(3.04.012) सहकार्यन्तरविध्यधिकरणम्यज्ञादिकं शमदमादिकं च विद्यांगभूतं निरूपितम् ।अथ तत्प्रसंगेन प्रसक्तं निरूपणीयमन्यच्च निरूपितम् ।संप्रतिअंगान्तरं निरुप्यते इति संगतिः । यद्यपि मननरुपस्यात्र निरुपणीयस्यविद्यासहकारिणःप्रवृत्तिरूपत्वेनप्रवृत्तिरूपयज्ञादिसहकारिनिरूपणानन्तरंनिवृत्तिरूप शमदमादिनिरूपणात्प्राक् निरूपणं युक्तम् । अथापि मननस्यध्यानालंबन शुभाश्रयगोचरत्वरूपत्वात् अतद्गोचरयज्ञशमादिविलक्षणत्वात्यज्ञादेः शमादेश्चातद्गोचरत्वसाधर्म्यात् क्रमेण तदुभयनिरूपणंकृत्वापश्चादेतन्निरूपणं क्रियते इति बोध्यम् । विषयादिकं दर्शयन्पर्वूपक्षमाह - तस्मादितिएतच्छ्रुत्यर्थः सिद्धान्ते भाष्यकृतैव दर्शयिष्यते ।मौनपाण्डित्यशब्दयोःज्ञानार्थत्वादिति। मौनशब्दो हि मननपरः । मननं च श्रवणप्रति ष्ठार्थज्ञानविशेषरूपम्एवं पाण्डित्यशब्दोपि ज्ञानपर एव । ऊहापोहक्षमबुद्धिमति पण्डितशब्द प्रयोगात् । ततश्चोभयोर्ज्ञानार्थत्वेन अथ मुनिरिति निर्दिष्टंमुनित्वापरपर्यायायं मननरूप मौनं पाण्डित्यं निर्विद्येति पाण्डित्यशब्देनविहितमिति अथ मुनिरिति तदनुवादमात्रमेवेति भावः। यदितु मुनिस्स्यादितिविधिशब्दः श्रूयेते,तर्हि विधेयत्वान्यथानुपपत्त्या ज्ञानरूपमपिमौनं पाण्डित्यशब्द निर्दिष्टज्ञानापेक्षया विलक्षणमित्यभ्युपगन्तुं शक्येत ।सोऽपि न श्रूयते । अतः पाण्डित्यशब्दनिर्दिष्टज्ञानानुवादमात्रमेवतदित्यभिप्रयन्नाह - विधिशब्दःइति । एतेन विधिर्वाधारणवदिति सूत्रोक्तन्यायस्याप्यनवकाशइतिसूचितम् । अप्राप्तस्थले एव विधिकल्पनस्योचितत्वात् अत्रच प्राप्तत्वस्योपपादितत्वात्अनुवादरूपत्वेनैवोपपत्तौ विधेयान्तरकल्पनस्यानुचितत्वाच्च ।।सिद्धान्तमाह - एवमिति। अन्वयक्रमेण सूत्रार्थमाह - तद्वत इति । विद्यावतःइति तद्वतः इत्यस्यव्याख्यानम् ।।विधीयत इतीति। अनेन विधिशब्दोविधेय परस्सन् यज्ञादिं शमादिं च ब्रूते इत्युक्तं भवति ।आदिशब्दःअविधेय श्रवणमनन ग्रहणपरःइत्याह - आदिशब्देनेति श्रवणमननयोरविधेयत्वेनन विधिशब्दार्थत्वमिति भावः । सहकार्यन्तरविधिः ।सहकारित्वेन विधेयमित्यर्थःअथ सूत्रविवक्षितार्थं विवृणोति - एतदुक्तमिति । श्रवणमननयोः अर्थप्राप्तत्वेनविधिविषयत्वं न संभवतीति व्यक्यै विधीयेते इत्यनुक्त्वा गृह्येतेइत्युक्तम् । अत्र मौनस्य सहकार्यन्तरत्वमात्रे श्रवणमनन दृष्टान्तःइति, विधिशब्द बोधित यज्ञादि दृष्टान्तस्तु सहकार्यन्तरत्वे विधेयत्वेचेतिद्रष्टव्यम्ननु मुनिशब्द बोधितं मौनंपाण्डित्यरूपमेव तच्च पूर्वमेव प्राप्तमितिकथं विधेयत्वमिति शंकापरिहारपरमुत्तर खण्ड मवतारयन् व्याचष्टे - मौनंचेतिपपक्षेण= अत्यादरेणेत्यर्थः । पक्ष परिग्रह इति धातुः । ततश्चात्यादरेणकृत प्रकर्षयुक्तमननशीले व्यासादौ मुनिशब्द प्रयोग दर्शनात् केवलपाण्डित्यवतिमुनिशब्द प्रयोगादर्शनाच्च न पाण्डित्यं मौन मप्येकरूपमिति भावःतथा च यज्ञदान शमादिवत् विद्यावतः तृतीयं मौनं सहकारित्वेन विधेयम्प्रकृष्टमनशीलव्यासादावेन मुनिशब्दस्य प्रयोगदर्शनादिति सूत्रार्थःतृतीयमिति शब्दस्वारस्यमुपजीव्य पाण्डित्य बाल्ययोर्द्वयोरित्युक्तम्अथ विधिप्रत्ययाश्रवण प्रयुक्तविधेयत्वाभावं माशंक्य परिहरति - यद्यपीति।अप्राप्तत्वादितिउक्तयुक्या पाण्डित्य मौनयोः विलक्षणत्व सिद्धेःविधिर्वाधारणवदितिसूत्रोक्तन्यायः निर्विधातमत्र प्रवर्तत इति भावः । एवं मौनस्यप्राप्तत्वप्रयुक्त विधेयत्वा भावःपरिहृतः । अत प्रयोजना भाव प्रयुक्तविधेयत्वाभावं श्रवणप्रतिष्ठार्थमननरूपत्व शंका प्रयुक्तविधेयत्वासंभवं चपरिहरति - इदं च मौनमिति। मननादर्थान्तर भूतमिति । अयं भावः - श्रवणप्रतिष्ठापनार्थरूपंमननं हि स्वात्मनि आचार्योपदिष्टार्थः एवमेवेति युक्तिभिः चिन्तनामात्रंतच्च वाक्यार्थज्ञान प्रतिष्ठापनार्थम् । अत्यन्तातिशयितोहापोहक्षमप्रतिभारूप पाण्डित्यात्पूर्व मेव च निष्पन्नं अतोऽत्र पाण्डित्यादनन्तरंकथ्यमानं मननं मौनरूपं प्रसिद्धमननादन्यदेव विद्यासहकारीत्यभ्युपगन्तव्यमितिउउपासनालम्बनस्य=उपासन विषयस्येत्यर्थः ।तद्भावनारूपमिति। अष्टांगयोगेसमाधिस्साक्षात् ब्रह्मविद्या ।तत्पूर्वभाविधारणादिकमेवात्र मौनशब्देनोच्यतेइति धारणादिरूपस्यान्तरंगांगत्वेनातिशयित प्रयोजनसत्वेन विधेयत्वमपियुक्तमेवेति भावः । अथोदाहृतश्रुत्यर्थं दर्शयति - तदेवमिति।। ब्राह्मणः=ब्रह्म=वेदं,अनति=रक्षतिइति ब्राह्मणः ब्रह्म विद्यावानिति यावत्पाण्डित्यं निर्विद्येति ओदनपाकं पचतीतिवदौपत्वारिक प्रयोगः । उपास्यभूतपरिशुद्धब्रह्मतत्त्वविषयकज्ञानं लब्ध्वेत्यर्थः ।। उक्तपाण्डित्यरूपवेदनस्यविधेयत्वसिध्यै श्रवणमननाभ्यामप्राप्तमित्युक्तम् । रागप्राप्तश्रवणस्यतत्प्रतिष्ठापनार्थमननस्य च ब्रह्मविषयकत्वेपि परिपूर्णवेदनरूपत्वाभावेनास्यचतथात्वेनास्य वेदनस्य श्रवणमननाभ्यामप्राप्तत्वमिति भावः । इदंचपाण्डित्यं भगवद्भक्ति सहकारेण सत्त्वविवृध्या भवतीत्याह - तच्चेतिअथात्र भगवद्भक्तेस्सहकारित्वे प्रमाणमाह - यथोक्तमिति निदिध्यासनरूपविद्यावप्तयेइत्यनेन विद्यान्तरंगत्वमुक्तम्नन्वमौनमौनयोरुभयो रूपादानमशक्यं,मिथो विरोधादित्यत्राह - अमौनं मौनेतरसहकारिकलाप इति । निर्विद्याथ ब्राह्मण इत्युक्त्या मौनामैनयो स्सहकारित्वंसिद्धम् । तत्रामौनशब्दः अब्रह्मणादिशब्दवत् मौनेतरपरः ।मौनेतरच्चपाण्डित्यादिकमेवेति भावः । ब्राह्मणः ब्रह्मविद्यानिष्ठोभवतीत्यर्थःविद्याकाष्ठां लभेत इति फलितार्थकथनम् । स ब्राह्मण इति । केनसः ब्राह्मणः स्यादित्यन्वयः ।सूत्रार्थमुपसंहरति - अतस्सर्वेष्विति ।।
उत्तरसूत्रं चोद्यमुखेनोत्थापयति - अथस्यादिति । मौनतृतीयसचिवा=मौनेनतृतीयं पाण्डित्यादि तदङ्गिकेत्यर्थः ।कथमिति। अस्य उपपद्यते इत्यनेनसंबन्धः । अयं भावः । बाल्यपाण्डित्यमौन शमाद्यङ्गक तत्तदाश्रमधर्मभूतयज्ञाद्यंगकविद्याया सर्वेष्वप्याश्रमेषु संभवात् अत एवसर्वाश्रमसाधारण्यस्योपपादितत्वाच्चछान्दोग्ये गृहस्थाश्रमधर्मेणविद्योपसंहार प्रदर्शनं कथं संगच्छतेअअन्यधर्मेणापि विद्योपसंहार संभवात् । अतः गृहस्थाश्रमधर्मेण विद्योपसंहारप्रदर्शनाद्विज्ञायतेगृहस्थाश्रमिणामेव विद्या नत्वन्याश्रमिणामपीति । तस्मात् विद्यायाः सर्वाश्रमसाधारण्योपपादनमनुपपन्नमितिमौनं तृतीयं यस्य पाण्डित्यादेः सः सचिवः यस्याः ।गार्हस्थ्यधर्मेणस्थितिदर्शनोपपादनाय - अभिसमावृत्य कुटुम्बे शुचौ देशे इत्यारभ्येत्यन्तम् ।तेनोपसंहारः इत्यन्तेन सूत्रार्थः उक्तः ।यथा ऐतदात्म्यमिदं सर्वमितिप्राप्तस्य सामानाधिकरण्यस्य तत्त्वमसीति विशेषे उपसंहारः तथात्रापिसर्वाश्रमि साधारणायाः विद्यायाः छान्दोग्ये गृहस्थरूपविशेषे उपसंहारःकृतः । अतो न तावता गृहस्थाश्रमासाधारणत्वं विद्यायाः मन्तव्यम्अन्यथा सर्वाश्रमसाधारणत्वप्रतिपादक श्रुतीनां पूर्वोक्त युक्तीनांच विरोध प्रसंगादिति भावः । तर्हि गार्हस्थ्यधर्मेण गृहस्थरूपविशेषेउपसंहारप्रदर्शनस्य कथंनिर्वाहः इत्यत्र सूत्रकृदाशयमाह - तस्मादितिगार्हस्थ्यधर्मोक्तिः सर्वाश्रमधर्माणामप्युपलक्षणार्थेति भावः ।।
एवं परिव्राजक धर्माणां विद्यासहकारित्व प्रदर्शनमपि सर्वाश्रमधर्माणामुपलक्षणमित्येतत्परमुत्तरसूत्रमवातरयति - तथेति । ईषणा=इच्छा । अत्रेषणात्रयवि निर्मोकपूर्वकभिक्षाचर्योक्तेःपारिव्राज्यैकान्तधर्मः प्रतिपादितः ।सूत्रार्थमाह - सर्वेषणेति।मौनरूपविद्यासहकारिणः सर्वाश्रमिसाधारणत्वेन केवलमौनोपदेशस्य परिव्राजकेतराश्रमधर्मोपलक्षणत्व कथनमसंगत मित्यतःभिक्षाचरणपूर्वकमौनोपदेशःइत्युक्तम् ।एवंविद्येति। भिक्षाचरणपूर्वकेत्यर्थकम् ।उपदेशादितिपदस्वारस्येनमौनवदित्यस्य मौनोपदेशवदित्यर्थः उक्तः । इतरेषामिति व्याख्येयपदोपादानम्ब्रह्मप्राप्त्युपदेशादित्यनेन उपदेशादिति सूत्रखण्डो विवृतः ।ब्रह्मसंस्थोऽमृतत्वमेतीति सर्वाश्रमिणामपि ब्रह्मप्राप्त्युपदेशेनब्रह्मविद्यायामधिकारलाभात् अत्र सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनाख्यसन्यासाश्रमनिष्टधर्मोपदेशः इतराश्रमधर्माणामप्युपलक्षणार्थः इतिभावः । ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्रब्रह्मसंस्थशब्दः सर्वाश्रमसाधारणःइत्यत्र विशेषयुक्तिसूचनाय त्रयो धर्मस्कन्धा, इत्यारभ्य इत्युपात्तम्।।अयमर्थः पूर्वमेवोपपादित इत्याह - उपपादितश्चेति । पूर्वमेव अनुष्ठेयंबादरायणस्साम्यश्रुतेः इति सूत्र भाष्य इत्यर्थःइति शब्दः एतत्सूत्रार्थ समाप्तिवाची । अधिकरणार्थमुपसंहरति - अतइति ।। सहकार्यन्तरविध्यधिकरणं समाप्तम् ।।