(3.04.013) अनाविष्काराधिकरणम्पूर्वाधिकरणे बाल्य पाण्डित्य मौनत्रयं विद्यासहकारितयाविहितमित्युक्तम् । तत्र बाल्यशब्दार्थो विव्रियतेऽत्रेति संगतिःययद्वा बाल्यस्यापि विद्यासहकारित्वे वयोविशेष लक्षण बालभावस्यइच्छया संपादनासंभवेनाविधेयत्वात् कामचारकामवादकामभक्षत्वादि बालकर्मणःडम्भादि राहित्यलक्षण स्वमाहात्म्यानाविष्काररूपकर्मणश्चाविशेषेणविधेयत्वावश्यकत्वात् ब्रह्मविद्यानिष्ठस्य कामाचारत्वादिकमपि विद्यांगंस्यादिति शंकया संगतिः । न चेष्टापत्तिः कामभक्षणस्य सर्वात्रानुमित्यधिकरणेनिषिद्धत्वात् । तन्न्यायेन कामचारत्वादीनामपि निषिद्धत्व सिद्धेःविरोधात्ननु कामचारादेः रागप्राप्तत्वेन कथं विद्यासहकारितया विधेयत्वसंभवःइति चेत् । रागप्राप्त ऋतुगमनादेरिव विधेयत्व संभवात् । वस्तुतोरागप्राप्तकामचारादेर्निषिद्धत्वेन, निषेधशास्त्रस्य ब्रह्मविद्यानिष्टव्यतिविषयकत्वबोधनेन ब्रह्मविद्यनिष्ठे निषिद्धत्व प्रयुक्ताप्रवृत्तिशंकानिराकरणायविद्यासहकारित्वेन विधानमिति न कश्चिद्विरोधः । एतेन ऋतुगमनादेःरागप्राप्तत्वेपि अन्यत्र निषेधाभावे विधेयत्वं युक्तं अस्य च रागप्राप्तत्ववत्निषिद्धत्वाच्च कथं विधेयत्वमिति शंकनमप्यपास्तम् । अत एव हि पश्वालम्भनविधानमप्युपपद्यतेतत्रहि पश्वालम्भनं रागप्राप्तं हिंसात्वेन निषिद्धं च । अत एववामदेव्योपासनांगतया प्रार्थयमान सर्वयोषदपहारलक्षण निषिद्ध कर्मविधानमपिसंगच्छते इति पूर्वपक्ष्याशयः । बालस्य भावः कर्म वेत्यनेन बाल्यशब्दस्यभावकर्म साधारणत्वं दर्शितम् । प्रकृते भावार्थकत्वं न संभवतीत्याह - बालभास्येतिकर्मार्थकत्वेपि कस्यचित्कर्मण एवात्र ग्रहणं नान्यस्यापीति सिद्धान्तानुगुण्याय कर्मद्वैविध्यं प्रदर्शयन् पूर्वपक्षमाह - तत्रेति ।विशेषाभावात्नियामकप्रमाणा भावादित्यर्थः । ननु निषेधशास्त्रमेव नियामकं भवितुमर्हतीत्यत्राह - नियमशास्त्राणीतिअयं भावः निषेधाशास्त्रं सामान्यतः कामचारादिकं निषेधति । बाल्येननिष्ठासेदिति शास्त्रं तु विशिष्य ब्रह्मविद्यानिष्ठस्य अविशेषेणबालकर्मादिकं प्रतिपादयति । अतो निषेधशास्त्रं ब्रह्मविद्व्यतिरिक्तविषयकमितिनिश्चीयते ।यदितु ब्रह्मविद्यानिष्टविषयकमेव निषेधशास्त्रं स्यात्तर्हि विशेषक प्रमाणसत्त्वेन डम्भादि रहितत्वलक्षणबाल कर्मण एवात्रगृहणमिति वक्तुं शक्यम् । न च तदस्ति । सामान्य विषयक निषेधशास्त्रंनैवं नियमयितुमलम् । ब्रह्मविद्यानिष्ठ व्यतिरिक्त विषय लाभेनचरितार्थत्वात् । अन्यथा विनिगमका भावप्रसंगाच्चेतिसिद्धान्तमाह - एवमिति । स्वभावानाविष्काररूपं=अभिजन शुध्याद्यनाविस्काररूपमित्यर्थः । ब्रह्मविद्यानिष्ठविषयकतयैव विशेषतो नियमदर्शनात्न कामचारादिग्रहणं युक्तमिति भावः । अनेन ब्रह्मविद्यानिष्टव्यतिरिक्तविषयकत्वं नियमशास्त्राणामपि परिहृतमिति । तथा च स्वमाहात्म्यगोपनमेवविद्यासहकारितयाऽत्र विधीयते ।एतदाशयेनैव च जडोन्मत्तादिवत्तिष्ठेदित्यादिमुनिवचनमपि । आत्मोन्नतिं परनिकर्षमपीह वांञ्छन् निम्ने विमोहजलधौनियतापि भूयः ।। “विद्याधनाभिजनजन्ममदेन कामक्रोधादिभिश्च हतधीःन शमं प्रयामिः इत्यादिकमनुसन्धेयम् अतोविद्यावतः एतेदोषाः संसारचक्रभ्रममहेतवःइति दूरतः त्याज्याःपरित्यक्तैतादृशदोषस्य मृण्मयपुष्पसमर्पणशीलस्यातिभक्तिमतः कुलालस्यकथा वेंकटेशपुराणे दृष्टा ।। अनाविष्काराधिकरणं समाप्तम् ।।