01 आवृत्त्यधिकरणम्

(4.01.01) आवृत्त्यधिकरणम्वृत्तमनुकीर्तयन् अध्यायसंगतिं प्रदर्शयति - तृतीय इत्यादिना । तृतीयाध्यायप्राथमिकपादद्वयेन परमात्मनि यो रक्तो विरक्तोऽपरमात्मनीत्युक्तनयेनप्रथममुपासनोपयोगि बाह्यविषय वैतृष्प्य प्राप्य भगवत्तृणयोर्जननायसंसरतो जीवस्य विषयदोष प्रदर्शनं भगवतो निर्दोषत्व कल्याण गुणाकरत्वप्रदर्शनं च कृतम् । तृतीयपादेन विद्याभेदा भेदचिन्तनद्वारा भक्तियोगानुष्ठानप्रकारोनिरूपितः । चतुर्थपादेन भक्तियोग विवृद्धि विरोधि रजस्तमोमूलक वृजिननिराकरणायस्वस्वाश्रमानुगुणानभिसंहितफल भगवत्समाराधनरूप नित्यनैमित्तिक कर्मणांविद्यासहकारित्वं प्रदर्शितम् ।ततश्च तृतीयाध्यायः सांङ्गविद्याप्रतिपादनपरःइति भावः । वर्तिष्यमाणमाह - अर्थेति।एवमुत्पत्तिक्रमानुसारेण साधन भूतविद्याचिन्तनं कृत्वा ब्रह्मप्राप्तिरूपतत्फलचिन्तनमत्र क्रियते । अतोऽयं फलाध्यायः । अत्र च प्रथमद्वितीयेन स्थूलदेहात् अनुत्क्रान्तस्य विदुषः यत्फलं तत्प्रतिपाद्यते । तृतीयचतुर्थपादेनचस्थूल देहादुत्क्रान्तस्य यत्फलं तत्प्रतिपाद्यते ।विद्यास्वरूपविशोधनपूर्वकमिति। यद्यपि फलाध्यायेऽस्मिन् साधनभूतविद्याचिन्तन मनुपपन्नंवक्तव्यशेषस्य सत्वेपि तृतीयाध्याये एव वक्तुमुचितत्वात् अथापिनान्यः पन्था अयनाय विद्यते इत्युक्तरीत्या मोक्षरूपफलस्य विद्येतरोपायेनासिद्धिप्रदर्शनार्थंब्रह्मोपासनस्य मोक्षाविनाभावाभिव्यक्त्यर्थं तमेवं विद्वानमृतइहभवतीति भगवज्ज्ञानानन्तरमविलम्बेन मुक्तावस्थातुल्यावस्थाप्राप्तिज्ञापनार्थं स्वर्गादि साधन दुःखात्मकयागादिविलक्षण भक्तिरूपापन्नभगवज्ज्ञानरूप मोक्षसाधनोपासनस्य प्रीतिरूपतया फलकोटिनिवेश सूचनार्थंच साधनविचारप्रसंगः फल प्रधानाध्यायेकृतः इति न दोषःपूर्वाधिकरणे निवृत्त्याख्यधर्मैः स्वस्वाश्रमोचितैः ब्रह्मविदपचाराभावेब्रह्मविद्योत्पद्यते इति विद्योत्पत्तिसमयो निरूपितः । अथ साधनाध्यायेनिरूपितस्य मोक्षोपायभूत ब्रह्मोपासनस्य स्मृतिरूपत्वासकृदावृत्तत्वयावज्जीवानुवृत्त्यत्वादीनां प्रतिपादनेन ब्रह्मविद्यास्वरूपं चिन्त्यतेइति संगतिः । तत्र विषयादिकं प्रदर्शयति - तत्रेति ।यदापश्यः इतितदा विद्वान्नामरूपेविहाय निरञ्जनःपरमं साम्यमुपैतीत्यन्तं विवक्षितम्प्रमाणाभावादिति । अयमाशयः - उक्तस्थले केवलं ब्रह्मवेदनं मोक्षोपायःइत्युक्तम्तस्यावृत्तत्वं तु नोक्तंअतोऽनावृत्तमेव वेदनं मोक्षोपायः इत्यङ्गीकार्यम् । नचानावृत्तत्वमपिनोक्तमेवेति शंक्यं, तस्यानुक्तत्वेपि सकृत्वे सौकर्यसत्वेन अर्थसिद्धत्वात्नह्यनिषिद्धं लघुपक्षंविहाय गुरुपक्षः प्रामाणिकैराद्रियते ।सकृत् कृतः शास्त्रार्थः इति हि तन्त्रमर्यादा । अतो विधिचारितार्थ्यस्यसकृत्वेपि संभवात् नासकृदावृत्तत्वसिद्धिः । नच घ्रुवा स्मृतिःस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इत्यादौ ब्रह्मोपासनस्यध्रुवत्वोक्तेः आवृत्तत्वसिद्धिरिति शंक्यम् । ज्ञानान्तरेणाबाधितत्वरूपध्रुवत्वस्यैव तत्रोक्तेः । अतश्चिरकालानुवृत्तत्वा सिध्यानावृत्तत्वसिद्धिरितिननुदृष्टोपायावधातस्यावृत्तिदर्शनात् अत्रापि वेदनस्य दृष्टोपायत्वादावृत्तिरर्थसिद्धेत्याशंक्य परिहरति - नचेति ।यावत्कार्यमावृत्तिरिति । नह्यनावृत्तेनावहननेनतुषविमोकरूपकार्यसिद्धिः अतस्तत्कार्यसिध्यर्थं अवघातस्यावृत्तिकरणमर्थसिद्धम्तद्वदेवानावृत्तेन ब्रह्मवेदनेन ब्रह्मापरोक्ष्यरूपकार्यासिध्यातत्सिध्यर्थावृत्तिकरणमर्थ सिद्धमिति शंकाभिप्रायः । कुतो न वक्तुंशक्यमित्यत्राह - वेदनस्येति । श्रवणमननविदिध्यासनानां वाक्यार्थज्ञानोपयोगित्वंवदतामद्वैतिनां मते असकृदावृत्तस्य ध्यानरूपस्य वेदनस्य ब्रह्मापरोक्ष्यरूपदृष्टप्रयोजनंप्रति हेतुत्वेनावृत्तेरर्थ सिद्धत्वेपि ब्रह्मवेदनस्यादृष्टविधयोपायत्वंस्वीकुर्वतां भवतांमते नावघातदेरिवावृत्तिरर्थ सिद्धेति वक्तुंशक्यते इति भावःनन्वेतदनुपपत्तिपरिहाराय दृष्टोपायत्वमेवेष्यते इत्यत्र स्वसिद्धान्तविरोधः इति मन्वानः सिद्धान्तसिद्धादृष्टोपायत्वं प्रागुक्तं स्मारयति - ज्योतिष्टोमादीतिपूर्वतन्त्रप्रतिपादितज्योतिष्टोमादि कर्मणामेवादृष्टोपायत्वंस्वीकुर्वतां भवतां वेदान्तविहित ब्रह्म वेदनस्या दृष्टोपायत्वेका कथेति भावः । पूर्वपक्षमुपसंहरति - अत इति । सकृद्वैदनस्यैव मोक्षफलकत्वात्तस्योपासनस्य कर्मसहकारिकत्वं मिष्यते यथा दर्शादिकं प्रति प्रयाजादेःववेदनोत्पत्त्यनन्तरं कर्मणः नावश्यकता । अतः कर्मणां विद्याजनकत्वमित्याशयःराद्धान्तमाह - इति प्राप्त इति । असकृदावृत्तमेव वेदनं शास्त्रार्थःइति तात्पर्यकथनम् । यद्यपि वेदान्तविहितं मोक्षसाधन मसकृदावृत्तमेव,ध्यायीतेतिध्यानस्यैव मोक्षोपायत्वोपदेशादिति वक्तुं शक्यं, अथापि केवलवेदनस्यमोक्षोपायत्व बोधकवचनानां ध्यानोपासन वेदनादीनां पर्यायत्वमन्तरानिर्वाहासंभवः इति मत्त्वा उपेदेशादिति खण्डम्यापेक्षितमर्थमाह - ध्यानोपासनेतिवेदनशब्दस्य ध्योनोपासनपर्यायत्वमेवोपपादयति - तत्पर्यायत्वं चेतिममनो ब्रह्मेतीति । प्रतीकोपासने सिद्धं वेदनोपासनयोः पर्यायत्वंब्रह्मविद्यायामपि समानमित्याशयःकीर्त्या=परत्वविषयप्रथया यशसा=सौलभ्य प्रथयाच भाति । ब्रह्मवर्चसेनतपतीत्यन्वयः । यद्वा वितरणजन्यत्व पराक्रमजन्यत्वाभ्यां कीतियशसोर्भेदःयस्तदिति । यो रैक्वः तत् ब्रह्म वेद । स रैक्वः यत् ब्रह्म वेदःसः वेदिता रैक्वः वेद्यं ब्रह्म चेत्युभयं मयोक्तमित्यर्थः ।सःइति पुल्लिंगनिर्देशः रैक्वाभिप्रायेण । यद्वा छान्दसः । एतच्छ्रुतेरपशूद्राधिकरणेउक्तमर्थान्तरमप्यनुसन्धेयम्।। अनु म इति । अनुशाधीत्यन्वयः मृत्युमत्येतीत्यत्रेव व्यवहिताश्चेतिसूत्रादेवंनिर्देशः ।उक्तस्थलेपु उपक्रमोक्तोपासन वेदनयोः उत्तरत्रवेदनोपासनाभ्यामनुवादात् पर्यायत्वमिति भावःएवं विद्युपास्योः पर्यायत्वं प्रदर्श्य ध्यानवेदनयोः पर्यायत्वंप्रदर्शयति - तथेति । यद्यप्युक्तस्थले वेदनोपासनयोः उपक्रमोपसंहाराभ्यांपर्यायत्वसिद्धिरिव ब्रह्म विदाप्नोतीत्यादौ पर्यायत्वसिद्धिर्नसंभवति प्रदेशभेदेनोपक्रमोप संहाराभावात् अथापि समानार्थकत्वबलेनतत्सिद्धिरिति सूचनाय इत्यादिवाक्य समानार्थेषु वाक्येष्वित्युक्तम्निदिध्यासितव्यःध्यायमान इत्युभयोपादानं निदिध्यासितव्य इत्यत्रसन्प्रत्ययस्येष्यमाण ज्ञानप्रधानत्व सूचनाय । ध्यायमानः इत्युक्तेःनन्वस्तु ध्यानोपासन वेदनानां पर्यायत्वं अथापि न वेदनस्यासकृदावृत्तत्वसिद्धिःस्मृतिरूपध्यानोपासनवत् वेदनस्यापि स्मृतिमात्रत्व सिद्धेरित्यत्राह - ध्यानंचेतिध्यै चिन्तायामिति हि घातुरिति भावः । एकस्मृति सत्वे चिन्तयतीतिप्रयोगस्त्वनु भवविरुद्ध इति चिन्तनंस्मृतिसन्ततिरूपमेवेति भावःवेदनस्यासकृदावृत्तत्वं विच्छेदेप्युपपन्नमित्यत उक्तं एकाग्रेनिनैरन्तर्यं=विच्छेदाभावः ।अथ वेदनस्यासकृदावृत्त स्मृति सन्ततिरूपत्वंनिगमयतितदुभयेति । वेदनशब्दोक्तन्यायः ज्ञानशब्देपि समान इति सूचनाय ज्ञात्वादेवमित्युपात्तम् ।अयमत्राभिसन्धिः=वेदनशब्दस्य ध्यानोपासनपर्यायत्वंछागपशुन्यायेन एकार्थपर्यवसायित्वरूपमेव। घटकलशयोरिव नत्वेकार्थवाचकत्वरूपंसामान्यविशेषशब्दत्वात् । ततश्चसामान्यशब्दस्य साकां क्षस्य विशेषोपस्थापकप्रमाणे सति विशेषपर्यवसानं हि शास्त्र संमतंअतो ब्रह्मविदाप्नोति परमिति मोक्षसाधनतया सामान्यतया विहितं वेदनंकिंरूपमित्यपेक्षायां ध्यानादिविशेषवाचक प्रमाणेनासकृदावृत्तस्मृतिसन्ततिरूपमित्यवग गम्यते । अत एव हि औचित्यात् प्रकरणबलाच्च आग्नेयंचतुर्धाकरोति पुरोडाशं चतुर्धा करोतीत्यादौ पुरोडाशशब्दः प्रकृताग्नेयपुरोडाशपरःइति निर्णीयते । तस्मात् वेदनशब्दोपि ध्यानपर्यवसायी । मोक्षोपायेध्याने उपासनरूपत्वोक्तिः उत्कृष्टविषयक भक्तिरूपत्वद्योतनाय ।कामिनीचिन्तनमहि ति ध्यानशब्देनोच्यते । उपासन शब्दस्तु न तत्रप्रयुज्यते । अत एव च भक्या त्वनन्यया शक्यः इत्यादौस्मृत्या भक्तेर्मोक्षोपायत्वंप्रतिपाद्यतेघ्रुवा स्मृतिः स्मृतिलंभे सर्वग्रन्थीनां विप्रमोक्षः इत्युक्तघ्रुवानुस्मृतिरपि इयमेव । तस्मात् वेदनध्यानोपासन ध्रुवानुस्मृतिदर्शनादि शब्दानां भक्तिरूपैकार्थे विश्रान्त्या स एवार्थः मोक्षसाधनतयावेदान्तवाक्येषु विधीयते इति । यद्यपि द्रष्टव्य श्रोतव्यो मन्तव्योनिदिध्यासितव्य इति श्रवणाद्यर्थ चतुष्टये विधिः श्रूयते । अथापिश्रवणमननयोः स्वयं प्राप्तत्वेन नविधेयत्वं अप्राप्तत्वात् ध्यानमेकमेवविधीयते । द्रष्टव्य इतीदमपि विधेयस्य ध्यानस्य दर्शनसमानकारत्वमेवदर्शयति । नतु ध्यानादन्यस्य कस्यचित् दर्शनशब्दवाच्यस्य मोक्षोपायत्वंविदधातिननु ध्रुवा स्मृतिरित्यादिना ध्यानपर्याय ध्रुवानुस्मृते र्मोक्षोपायत्वमुक्तम्भिद्यते हृदयग्रन्थिरित्यादिना दर्शनस्य च मोक्षोपायत्वं कण्ठोक्तम्अतो निरपेक्षं तयोर्मोक्षोपायत्वं वक्तव्यमिति चेत् मैवम् किमनयोःसमुच्चयेनमोक्षोपायत्वमभिमतं उत विकल्पेन । नाद्यः । पृथगेव मोक्षोपायतयाविहितत्वेन निरपेक्षत्वप्रतीतेस्समुच्चयासंभवात् ।न द्वितीयः गुरुलघुविकल्पानुपपत्तेः । अतो स्मरणस्य दर्शनेपर्यवासनं कृत्वा द्वयोरप्येकत्वेनमोक्षोपायत्वमेव वक्तव्यमिति न विरोधः ।। द्रष्ठव्यो निदिध्यासितव्यइति प्रत्यक्षवाचकदृष्टि शब्दस्य दर्शनसमानाकारत्वार्थकत्वेलक्षणास्यादिति चेत् इष्टापत्तेःनहि “न चक्षुषा गृह्यते इति चक्षुर्जन्यज्ञानाविषये ब्रह्मणि द्रष्टव्यशब्दप्रयोगो मुख्यवृत्तः उपपद्यते । सर्वमतेपि ब्रह्मणि दृष्टव्यपदप्रयोगोऽमुख्यवृत्तएवेति नास्माकमात्रमिदं अधिकं दूषणम् । परंतु विहितस्य ध्यानस्यदर्शनसमानकारत्व बोधनं बहूपपत्तियुक्तमित्यस्मन्मते विशेषः । ननुध्रुवानुस्मृतौदर्शनत्वोपचारापेक्षयादर्शनेध्रुवानुस्मृतित्वोपचार एव किं न स्यादिति चेत् मैवं तथोपचारासंभवात्अअन्यथा राजनि भृत्यत्वाभिधानवदपचारप्रसंगात् । स्मरणेहि अतिशयविवक्षयादर्शन शब्दोपचारो युज्यते । दर्शने स्मरणशब्दोपाचारस्तु न कथञ्चिदपिनच द्रष्टव्य इत्युक्तं दर्शन ब्रह्मसाक्षात्कारलक्षणं फलरूपमेवकिं न स्यादिति वाच्यम् । तथा सति विधिश्रवणानुपपत्तेः । विशिष्टविधिप्रतिपादनमुखेनसार्थक्योपपत्तौ श्रोतव्यो मन्तव्यः इत्यादाविव नैरर्थक्यकल्पनस्यानुपपत्तेश्चयत्तु वेदनध्यान ध्रुवानुस्मृति दर्शनभक्तीनां मोक्षोपायत्व श्रवणेनवेदनात् ध्यानंध्यानात् ध्रुवानु स्मृतिः, ध्रुवानुस्मृतेर्दर्शनं,दर्शनात् भक्तिरिति द्वारद्वारिभावकल्पनमेवोचितमिति मतं तन्न पेशलम्ससामान्यविशेषन्यायेन विश्रान्तिसिद्धौ तथाकल्पनस्यानुचितत्वात्नहि विशेषविश्रान्त्यां संभवन्त्यां तत्परित्यागेन सामाभ्यविशेषाणांद्वारद्वारिभावकल्पनं प्रामाणिकाः बहु मन्वतेउक्तानां विकल्पाभ्युपगमस्तु गुरुलघुविकल्पानु पपत्त्या पूर्वमेवनिरस्तः । सामान्यविशेषयोर्विकल्पस्य शास्त्रविरुद्धत्वाच्च । नहि पशुछागयोर्विकल्पः इति शास्त्रमर्यादा । अतो यथोक्तोपपादनमेवशोभनम् ।।

उत्तरसूत्रार्थमाह - लिंगमिति। स्मृतेः श्रुत्यनुमापकत्वेन लिंगशब्दवाच्यत्वमितिभावः । अवगम्यत इत्यन्तेन सूत्रार्थः उक्तः । अथै तदर्थे स्मृतिंप्रदर्शयन् उपसंहरति - स्मर्यते इति । हि=य स्मात् “निष्पाद्यते तथाइति मोक्षसाधनभूतं वेदनं स्मृतिमन्ततिरूपमिति स्मर्यते । तस्मादसकृदावृत्तमेववेदनं शास्त्रार्थः इत्यन्वयः । तद्रूपं=भगवतो दिव्यमङ्गलविग्रहःएका सन्ततिः=धारावाहिकीसन्ततिरित्यर्थः । अन्यनिस्पृहत्वं विजातीयप्रत्ययासंवलितत्वम् । षड्भिरेगैः=यमनियमासन प्राणायाम प्रत्याहारधारणारूपैः अंगैरित्यर्थः ।तस्मादित्यादिस्मृतिसन्तानरूपध्यानत्मकंवेदनस्य आवृत्तिमन्तरेण ध्यानरूपत्वानुपपत्तेरितिभावः ।यद्यपि समाधिरूप एवाङ्गी भक्तिरूपोपायस्थाने निविप्तः । अथापिध्यानस्यैव दर्शन समानाकारत्वे समाधिरूपत्वं मित्यभि प्रायादेवंध्यानस्यांगनिष्पाद्यत्वंस्मृतिसन्ततिरूपत्वं च प्रदर्शितमिति दिक् । पूर्वत्र उपदेशः हेतुः अत्र तदुपबृंहणभूता स्मृतिर्हेतुः ।एवं श्रुत्यर्थोपब्रंह्मण प्रर्दर्शनात् श्रुत्यर्थरूपाविचाल्यत्वं दर्शितं भवति । यद्यपि पूर्वतन्त्रसिद्ध सामान्यविशेषन्यायेनैवस्मृतेरावृत्तत्व सिद्धिसंभवः अथापि स्मृत्यादिशब्दानांसामान्यविशेषरूपत्वस्थापनार्थमधिकारणारंभः इति ध्येयम् ।।आवृत्त्यधिकरणं समाप्तम् ।।