(3.04.014) ऐहिकाधिकरणम्अथ संगतिं प्रदर्शयति - द्विविधेति । विद्याः ब्रह्मविद्याचतुर्विधा भजन्ते मामित्यादिना ब्रह्मविद्यायाअपिअम्युदयफलत्वोक्तेःवक्ष्यते चायमर्थः । एतावता ब्रह्मविद्यांगं निरूपितम् । अथाङ्गिभूतब्रह्मविद्योत्पत्तिसमयो निरुप्यते ।तत्रापि मोक्षेतरफलजनकब्रह्मविद्योत्पत्तिसमयोऽस्मिन्नधिकरणे चिन्त्यते इति संगतिः । पूर्वपक्षमाह - पूर्वकृतैरितिअयमाशयः - ऐहिकफलकानामुपासनानां स्वोत्पादकसुकृतैः तत्क्षणादेवोत्पत्तिस्स्यात्विलम्बहेत्वभावात् । नच स्वर्गादिवत् कर्मफलत्वेन विद्योत्पत्तिरपिकालान्तरे एवेति वक्तुं शक्यम्दृष्टान्तवैषम्यात् । स्वर्गादिकं हि देहान्तरानुभाव्यफलम् । अतोनास्मिन्देहेतदुत्पत्ति संभवः । विद्यायास्तु कर्मभिः हृदयशुध्यादिमुखेनास्मिन्नेवदेहे संभवःइति न कालान्तर प्रतीक्षणमावश्यकम् । अतो स्नातस्य पुरुषस्यतदानीमेव प्रयतत्वोत्पत्तिवत् पुण्यकर्मानुष्ठानानन्तरं तदानीमेवनियमेन विद्योत्पत्तिर्युक्ता कारीर्यादिवत् इति । अथ ब्रह्मविद्यायाःऐहिकफलसाधकत्वे प्रमाणं प्रदर्शयन् पूर्वपक्षमुपसंहरति - यथोक्तमितिराद्धान्तमाह - इति प्राप्त इति । ऐहिकशब्दः ऐहिकफलसाधनोपासनपरः ।अप्रस्तुतप्रतिबन्धे इति व्याख्येय् । प्रबलकर्मान्ताप्रतिबन्धेसतीति व्याख्यानम् । कर्मणि प्राबल्योक्त्या सगुणविरचितेऽपि उपासनसाधनकर्मणिप्रतिबन्धार्हकर्मभिः विघ्नः स्यादिति सूचितम् । अनन्तरं=पुण्यकर्मानन्तरमेवेत्यर्थःसूत्रे अप्रस्तुत प्रतिबन्धे इति प्रबलकर्मभिः प्रतिबन्धाभावे अनन्तरमेवोत्पत्तिरित्युक्त्यासति प्रतिबन्धे उत्तरकालमेवेत्यर्थसिद्धमित्याशायेनाह - प्रतिबन्धेसतीति । तथा चोक्तोपासननिष्पत्तिः कदाचित् तदानीमेव स्यात् । कादाचित्कालान्तरे इत्यनियमः इति भावःफलाप्रतिबन्धश्रवणादिति । उक्तोद्गीथविद्यायुक्ततया क्रियमाणकर्मणःफलप्रतिबन्धाभावरूप वीर्यवत्तरत्वोक्तेः प्रबलकर्मान्तरप्रतिबन्धस्यानुज्ञातत्वसिध्याप्रतिबन्धसंभावनासंभवादिति भावः ।। तस्मादैहिकफलसाधनविद्यानिष्पादककर्मणांन कारीर्यभिचारादिवत् नियतैहिकत्वम् ।किंतु पश्वादिफलकचित्रेष्ट्यादिवत्तज्जन्मनि विद्योद्देशेनाविहितत्वात् नियतैहिकत्वाभावेन तज्जन्मनिजन्मातरे वा विद्यारूप फलसाधकत्वमिति बोध्यम् । ननु स्वर्गादिजनकयागस्यफलजनने प्रतिबन्ध संभावनावत् वीर्यवत्तरत्वरूपफलजनकोद्गीथविद्यायाअपिफलजनने प्रतिबन्ध संभवात् उद्गीथोपासन सहितकर्मणोपि विलम्बाविलम्बौस्याताम् । क्रियमाणस्य कर्मणः विद्यायाः वा झटिति फलजनकत्वनियमाभावात् इतिचेत् । प्रविबन्धनिवर्तककर्मणोपि प्रतिबन्धसंभवे किंकुर्मः । तदनन्तरमेवेतिस्वीकर्तव्यम्यद्वा एतादशकर्मणां स्वपर निवाहकत्वाभ्युपगमेन स्वस्वजन्य फलप्रतिबन्धकत्वमिष्यतेययथा च स्वरवर्ण विधिविपर्यास न्यूनतातिरेकप्रायश्चित्तार्थं कृतस्यकर्मणः स्वपरनिर्वाहकत्वम् ।। ऐहिकाधिकरणं समाप्तम् ।।
(3.04.015) मुक्तिफलाधिकरणम्एवमैहिकफलकोपासनस्योत्पत्तिसमयो निरूपितः । अथमुक्तिफलकोपासनस्याप्युत्पत्तिसमयो निरुप्यते इति संगतिः । यद्वा - ऐहिकफलकविद्यास्वुक्तःउत्पत्तिकाल नियमः ब्रह्मप्राप्ति फलकविद्यास्वप्यति दिश्यते इत्यातिदेशिकीसंगतिः। सूत्रार्थमाह - मुक्ति फलस्योप्युपासनस्येति। अनेन सूत्रस्थमुक्तिफलशब्दो बहुव्रीहिरिति दर्शितम् ।मुक्तिफलोपासनस्य साधनभूतकर्मणामतिशयितत्वमप्रयोजकमितिसूचनाय अधिकाशंकाभिव्यक्यैच अतिशयितकर्मभिरित्युक्तम्तदवस्थावधृतेरिति ।तस्यापीति।मुक्तिफलकोपासनस्यापीत्यर्थः । प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपाच या - अवस्था तदवगतेरित्यर्थःप्रतिबन्धाभावः प्रतिबन्धात्यन्ताभावः। अनेन प्रतिबन्धकाभावे साधनकर्मानन्तरमेवोत्पत्तिरित्युक्तम्प्रतिबन्धसमाप्तीत्यनेन यावत्प्रतिबन्धंनोत्पत्तिरिति तत्समाप्तौतूत्पत्तिःइति च दर्शितम् । अत्र प्रतिबन्धतदभावरूपावस्थाव घृतेरित्यनुक्त्वाएवमुक्तिः उत्पत्तावेवमेव कालानियमः इति प्राङ्निर्दिष्ठोत्पत्तिमवलम्ब्यअन्यथा प्रतिबन्धक रूपावस्थायामनुत्पत्त्यन्वयस्यैव युक्तत्वेनोत्पत्तावित्यस्यानन्वयप्रसंगादिति । अत्रैहिक फलकोपासनस्य मुक्तिफलकोपासनस्य चानियमेननिष्पत्तिकथनमुद्गीथविद्यारहित यज्ञादिनिष्पाद्य ब्रह्मविद्याविषयम्उद्गीथविद्यासहित यज्ञादि निष्पाद्य ब्रह्मोपासनानां झटिति निष्पत्तेरावश्यकत्वादितिध्येयम् ।।नन्वस्यार्थस्य पूर्वाधिकरणेनैव सिद्धत्वात् वृथाऽधिकरणान्तरारंभइतिशंकापरिहारायाधिकाऽशंकामाह - सर्वेभ्यइति । अब्रह्मविदां विद्यानिष्पत्तिकर्मसुप्रतिबन्धस्स्यान्नाम - तेषां दुर्बलत्वात् । फलसंगकर्तृत्वत्यागयुक्तस्यनिवृत्तिसंज्ञस्य ब्रह्मवित्क्रियमाणस्य मुक्तिफलकविद्यासाधनस्यकर्मणः सर्वतःप्रबलत्वात् स्वविरोधिवर्गनिराकरण पूर्वकं झटिति स्वसाध्यब्रह्मविद्योत्पादकत्वसंभवेन विलम्बहेत्वाभावात् पुण्यकर्मानन्तरमेव प्रतिबन्धाभावात्फलभूत ब्रह्मविद्योत्पत्तिः स्यादिति पूर्वपक्षितात्पर्यम् । परिहारतात्पर्यमाह - तत्रापीतिअस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः । तिमिङ्गिलगिलोऽप्यस्तितद्गिलोऽप्यस्ति सागरे । इति न्यायेन संसारसागरे वर्तमानानां कर्मणामुत्तरोत्तराधिक्योपलब्धेःब्रह्मवित्कृतस्य ब्रह्मविद्योत्पादकस्य निवृत्त्याख्यस्य कर्मणततोपि प्रबलेन ब्रह्मविदपचारेण प्रतिबन्धसंभवात् कर्मानन्तरमेवोत्पत्तिरितिनियतिर्न संभवति । तदुक्तम् - तिमिं किल तिमिङ्गिलो गिलतितद्गिलस्तद्गिलःतमप्यथ च तद्गिलश्चदिह पश्य कर्मक्रमे । समस्तवृजिनोदीघ ग्रसन कुर्म्भाडेम्भोद्भवंनिवृत्तिमपिधर्ममत्त्यनधतत्त्वविन्निग्रहः ।। इति । अतोऽतिप्रबलब्रह्मविदपचाराभावे निवृत्त्याख्यं कर्म सद्य एव ब्रह्मविद्यां जनयतितत्सत्त्वे च कालान्तरे एवेति मोक्षार्थोपासनानामप्यनियम एवेति भावः।। अत्रोक्तन्यायः न्यासविद्यायामपि समानः ।तत्रापि ब्रह्मविदपाचारसत्वेतन्निष्पत्त्ययोगात् । तदुक्तं - ब्रह्मविदपचारः प्रपत्तिमपि प्रतिबद्धुमलमितिप्रपत्ति प्रतिबन्धकत्वं प्रपत्त्युत्पत्तिविद्यटकत्वम् । नतुप्रपत्तिकरणानन्तरमपि ब्रह्मविदपचारस्य प्रपत्ति विनाशकत्वम् ।उत्पन्नाया प्रपत्तेः देहावसाने मोक्षविषयिण्याः कदापि विनाशासंभवात्अन्यथा प्रपन्नस्य ब्रह्मविदपचारेप्रसक्ते तन्नाशेन तत्क्षमापणानन्तरंपुनरपि प्रपदनानुष्ठानापत्तेः । अतो नियतायुष्काणां प्रत्यनन्तरप्राप्तब्रह्मविद्यापचारक्षमापणाभावे खञ्जा भवन्तीत्युक्तखञ्जत्वादिप्राप्त्या परिहारःअनियतायुष्काणां आयुर्वर्धनद्वारा विलम्बेन प्रपत्तिफलसिद्धिरितिएतेन विद्यानिष्पादककर्मणामनुष्ठानेपि विद्यानिष्पत्तिरूपकार्यादर्शनात्न कर्मणांविद्यार्थत्वसंभवः इति कस्यचिन्मन्दधियः शंकापि निरस्ताप्रतिबन्धाभावे झटित्युत्तेत्पत्तेः प्रतिबन्धसत्वेचानुत्पत्तेःअअतो विदुषा प्रतिबन्धनिवारणमवश्यं कर्तव्यमिति प्रयोजनविशेषोपिदर्शितः । एवं मुक्तिफलकविद्याविषयकमिदं सूत्रं मुक्तिविषयकमपीतिध्येयम् । ब्रह्मविद्यानिष्टस्य कदाचित् बुद्धिपूर्वकं मध्ये जन्मादिहेतुभूतकर्मविशेषस्य तादृशशापादेर्वोपनिपाते तदनन्तरमेव सत्संभवात्तदुक्तं न्यायसिद्धाञ्जने जीवपरिच्छेदे - अथ च जन्मादिहेतुरेव कर्मविशेषःशापादिर्वाउपनिपतितः तदा तत् तत्प्रसज्यत एव । तथापि निष्पन्नस्योपायस्य नशौथिल्यम् । सतु प्रारब्धकर्मणइव एतस्यापिपर्यवसाने संसारं निवर्तयतिनच पुनरुत्तरोत्तर कर्मकरणात् संसाराविच्छेदः इति वाच्यम् । शास्त्रविरोधात्ननिष्पन्नस्योपासनस्य निष्फलत्व प्रसंगात् । सूत्राभिप्रेतं चैतत्एवं मुक्तिफलानियमस्तदवस्थाव घृतेस्तदवस्थावघृतेः । इति । इदंच सूत्रं विद्यांगकर्मविषयमपि विद्यायां तुल्यन्यायतयाऽनुसन्धेयम्इति । अयं च न्यायः उपायभक्तिनिष्ठविषये एवनतु साध्यभक्तिनिष्टविषयेऽपि । एतद्देहावसाने मां त्वत्पादं प्रापयप्रभो इत्येवं रूपेण प्रपन्ने पुंसि जन्मादिहेतु भूतकर्म विशेषशापादेरेवासंभवात् । जन्मान्तरारंभक शपादिहेतुभूत प्रारब्धांशस्यापि परंपरयाजन्मान्तरारंभकत्वेन तादृशप्रारंबधांशस्यच निःशेषक्षीणत्वात् ।कार्त्स्न्येन प्रारब्धकर्माभ्युपगन्तुरेवो पासनप्रवृत्तेः । तादृशेचोपासके परंपरया जन्मान्तरारंभकस्य जन्मान्तरहेतुभूतशापादिकारणप्रारब्धां शस्याक्षीणत्वात् तथाविधशापाद्यु पपत्तेरित्यलं विस्तरेण ।।यद्यपि मुक्तिफलक ब्रह्मविद्या निष्पादककर्मणां प्रत्यूहनिवारणायतत्प्रत्यूहप्रसंगस्यावश्यकत्वेपिभोगार्थो प्रासननिष्पादककर्मणांप्रत्यूहप्रसंगोऽत्रानपेक्षितः । अथापि दृष्टान्तार्थः तत्प्रसंगः इति ध्येयम् ।।मुक्तिफलाधिकरणं समाप्तम् ।। चतुर्थः पादस्समाप्तः । इति तृतीयाध्यायः ।।श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ।श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थाध्याये प्रथमः पादः ।