठेयत्वमन्तरा नोपपद्यते इति श्रुतार्थापत्त्याब्रह्मविद्यायाः आप्रयाणादनुवर्तनीयत्वं सिध्यतीति ।यावदायुषमितिस्वारस्येन नित्यत्वप्रतीतेः नित्यकर्मणां च विद्यांगत्वेन अंगिनःआक्षेपइति च बोध्यम्नच पूर्वमुपासननिष्पत्तावपि उत्तरत्रानुष्टीयमानं कर्म उत्तरांगमितिन विद्यांगकर्मणां यावदायुरनुष्टेयत्व वचनं व्याहतमिति शंक्यम्अंग भूतकर्मणां उपासनस्वरूपोत्पत्ति हेतुत्वेन सन्निपत्योपकारकत्वात्अत एवहि प्रायणान्तमोङ्कारमभिध्यायीत इति स्पष्टमेव ब्रह्मोपासनस्याप्रयाणमनुवर्तनीयत्वमुक्तम् ।। ननु स्पष्टैतादृश श्रुतिसत्वेन दृष्टं आप्रयाणादितिपदस्वारस्येन चेय मेव श्रुतिः किमिति भाष्यकृतानोदाहृतेतिचेत् ।सुचरितानां स्वरूपोत्पत्तिहेतुत्वेन सन्निपत्योपकारत्वं तेषामपियावदायुदनुष्टेयत्वं चेत्यधिकं वक्तव्यमित्याशयेन सखल्वेवमिति श्रुत्युदाहरणमितिन दोषःअतो मोक्षसाधनं परब्रह्मोपासनं अन्तिम शरीरविनाशावधि प्रत्यहमनुवर्तनीयम्।।ननु मोक्षसाधनतया विहितस्यध्यानरूपस्योपासनस्य उपासननिष्पत्त्यवच्छेदकशरीरविनावशावध्येव अनुवर्तनीयत्वं युक्तं तत एवोपासननिष्पत्तेःननतु प्रारब्धकर्मजन्य यावच्छरीरपतनावधि । अत एवहि यावदधिकारमवस्थितिराधिकारिकाणामितिसूत्रे वसिष्टावान्तरतपः प्रभृतीनां साक्षात्कृतपरतत्वानां उपासननिष्पत्तेःसिद्धत्वेन देहपातानन्तरमेव मोक्षावश्यकतया अर्चिरादिगतिः कुतोन प्राप्ता इति शंकायापरिहारः तेषामाधिकारिकत्वेन कृतः । तस्मात्तद्देहावसानपर्यन्तमेव प्रत्यहमुपासनस्यानुवर्तनीयत्वम् । युक्तंचैतत्कथमन्यथा उपासननिष्पत्त्यवच्छेदक शरीरानन्तर शरीरादिष्वप्यनुवर्तनीयत्वेकेषांचित् उपासननिष्पत्त्यवच्छेदक शरीरानाशानन्तरं प्रारब्धकर्मविशेषेण मृगादिशरीरं प्राप्तानां मुपासनस्यानुवर्तनीयत्व सिद्धिःततश्च तेषां उपासनानुवर्तनासंभवेनोपासपूर्त्यभावेन प्राप्तमोक्षस्याप्यसिद्धिप्रसंगः इति चेत् मैवम् ।। उपासननिष्पत्त्यनन्तरं तच्छरीरविनाशेकर्मविशेषेण मृगादिशरीरं प्राप्तानां निष्पन्नोपासनाननुवृत्तावपिक्षतिविरहात् । उपासनानुवृत्ति करणयोग्य शरीरादिष्वेव यावदायुःप्रत्यहमनुवर्तनीयत्वे तात्पर्यात् । मृगादिजन्मनि उपासनाननुवृत्तावपितदुत्तर जन्मसु ईश्वरानुग्रहवशात् पूर्वजन्मसंपादित संस्कारवशेनोपासनानुवृत्तिश्चयुक्ता । एवमेवहि सखल्वेवं वर्तयन् यावदायुषं इति यावदायुरनुष्टेयत्वेनोक्तानांविद्याङ्गकर्मणां मृगादिजन्मनि अनुष्ठाना संभवप्रयुक्ताभ्यासाधेयातिशयविद्या़निष्पत्ति परिहारः कर्तव्यः । नच मृगादिजन्मनि तत्तद्धर्मानुष्ठानमस्त्येवेतिवाच्यं तेषां विद्यानंगत्वात् तत्तद्वर्णाश्रम धर्माणामेव हि विद्यांगत्वमुच्यतेननु विद्याया इव विद्यानिष्पादक कर्मणामपि उपासननिष्पत्त्यवच्छेदशरीर नाशावध्येवानुष्टेयत्वमिति नास्माकमेष दोषः प्रसजतीति चेत्तर्हिविद्यानिष्पत्त्यवच्छेदक शरीरनाशानन्तरंसुकृतविशेषेण ब्रह्मण्यादिशरीरं प्राप्तानां, कर्मणां विद्यानंगत्वेन धर्मानुष्ठानाभावप्रसंगःइति वर्णाश्रम धर्मपरित्यागापत्तिः ।नच विहितत्वाच्चाश्रमकर्मापिइति सूत्रोक्तप्रकारेण एतद्विषये धर्माणां विद्यानंङ्गत्वेपि वर्णाश्रमधर्मत्वेनविहितत्वादेवानुष्ठानमुपपद्यत इति वाच्यम्तथापिसखल्वेवं वर्तयन् यावदायुषमिति प्रत्यहं यावदायुः विद्याङ्गत्वेनकर्मणामनुष्टेयत्व बोधकवचनविरोधस्या परिहारात् ।अतो विद्यांगकर्मणामिवविध्याया अपि यावदायुरनुष्टेयत्वे न संकटं किंचित् । किं बहुना"प्रायणान्तमोंकारमभि ध्यायीत इति श्रुतिरेवहि विस्पष्टमुपासनस्यपरमपदगमनपर्यन्तमनुवर्तनीयत्वं ब्रवीति ।तत एव च तत्स्वरूपोत्पादककर्मणामपिपरमपदगमन पर्यन्तमनुष्ठेयत्वं सिध्यतीति । वसिष्टावान्तरतपः प्रभृतीनामर्चिरादिगत्यापत्तेःआधिकारिक पुरुषत्वेन परिहारकथनमपि प्रारब्धकर्मासमाप्त्या तावत्पर्यन्तानुवर्तनीयोपासनरूपोपायानिष्पत्त्यभिप्रायकमेवेतिनकश्चिद्विरोधः । अतस्सिद्धमुपासनस्य यावदायुरनुवर्तनीयत्वमिति दिक् ।।आप्रयाणाधिकरणं समाप्तम् ।।