(4.01.02) आत्मत्वोपासनाधिकरणम्एवमसकृदावृत्तस्य परमात्मोपासनस्य मोक्षोपायत्वमुक्तम् ।अथ मोक्षोपायभूत परमात्मोपासन प्रकारो निर्णीयते इति संगतिः ।यद्वा - असकृदावृत्तवेदनस्यैव मोक्षोपायत्वमिति बोधनार्थ प्रवृत्तव्यतिकरोपदेशवाक्यस्थात्मशब्दार्थ प्रदर्शनमुखेन मोक्षसाधनासकृदावृत्तपरोपासनोपास्यंब्रह्मउपासितुरात्मभूतमिति आत्मत्वेनैव पर ब्रह्मोपासनं कर्तव्यमितिनिर्णीयते इति संगतिः ।। संशयमाह - किमुपास्यमिति ।किं ब्रह्म मुमुक्षोःवैयधिकरण्येनोपास्यं, उत सामानाधिकरण्येनेति संशयतात्पर्यम् । किंशरीर शरीरिभाव संबन्ध शून्यत्वेन, जीवं प्रति शरीरित्वेन वा ब्रह्मोपास्यमितिवा संशयाशयःवस्तुतः भिन्नत्वेन, अभिन्नत्वेन वोपास्यमित्येव संशयः ।सिद्धान्तेऽभिन्नत्वंशरीर शरीरिभावसंबन्ध कृतमिति जीवं प्रति शरीरित्वेनैव ब्रह्मोपास्यमितिफलिष्यति ।तत्र भिन्नत्वेनोपास्यमित्यत्र हेतुमाह - उपासितुरिति।अर्थान्तरत्वात्=भिन्नत्वादित्यर्थः । भिन्नत्वमसिद्धमिति शंकांपरिहरति - अर्थान्तरत्वंचेति । नन्वस्तु वस्तुतो भिन्नत्वं, अथाप्युपासनसमयेअभिन्नत्वेनानुसन्धानं किं न भवतीत्यत्राह - यथावस्थितंं चेति। विपक्षेबाधकमाह - अयथोपासनेहीति। वस्तुतो भिन्नेवस्तुनि अभिन्नत्वेनोपास्यमानेतादृशोपासनस्यायथावस्थितत्वेनतज्जन्यफलमप्ययथावस्थितमेव भवेत्यथोपासनमपि फलनिष्पत्तेरावश्यकत्वात् ।अतः एतादृशोपासनस्य संसारित्वप्राप्तिरेव फलं स्यादिति भावः । इदमत्राकूतम् । जीव ब्रह्मणोरत्यन्तभेदःसूत्र कृतैव बहुशः प्रसाधितः । अतोऽभिन्नत्वेनानुसन्धानमयुक्तंसूत्र कृदनभिमतं च । अत एव पृथगात्मानं प्रेरितारंच मत्वाजुष्टस्ततस्तेनामृतत्वमेतीत्यत्रपृयङ्मत्वेनेत्यन्वयात् अमृतत्वसाधनतया पृथक्त्वानुसन्धानं श्रुत्यैवविधीयते =ततः ।प्रीति विषयीकृत परमात्मनः । तेनैव=पृथक्मननेन ।यत्तु सोऽहमस्मीत्याद्युक्तमभिन्नत्वोपासनं तत् ब्रह्म दृष्टिविधिरूपमितिन मोक्षसाधनम् । अत एव हि आत्मत्वोपासनस्याभिन्नत्वोपासनरूपत्वात्दृष्टिविधित्व स्फोरणाय “आत्मेत्यवोपासीत इत्यादौ मनो ब्रह्मेत्युपासीतइत्यादाविव इतिशब्दः प्रयुक्तःअतः अतस्मिन्तदारोपरूपदृष्टेः तात्त्विकविषयकत्वाभावेन मोक्षोपायत्वाभावात्पृथक्त्वानुसन्धास्य मोक्षोपायत्वोक्तेश्च ब्रह्म भिन्नत्वेनैवानुसन्धेयमितियद्यपि जीव ब्रह्मणोः सूत्रकृता परस्परभेदप्रतिपादनवत् तयोः शरीरशरीरिभावस्यशरीरवाचक शब्दस्य शरीरिपर्यन्ताभिधानस्य च प्रतिपादितत्वात् तात्त्विकमेवसोऽहमित्युपासनं मोक्षोपायो भवितुमर्हति । अथापि तादृशोपासनस्यक्वचित् इति शब्देन ब्रह्मदृष्टि रूपत्वप्रतीतेः न मोक्षोपायत्वमित्याशयेनपूर्वपक्षोत्थानम्भिन्नत्वोपासनस्य दृष्टिरूपत्वंतु न क्वचिदप्यवगतमिति तदेव मोक्षसाधनमित्यभिप्रायःअअपि च त्वं वा अहमस्मी अहं यै त्वमसि इति ह्यनुसन्धानाभिलापकशब्दःएवमनुसन्धाने कदाचित् जीवपरयोःशरीरात्मभावज्ञानवतामपि तयोः अभेदज्ञानंआपतेत् । सुदृढशेषत्व ज्ञानवतोपि परमेश्वरस्य परमात्मना विवाददर्शनात्अअन सूयादिषु स्वपातिव्रत्य प्रकटितवत्या अपि सीतायाः स्त्रियंपुरुषविग्रहमिति निन्दा वचनं उदभूत् ।शेषत्व मेव हि शरीरत्वम् ।अतः शेष त्वज्ञानं विवेकिनामपि प्रतिरुध्येत । शरीरात्म विवेकवतामपिहि स्थूलो ऽहमित्यनुसन्धानसमये कदाचित् अन्यथा प्रतिपन्तिर्भवति।। इति पूर्व पक्षिणोऽभिप्रायः ।।सिद्धान्तमाह - एवमिति ।आत्मेत्येवेति । आत्मत्वेनैवेत्यर्थः । नन्वयथाभूतमिदमुपासनं,जीव ब्रह्मणोरभिन्नत्वाभावात् इत्यत्र तात्पर्यमाह - उपासितेति ।परं ब्रह्मेत्यनन्तरं अतः इति पूरणीयम्।ब्रह्माहमिति - सामानाधिकरण्येनोपासनंहि मोक्षसाधनमि त्युच्यते । तत्रात्मत्वपर्यवसितमभिन्नत्वं विषयःजजीवं प्रति ब्रह्मणः आत्मत्वं च शरीरित्वरूपम् । इदं च न बाधितम्स्वरूपैक्यमेव हि बाधितमिति भावः । आत्मानमुपासीत इत्यस्य, आत्मेत्येवोपासीतइत्यस्य च महद्वैलक्षण्यमस्ति । पूर्वत्र वस्तुतः आत्मायः तमुपासीतइत्यर्थोपि स्यात्तदा उपासने आत्मत्वरूपस्य प्रकारतया भानं न सिध्येत् । एतत्सूचनायैवइति शब्द प्रयोगः । इति बोध्यम् । एवमेवोपासनं सांप्रदायिकमित्याहएवं हीति । उपगच्छन्ति=उपासत इत्यर्थः । गत्यर्थानां बुध्यर्थत्वात्त्वं वा अहमस्मि=अहंबुद्धिशब्दौ त्वत्पर्यवसायिनौ । अहंवैत्वमसि=अहंशब्दबुद्धिपर्यवसान भूमिस्त्वमित्यर्थः । उभयत्रास्म्यसीति शब्दप्रयोगःअहंत्वंशब्दयोगात् ।यद्यपि अहंशब्द प्रयोगवत् त्वंशब्दप्रयोगः त्वंशब्दप्रयोगवदहंशब्दप्रयोगश्चास्तिअथापि अहं शब्दार्थतात्पर्येण त्वंशब्दार्थतात्पर्येण चोत्तममध्यसपुरुषौउभयत्र फलितार्थश्च उपासकजीव शरीरिभूतस्त्वमिति । ननु - त्वमहं,अहंत्वमितिसामानधिकरण्यबलेनैवोक्तार्थ लाभसंभवे अस्मि असीति शब्द प्रयोगःकिमर्थ इति चेत् शृणु - अस धातुर्हि सत्तावाची सत्त्वंच प्रमाविषयत्वं,अतःउक्तसामानाधिकरण्यलब्धं तादात्म्यं तात्त्विकमिति बोधनाय तद्धातुप्रयोगइति । उदाहृत श्रूतीनां विवक्षितमुपयुक्तमर्थमाह - सर्वस्येति। अत्रकार्यकारणभावोक्त्या जगद्ब्रह्मणोस्समानाधिकण्यमुक्तं, शरीरशरीरिभावोक्त्याशुद्धजीव स्वरूपसामानाधिकरण्य मुक्तमिति ध्येयम् । इत्थंच जीव ब्रह्मणोश्शरीरात्मभावस्यश्रुतिसिद्धत्वेन सामानाधिकरण्यस्योपपन्नत्वात् सोहमित्युपासनं युक्तमित्युपसंहरति - अतइतियुक्तमितीति । इति शब्दस्समाप्तिवचनः । त्वं वा अहमस्मीति व्यतिकरेणमहतामनुसन्धानमपि उदाहृत श्रुत्यर्थापत्तिमूलकमेवेति - दर्शयति - एवंशास्त्रैरिति। अथ स्वमते पृथक्त्वानुसन्धान निषेधः उक्तः । आत्मेत्येवोपासीतइति आत्मत्वेनैवोपासनस्य विहितत्वात् अनात्मत्वानुसन्धाननिषेधस्यावधारणसिद्धत्वाच्च निषिद्धमन्यत्वानुसन्धानं अनात्मत्वानु सन्धानरूपमितिभावः । परादात्=निन्द्यात् । योऽन्यत्रेति । अब्रह्मात्मकं वस्तुयोवेदेत्यर्थः । अथाविरुद्धत्वं विवृणोति - अहमितीति। अथात्मत्वेनोपासनस्यकर्तव्यत्वबोधकवाक्यस्थं अत्स्तो ह्येषः इतीदं स्वोपयुक्तं व्याचष्टे - अधिकस्येतिअवधारण श्रवणात् अस्य निषेधवाक्यत्वमिति भावः । अत्स् नः=अपरिपूर्णःएषः=जीवः इत्यर्थः ।स्वशरीरजीवविशिष्टत्वे एव परिपूर्तिः विशिष्टप्रकारिणएव उपास्यत्वात् । यथाऽत्र प्रकारमात्रोपासने अपरिपूर्तिः तथाकेवल प्रकरिणः उपासनेपि । नन्वस्तूक्तोपपत्तिबलात् आत्मत्वोपासनस्यकर्तव्यता अथापीतिशब्दश्रवणेनास्य दृष्टिविधित्वं स्यादिति चेन्न,दृष्टिविधिर्हि अतस्मिन् तदारोपेणानुसन्धानम् । अत्रच न तथानुसन्धानम्ब्रह्मणोजीव शरीरित्वस्य प्रामाणिकत्वेनारोपासंभवात् । अतः उक्तसामानाधिकरण्यस्यप्रामाणिकत्वात् अनुपपत्त्यभावाच्च न दृष्टिविधित्वशंकनं युक्तंअत एव ह्येवमुपासनस्य मोक्षरूपं फलमपि श्रूयते । अतः पृथक्त्वानुसन्धानरूपास्मदुक्तेकत्वानुसन्धानस्यच परस्पराविरुद्धत्वात् तथैव शास्त्रत्रेणविहितत्वात् पूर्वैरनुष्ठितत्वाच्चनात्मत्वेनोपासने बाधकं किंचित् । इति शब्दः श्रूयतां ना मावा ।अथापि यत्रार्थस्याप्रामाणिकत्वं तत्रैव दृष्टिविधित्वम् । अत एवहि तमुद्गीथमुपासीत इत्यत्र इति शब्दाश्रवणेपि दृष्टिविधित्वमाश्रीयतेअत एव च प्रतीकाधिकरणे मनो ब्रह्मेत्युपासीत इत्यत्रेति शब्दश्रवणेपि ब्रह्मोपासनत्व साम्य मुपजीव्य अर्थाबाधितत्व प्रयुक्तंआत्मत्वेनैवोपासनस्य कर्तव्यत्व शंकनं क्रियतेनिगमयतिअतइति । इदमत्र तात्पर्यं आत्मेत्येवोपासीत इत्यत्रेतिशब्द श्रवणेऽपि त्वं वा अहमस्मीत्यादौ नेति शब्दः श्रूयते? नात्रापिदृष्टिविधित्वशंकनं युक्तम् । अहं वैत्वमसीत्यत्र दृष्टिविधित्वशंका संभवेपि त्वं वा अहमस्मीत्यत्र तदसंभवात् । निकृष्टे उत्कृष्टस्यदृष्टिविधिः संभवति ।न तु विपर्ययेण । अतो उत्कृष्टे ब्रह्मणि निकृष्टजीवदृष्टिविधिर्न युक्ता । आत्मेत्येव इत्यत्रेति शब्दस्तु अन्तर्यामित्वेन(आत्मत्वेन) उपासनप्रकारबोधनार्थः । अहं ब्रह्मस्मीत्यनुसन्धानेस्थूलोऽहं मनुष्योऽहं इत्यादाविव ऐक्यशंकाभ्रमोपि न प्रसजतिशरीरात्मभावस्य दृढप्रमाणसिद्धत्वात् । नहि शरीररान्मविवेकवतांस्थूलो ऽहमित्यादौ ऐक्यभ्रमो भवति । यस्यतु भ्रमः न सह दृढप्रमाणसिद्धंभेदं नावगतवानित्येव वक्तव्यम् । मदन्तर्यामी ब्रह्म इति कुतोनोपादत्तेइति चेत् । तथा प्रमाणविधाना भावात् । आत्मनां ब्रह्मप्रकारतैकस्वभावत्वात् तद्दार्ढ्यार्थं तथोपासनात् ।तदैव सार्वकालिकशेषत्वानुसन्धानशेष्यतिशयाधानादिस्वस्मिन् प्रतिष्ठितं भवति ।। वस्तुतः ध्यानकाले तथाशब्दप्रयोगोपि नास्ति ।अतो नैक्यभ्रमस्य सर्वथाऽवकाशः ।। आत्मत्वोपासनाधिकरणं समाप्तम् ।।