04 आदित्यादिमत्यधिकरणम्

(4.01.04) आदित्यादिमत्यधिकरणम्पूर्वाधिकरणे अपकृष्टेषूत्कृष्टदृष्टिर्न्याय्येति प्रतिपादितम् । तर्हि फलसाधनतयोत्कृष्टस्योद्गीथादेः आदित्यादौ दृष्टिः कर्तव्येति शंकया संगतिः ।विषयप्रदर्शनपूर्वकं संशयमाह - य एवेति । ननूद्गीथादीनां उत्कृष्टत्वे हितन्न्याय प्रवृत्तिरित्यत्राह - उद्गीथादीनां चेति । फलसाधनभूतकर्मांगत्वेनेति ।प्रधानस्य यत्फलं तदेवांगस्यापि फलं नतु तदतिरिक्तम् । अंगत्वविरोधात् ।अतश्चोद्गीथादेः कर्मांगत्वेपि अंगिनिष्पादनद्वारा फलजनकत्वेन प्राधान्यमित्याशयः । अफलेभ्यः = फलासाधकेभ्यः ।ननु फलाधिकरणे देवताया एव फलसाधकत्वं, स एवैनं भूतिं गमयति इति श्रुतेरित्युक्तं, तत्कथं कर्मण एव फलसाधनत्वं न देवतायाः इति शंकया पूर्वपक्षकरणम् ?उच्यते । फलसाधनतया कर्मैव चोदितम् । अतस्तदेव प्रधानं, देवताप्रीतिस्तु केवलमवान्तरव्यापार एव ।अतः काष्ठानां ज्वालावदवान्तरव्यापाररूपत्वेनदेवतानामप्राधान्यमेवेति पूर्वपक्षोदयः । य एवासौ तपति इति यच्चशब्दनिर्देशात्प्रथमनिर्देशाच्च आदित्यस्यैवोद्देश्यत्व प्रतीत्या आदित्योद्देशेनोद्गीथदृष्टेःविधित्सितत्वावगमाच्चेवं पूर्व पक्षोत्थानमिति ।।सिद्धान्तमाह - इतिप्राप्त इति । क्रत्वङ्गे इत्यनेनाङ्गशब्दार्थः उक्तः । मतिशब्दोदृष्टिपरः । ननूक्तं हि कर्मणः उत्कृष्टत्वमित्यत्राह - आदित्यादिदेवतेतिअयं भावः - फलसाधनतया कर्मणो विहितत्वेन (कर्मणः) शाब्द प्रधान्येपिआर्थ प्राधान्यं देवताया एव । कर्मणो देवता समाराधनरूपत्वेन देवतांप्रत्यप्रधानत्वात् । अत आराध्यदेवताया एवप्रधानत्वात् क्षणत्वंसिकर्मापेक्षयास्थिरत्वेन फलं प्रत्यव्यवहितसाधनत्वाच्च देवताया एव फल प्रदत्वमित्युत्कृष्टत्वम्अअत एव य एवासौ तपतीति यच्छब्दनिर्देश स्वारस्य भंगोपि सह्यः ।उद्देश्यवचनं पूर्व विधेयस्य ततःपरमिति व्यायस्याप्यनवकाशः । पर्वतोवह्निमान् धूमादितिवत् वह्निमान् पर्वतः धूमादित्यपि वक्तुं शक्यतेउद्गीथं, य एवासौ तपति तमुपासीत इत्यप्यन्वयसंभवात्इत्थं च कर्मदेवतयोर्मध्ये देवतायाः उत्कृष्टत्वसिध्या न देवतायामनुत्कृष्टदृष्टिःकर्तुंशक्या । एतेनोद्गीथाङ्गककर्मणा आदित्यस्याराध्यत्वाभावेन नैतत्कर्मप्रति आदित्यस्य फलप्रदत्वेनोत्कृष्टत्वमिति शंकनमप्यपास्तम् ।आदित्यस्यैतत्कर्माराध्यत्वाभावेपि अर्यम्णे चरुं निर्वपेदित्यादिकर्माराध्यत्वेनोत्कृष्टत्वात् । न च तत् प्रकृतेऽनुपपादकम् ।अचेतन कर्मापेक्षया देवतायाः प्रधानत्वस्य सर्वाङ्गीकर्तव्यत्वात्अपि च प्रकृते उद्गीथांगकर्मणः फलसाधनत्वे हि एतत्कर्मापेक्षयाआदित्यस्या प्राधान्यं शङ्कितुमपि शक्यम्एतदाराध्य देवताया एव फलप्रदत्वेनैतस्याप्राधान्यात् ।अतः उद्गीथादौआदित्यादिदृष्टिरेव कार्येति । आदित्यादेस्तत्र तत्रोपास्यस्य तत्तत्कर्मानाराध्यत्वेपिराजान्तरपुरुषस्य किंचिद्राजापेक्षयापि निकर्षवत् कर्मणां देवतापेक्षयासर्वथानिकर्ष एव इति दर्पणम् ।। एतेन प्रकृते उद्गीथांगककर्मणइवादित्यस्यापिफलप्रदत्वा भावेन समत्वात् कस्योत्ष्ठष्टत्वं कस्यवानुत्कृष्टत्वमितिशंकनमपि निरस्तम् । वस्तुतोऽचेतनत्वेन कर्माप्राधान्यस्य सिद्धत्वात्नन्वन्यथाख्यात्यभ्युपगमपेक्षे अन्यस्मिन्नन्यदृष्टिविधानं युज्यतेयथार्थं सर्वविज्ञानमिति वदतां वेदान्तिनां सिद्धान्ते कथं दृष्टिविधानमिति चेत्अत्र केचित् । पूरोवर्तिशुक्लभास्वरद्रव्यदर्शनानन्तरभावि शुक्तिरजतभेदाग्रहसहितशुक्ति रजतज्ञानस्य शुक्तित्वप्रकारक शुक्तिविशेष्यक रजतत्वप्रकारक रजतविशेष्यक ज्ञानद्वयात्मकत्ववत् उद्गीथः आदित्य इति ज्ञानद्वयात्मकत्वाभ्युपगमात्ज्ञानायथार्थत्वानभ्युपगमेपि न दोषः इति । नन्वेवंसति सर्वज्ञानानामपितद्वति तत्प्रकारकत्वेन प्रमात्वात् लोकसिद्धभ्रमस्यैवापलापप्रसंगइति चेन्न ज्ञानयाथार्थ्याभ्युपगमेपि अयथावस्थितव्यवहारातु गुणज्ञानस्य भ्रमपदशक्यस्याभिमतत्वात् । शुक्तौ इदं रजतमिति व्यवहारोहि न यथावस्थितःसामानाधिकरण्याभावादिति ।। यद्वा - उद्गीथः आदित्य इति ज्ञानमाहार्यम्वह्न्यभावविशिष्टहृदांशे अनुभवरूपं वह्न्यंशे स्मरणरूपं निर्बह्निःहृदो बहिमान् इत्याकारकाहार्यज्ञानस्यापि सिद्धान्तसिद्धत्वात्आहार्यत्वं च स्वनिरूपितत्व स्वावच्छेदक (स्य) विरोधितावच्छेदकधर्मावच्छिन्नत्वोभयसंबन्धेन विशेष्यता विशिष्ट प्रकारताशालिज्ञानत्वम्अत एव भाष्ये प्रतीकोपासनं हिनाम अब्रह्मणि ब्रह्म दृष्ट्योऽनुसन्धानमित्युक्तम्अत्र हि ब्रह्मत्वा भाववन्नामपदवाच्ये ब्रह्मत्व प्रकारकज्ञानंप्रतीकोपासनमित्युक्तमिति विज्ञायतेअतोऽब्रह्मत्व वन्नामपदवाच्यं ब्रह्मेति ज्ञानमेव प्रतीकोपासनम्उद्गीथ आदित्य इत्यादावप्येवमेव । एवमाहार्य ज्ञानस्यदृष्टिरूपस्य शास्त्रचोदितत्वे एव फलसाधनत्वमिति नातिप्रसंगोपीति ।। आदित्यादिमत्यधिकरणं समाप्तम्।।