03 प्रतीकाधिकरणम्

(4.01.03) प्रतीकाधिकरणम्एवं ब्रह्मोपासने स्वात्मतयोपासनं कर्तव्यमित्युक्तम् - तर्हिमनो ब्रह्मेत्युपासीत इत्यादि प्रतीकोपासनेपि ब्रह्मोपासनत्वाविशेषात्स्वात्मतयोपासनं कर्तव्यमिति शंक्या संगतिः ।प्रतीकोपासनस्यापिफलजनकत्वमस्तीति सूचनाय “स यो नाम ब्रह्मेत्युपास्ते इत्यनुवादरूपवाक्यमुपात्तम्पूर्वत्रमनसि ब्रह्मदृष्टिः अत्र नाम्नि तद्दृष्टिः ।ब्रह्मोपासनत्वसाम्यादितिततत्रापि ब्रह्मशब्दनिर्देशेन ब्रह्मणःउपास्यत्वावगमादिति भावःननु ब्रह्मोपासनत्वाविशेषेऽपि अर्थबाधान्नात्मत्वेनोपासन संभवःइत्यत्राह - ब्रह्मणश्चेतिप्रतीकस्योपास्यत्वे हि तस्योपासकंप्रत्यात्मत्वाभावेनार्थबाधःस्यात् । तत्तु नास्ति । ब्रह्मोपासनत्वात् । ब्रह्म च जीवस्यात्मभूतमेवेति भावः ।सिद्धान्तमाह - एवमिति । प्रतीकः अवयवः । अंगं प्रतीकोऽवयवइति कोशात् । अथा शंकाबीजं प्रतीकोपासनेषु ब्रह्मणोउपास्यत्वमपास्यति - प्रतिकोपासनेषितिप्रतीकस्योपास्यत्वे ब्रह्मोपासीतेति निर्देशः किमर्थः इत्यत्राह - ब्रह्मत्वितिनननु किमर्थ मेवमङ्गीकार्यमित्यत्र प्रतीकोपासनस्वरूपं विशदयतिप्रतीकोपासनंहीति । अब्रह्मणीत्यनेन प्रतीकस्य विशेष्यत्वं ब्रह्मदृष्ट्येत्यनेनब्रह्मणः विशषेणत्वं च दर्शितम्नन्वस्तु प्रतीकस्यैवोपास्यत्वंअथापि आत्मत्वेनानु सन्धाने किंबाधकमित्यत्राह - तत्रोपास्यस्येति। अर्थबाधादिति भावः । मनस्त्वेनोपास्यंब्रह्म ।तत् अहं त्वेनाप्युपासितुमर्हमिति पूर्वपक्ष्याशयः । मनसएव विशेष्यत्वात् ब्रह्मत्वेनोपास्यं मन एव । तच्च नाऽहं त्वेनोपासनार्हम्मनसः अन्तरात्मत्वा भावेनार्थ बाधः इति सिद्धान्त्याशयः ।। ननुमनसः विशेष्यत्वं ब्रह्मणः विशेषणत्वं चास्तु । प्रकारभूतब्रह्मणःअन्तर्यामित्वस्य स्थितत्वात् तादृशब्रह्मप्रकारकं मनः इत्युपासनेको दोषः इति चेत्? सत्यम् । प्रयोजनाभावेन तस्यविषयत्वास्वीकारात्अन्यथा ब्रह्म सर्व विशेषणानामपि प्रतीकोपासने विषयत्वस्वीकारापादनसंभवात् ।।

उत्तरसूत्रं चोद्यमुखेनोत्थापयति - नन्वत्रापीति । ब्रह्मणः विशेष्यत्वंमनआदीनां दृष्टिविशेषणत्वमिति ब्रह्मोपासनत्वमेव उपासकोऽयं मांमुख्यतयोपास्ते । अतोऽवश्यं फल मद्य मया दानव्यमिति न चेतयते मनःअचेतनत्वात् । मन आदीना मभिमानिदेवता परत्वेपि ब्रह्मापेक्षयाअल्पशक्तित्वादपि न फलप्रदानसमर्थमिति च पूर्वपक्ष्याशयः। सूत्रार्थमाह - मनआदिष्विति।विपर्ययात्=अनुत्कृष्टत्वात् । ननूत्कृष्टेपि अनुत्कृष्टदृष्टिःकुतो न संभवतीत्यत्राह - उत्कृष्टे हीति । नन्वेवं सति मन आदीनामचेतनत्वेनफलप्रदत्वाभावेन कथमुपास्यत्वमिति चेत् मैवं, फल प्रदस्यैवोपास्यत्वमित्यत्रनिर्बन्धाभावात्नहिदर्पणादेः फलप्रदत्व मस्तीति बुध्या प्रातः तदालोकनं क्रियतेअतः फलप्रदत्वाभावेपि फलजनकत्व संभवान्नदोषः । (वस्तुतः मन आदिशब्दानामभिमानि देवतापरत्वेनोपास्यत्वे न बाधकमपि)। अतः प्रतीकस्यदेवताविशेषस्य ब्रह्मावयवत्वेनानुत्कृष्टत्वात् न ब्रह्मणि तद्दृष्टिर्युक्तातथोपासनस्य शास्त्र सिद्धत्वात् शास्त्रस्य भगवच्छासनरूपत्वाचोपासनप्रीतःभगवानेव सर्वत्र शास्त्र सिद्धसर्वोपासनेष्वपि फलप्रदः इति देवतायाःअल्पशक्तित्वेपि न दोषः । फलमत उपपत्तेः इत्यत्रेदं सिद्धम् ।।ननु प्रतीकोपासने धर्मिण इदंत्वेनग्रहणे एव ब्रह्मदृष्ट्या उपासनंकर्तुं शक्यतेविशिष्य धर्मिणो ज्ञातत्वे ब्रह्मत्वप्रकारकत्वं न संभवति । इत्थंचप्रतीकोपासनानां न वैलक्षण्यसिद्धिरिति चेत्मैवम् । विशिष्य धर्मिणोग्रहणेपि इच्छया तथोपासन संभवात् । अत एव हि गरुडमात्मानं ध्यायीतइत्युपासनमिति । नन्वब्रह्मण्यन्यदृष्ट्योपानसनस्यापि फलजनकत्वेसोहमस्मीति स्वरुपैक्यावलम्बनेनापि मोक्षजननाय ब्रह्मोपासनं कर्तुंशक्यमिति चेन्न तथोपासनस्य शास्त्रोक्तत्वे एव फलजनकत्वात् । मनआद्युपासनं तु शास्त्रोक्तम् । अतस्तत् फलजनकम् । अत्रच शास्त्रेणस्वरूपैक्योपासनस्याविधानान्न फलजनकत्वम् । अन्यथा स्वेच्छयापिक्वचिदन्यत्वानुसन्धानस्य फलजनकत्वे आत्मानं सार्वभौमं मन्यमानस्यभिक्षोरपिसार्वभौमपद प्राप्त्यापत्तेःअत एव नहुषस्य स्वस्मिन्निन्द्रत्वभावनया विपरीत प्राप्तिश्च ।तस्मात् शास्त्रविधि बलेनैवान्यस्मिन्नन्यदृष्टिः फलाय प्रभवतीतिजीवैक्यब्रह्मोपासनस्य न फलजनकत्वम् । आपद्यते च विपरीतार्थजनकत्वमिति।। प्रतीकाधिकरणं समाप्तम् ।।