05 आसीनाधिकरणम्

(4.01.05) आसीनाधिकरणम्संगतिमाह - मोक्षसाधनतयेति। अनेन प्रतीकाधिकरणस्यादित्यादिमत्यधिकरणस्यच प्रासंगिकत्वमिति परमप्रकृत ब्रह्मोपासनेन संगतिरस्येतिदर्शितम् । यद्यपि उपासनत्वतौल्यात् प्रतीकोपासनानामप्यासन सापेक्षत्वमस्त्येवेतिपरब्रह्ममात्रोपासनमादाय तस्यासनसापेक्षत्वबोधनम संगतमिव भाति ।अथापि प्रतीकोपासनेष्वपि तुन्यन्यायतया आसनसापेक्षत्वस्यार्थ सिद्धिमभिप्रेत्यप्रधानप्रतिपाद्यं मोक्षसाधनभूतं ब्रह्मोपासनमत्रोपात्तम् । एवमुत्तराधिकरणेआप्रयाणादनुवर्तनीयत्वोक्तेः तस्य प्रतीकोपासनसाधारण्याभावात् ब्रह्मोपासनस्यैवोपादेयतयाअत्र प्रतीकोपासनस्यासनसापेक्षत्वकथने मध्यप्रसक्ताधिकरणत्रयस्यप्रासंगिकत्वं मन्यमानस्य, परब्रह्मोपासने आसननिरपेक्षत्वाशंकापीस्यादिति तच्छंकानिवृत्त्यर्थं परमप्रकृत ब्रह्मोपासनेन संगतिरुक्ता ।पूर्वपक्षमाह - तदिति । अनुतिष्ठन् पुरुषः । विशेषाभावादनियमेनानुतिष्ठेदित्यन्वयः । आसीन इत्यादिक अनियमेनेत्युपपादनम् ।।आसीनेनैव योगः करणीयः इत्यत्रान्यत्र वा विशेषवचनाभावादित्यर्थः ।प्रत्युत, स खल्वेवं वर्तयन्, सदा तद्भावभावित इति सर्वावस्थायामपिध्यानकार्यत्वं विधीयते इति भावः । ननु स्थिरमासनमात्मनः इति आसनपरिकल्पनस्यश्रवणात् कथमियं शंकेति चेत् शृणु । नात्रासनपरिकल्पनस्य नियतत्वमुच्यतेकिंतु पाक्षिकासीनत्वावस्थायां उपासनस्यासननियमविधिरिच्यते ।अत एव नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरमित्युक्तं इति ।सिद्धान्तमाह - इति प्राप्त इति । संभवादित्यस्योपासन संभवादित्यर्थापेक्षयातस्यापि हेतुभूतैकाग्र चित्तता संभवादित्यर्थे स्वारस्यंउपासनसंभवोपि कथमित्याशंकायां एकाग्रचिन्ततासंभवस्यैव हेतुकरणीयत्वादित्याशयेनसंभवादिति पदं व्याचष्टे - संभवादिति ।एकाग्रचित्त्ततासंभवइति । यत्रैकाग्रताइति हि सूत्रकारोपि उपरिनिर्दिशतीति भावः । एकाग्रचित्तत्वं=योगोन्मुखचित्तत्वम्आसीनत्वव्यतिरिक्ता वस्थायामेकाग्रचित्तत्वासंभवं दर्शयति - स्थितीति।नन्वासीनस्यापि पश्चार्थभागधारणप्रयनसापेक्षताऽस्त्येवेति किंवैषम्यमित्यत्राह - पश्चार्धेति ।पश्चार्धधारणं=पाश्चात्यभागधारणम्सापाश्रये इति । आसने इति विशेष्यवाचकपदाध्याहारः। अनेनौचित्त्यंहेतूकृतम् ।। अपाश्रयः = दण्डादिविशेषः ।।

उत्तरसूत्रार्थमाह - निदिध्यासितव्यइति । ध्यानरूपत्वादित्यनेन सूत्रस्थध्यानशब्दो भाव प्रधाननिर्देश इति सूचितम् । ननूपासनस्य ध्यानरूपत्वेनैकाग्रचित्ततावश्यंभावःकथमवसीयते इत्यत्राह - ध्यानं हीति। स्मृति सन्ततिरूपत्वेन सजीतीयप्रत्ययान्तर व्यवहितत्वं न दोष इति स्फोरणायविजातीयेत्युक्तम्तथा चैकाग्रचिंत्तताभावे उक्तध्यानसिद्धिर्न भवतीति भावः । इत्थंच स्थिति गतिमतामवश्यं विसजातीय प्रत्यय संभवेन एकाग्रचित्तत्वासंभवात् न ध्याननिष्पत्तिरिति आसीनस्यैव ध्यानमित्याशयः । पूर्वसूत्रेएकाग्रचित्तता हेतूकृता ।अत्र तु उपासकस्यैकाग्रचित्तत्वावश्यभावेपि हेतुरुक्तः इति भिदा ।पूर्वोक्तहेतूपपादकः सूत्रस्थश्चकारः ।।

विवक्षितपदाध्याहारेणोत्तरसूत्रं योजयति - निश्चलत्वमिति । ध्यानवाचोयुक्तिः=ध्यानवाक्प्रयोगः।नन्वत्र पृथिव्यादिपदानां अभिमानिदेवता परत्वान्नैवमिति शंकां परिहरन्नुपसंहरति - अतइति । पृथिवीपर्वतादिवदिति । अत्रेवशब्द प्रयोगेणाभिमानि देवतापरत्वकल्पनमयुक्तम्अतः निश्चलत्व साम्याभि प्रायेणैवेवशब्दप्रयोगः । उपासकस्य निश्चलत्वंच एकाग्रचित्तत्वेन । एकाग्रचित्तत्वं चासीनस्यैव । गत्यादौ विजीतीयप्रत्ययसंभवेन चलनावश्यं भावादित्याशयः । एवमर्थोचित्त्यात् दृष्टान्तपर्यालोचनयाचासीनस्यैवोपासनमित्युक्तम् । यथा पृथिवी निश्चला वर्ततेतथा योगी निश्चलस्सन् ध्यायतिइत्यर्थे इयं श्रुतिः न प्रवृत्ता । ध्यानस्य (ज्यायस्त्वं=भूयस्त्वं)महत्त्व बोधनार्थमेव प्रवृत्ता । अतो योगी यथा ध्यायन् निश्चलोभवति, तथापृथिव्यादयोपि निश्चलास्सन्तः ध्यानमभिनयन्तीति तात्पर्यम्पृथिव्यादीनां ध्यानकर्तुत्वमपि नात्रोच्यते । पृथिव्यादिकर्तृकाभिनयकरणंहि अभिनेतुः गौरवबुद्धौ सत्यामेव भवति “तस्मात् यद्वह मनुष्याणांमहत्तां प्राप्तुवन्ति ध्यानप्रदांशा इवैवते भवन्ति… ध्यानमुपास्वइति उपरिवाक्यम् । ये मनुष्याणां मध्ये धनादिभिर्महान्तः ते ध्यानमापन्नानां= ध्यातृणां अंशाः एतत्सदृशा भवन्तिअयं भावः - यथा - ध्यातारोऽवचनाः एवं महान्तोपि अवचनतया ध्यातृसादृश्यंप्रतिपद्यन्ते । अतो ध्यानं श्रेष्ठमिति प्रकरणार्थः ।।

अथ वचनमपि तत्र प्रमाणमित्येतत्परमुत्तरसूत्रमाह - स्मरन्तिचेति।आसनं=दार्वादिनिर्मितमासनमित्यर्थः । चेलेति । प्रथममासनं ततो वस्त्रंततोऽजिनं पश्चात्कुशाःइति विभागः । एत द्विपर्ययेणेति शंकरभाष्यम्एकाग्रं=योगैकाग्रमित्यर्थः । अत्रासने उपविश्येत्युक्तेःआसनपरिग्रहःस्फुटः । नात्रासीनत्वावस्थायां नियमविधानम् । सर्वं वाक्यं सावाधारणमितिन्यायेन आसने उपविश्यैव योगं युञ्जयादित्यर्थ प्रतीतेः । नापि तादृशंन्यायबाधकं किंचिदुपलभ्यते । प्रत्युत अर्थौचित्यरूप साधकमेवास्तीति भावः ।।

अनन्तरसूत्रार्थमाह - एकाग्रतेति । सूत्रस्थयच्छब्दः अविशेषात् देशकालोभयपरःइत्याशयेन यो देशः कालश्चेत्युक्तम् ।स एवेति। तिथिनक्षत्रादिनियमोनास्तीत्यर्थः । “शुभे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिःमनोनुकूले न तु चक्षुः पीडने गुहानिवाताश्रयणेप्रयोजयेत् “इतिवाक्ये केवल मुपासनदेशस्यैव नियमनात् न कालनियमःपेक्षितःइत्यत्राह- सम इति ।एकाग्रतैकान्तदेशमाहेत्यादि। इदं च वचनं उपासन देशनियमानबोधनायन प्रवृत्तम् । किंतु यस्मिन् देशे उपासनकरणे मनसः एकाग्रत्वं स्यात्तस्मिन्देशे एवोपासनं कर्तव्यमिति बोधनेन उपासितुः चितैकाग्रयसिद्धिरवश्यंसंपादनीयेति बोधयति ।इत्थं च चित्तैकाग्र्ये सत्येवोपासननिष्पत्त्या देशविशेषनियमवत्कालविशेषनियमोऽप्यावश्यक इति सिध्यति । न्यायस्य तुल्यत्वात् ।नहि सर्वदेश इव सर्वकालेपि चित्तस्यैकाग्रत्वं भवितुमर्हतीति भावःनन्विदं वाक्यं एकाग्रतैकान्तदेशमेवाहेति कथमवगम्यते इत्यत्राह - मनोऽनुकूलइति। अत्रहि मनसः एकाग्रत्वरूपमनुकूलत्वं यत्र संभवति तस्मिन्नेवदेशे उपासनं कार्यमित्युच्यते । अतः उपासनस्य चित्तैकाग्र्य साध्यत्वमवसीयतइत्याशयः ।। उपासनसिध्यर्थतया चित्तैकाग्र्यापेक्षणात् चित्तैकाग्रयस्यचदेशविशेषे कालविशेषे एव च संभववत् आसीनत्वावस्थायामेव संभवादपिआसनपरिग्रहोऽवश्यमपेक्षितः इति सूत्रकृदाशयः ।। ननूक्तयुक्या आसीनत्वावस्थायामेवोपासनस्यकर्तव्यत्वसिद्धेः सदा तद्भावभावितः इति सर्वावस्थायामपि ध्यानस्यकर्तव्यत्वबोधनं कथं घटतामिति चेत् उच्यते । सदा तद्भावभावितः इतिसदा विहितो योगोहि सच्छिद्रोपासनरूपः । देशकालादिनियमविधानं तुयुञ्जानस्य (प्रकान्तयोगस्य) चित्तैकाग्रतोपपत्त्यर्थः । इत्थं चप्रक्रान्तयोगस्य पुंसः चित्तैकाग्र्यासंभवेनोपासननिष्पत्तेः तत्सिध्यर्थतयाकालादिनियमविधानात् युक्तस्य सर्वदोपासन संभवाच्च न विरोधः इतिननु विद्यांगपादे निरूपणीयस्यासनाद्यांगस्यात्र चिन्तनं किमर्थंक्रियते इति चेदत्र सारावलिः - सत्ये ध्यानाख्यधारावहनमति दशात्वन्वहंसाधनीया चित्तैकाग्रयेण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यमितिस्मृतिसन्ततिरूपध्यानस्यान्वहं साधनीयस्य चित्तैकाग्रयेण सर्वप्रयत्नविरहेएव सिद्धिरिति विशेषप्रयोजनकथनाय चित्तैकाग्र्यसंपादक समाध्यंगस्यचिन्तनमत्र कृतमिति न दोषः इत्याशयः ।। आसीनाधकरणं समाप्तम् ।।