(3.04.011) स्वाम्यधिकरणम्एतावता ब्रह्मोपासनानुष्टात्रननुष्ठातृविभागःप्रदर्शितः।अथ तत्प्रसङ्गात् उद्गीथोपासनानुष्टात्रननुष्टातृ विभागो निरुप्यतेइति संगतिः । विषयादिकमाह - कर्माङ्गेत्यादि। उद्गीथांद्युपासनानांकर्मांगत्व शंकावारणाय कर्माङ्गाश्रयाणीत्युक्तम् । कर्मांगभूतोद्गीथविषयाणीत्यर्थःननूद्गीथस्य ऋत्विक्कर्तृकत्वेन तदुपासनस्यापि ऋत्विक्कर्तृकत्वमेवयुक्तमिति न यजमानकर्तृकत्वं निर्णोतुं शक्यमित्याशयेन पृच्छति - कुतइति। समाधान परं फलश्रुतेरिति खण्डमुपादाय व्याचष्टे - फलश्रुतेरिति।शास्त्र फलं प्रयोक्तरीति हि न्यायःअतः क्रतुफलाप्रतिबन्धस्थोद्गीथोपासनफलस्य यजमाननिष्टत्वात् तदुपासनेफलिनो यजमानस्यैव कतृत्वं युक्तमिति यजमानकर्तृकमेवोद्गीथोपासनमितिभावः । ननु गोदोहनादेःपुरुषार्थत्वेन यजमानस्य फलित्वेपि तत्करणकप्रणयनस्यऋत्विक्कर्तृकत्वेन यथा गोदोहनस्यापि ऋत्विक्कर्तृकत्वं तथैवोद्गीथोपासनस्यपुरुषार्थत्वेपि उद्गीथस्य ऋत्विकर्तृकत्वेन तदुपासनस्यापि ऋत्विक्कर्तृकत्वमेवन्याय्यमित्याशंक्य परिहरति - न चेति । अयं भावः - गोदोहनादौ ऋत्विक्कर्तृकेप्रणयने फलाश्रभूतेनापियजमानेन गोदोहनं प्रयोक्तुमेव न शक्यते ।अतस्तत्र अप्प्रणयनस्येव गोदोहनस्यापि ऋत्विक्कर्तृकत्वसिद्धिःअत्रतु उद्गीथोपासनस्य बुद्धिरूपत्वेन यजमानेनापि कर्तुंशक्यत्वात्उद्गीथस्य ऋत्विजा करणेऽपि तदुपासनस्य फलाश्रययजमान कर्तृत्व युक्तमिति ।इदमत्र तात्पर्यम् - सांगक्रतोः - ऋत्विकर्तृकत्वस्यपूर्वतन्त्रे निर्णीतत्वेपि वेदान्तविहितोपासनानां शास्त्रफलं प्रयोक्तरीतिन्यायेन फलाश्रययजमानकर्तृकत्वावश्यकत्वेन उद्गीथोपासनस्याप्यविशेषेणफलाश्रय यजमानकर्तृकत्वमेव न्याय्यम् ।वस्तुतः तन्निर्धारणानियमःइत्यादिना उद्गीथोपासनस्य पृथक्फलत्वेन क्रत्वंगत्वनिराकरणादपिन ऋत्विक्कर्तृकत्वं युक्तम् । दक्षिणादिना ऋत्विकपरिक्रयस्याङ्गानुष्ठानमात्रार्थत्वात्गोदोहनादेरनङ्गत्वेपि ऋत्विक्कर्तृकप्रणयन निर्वर्तकारस्य गोदोहनस्ययजमानेनापादानासंभवःअत्रतु तत्संभवः इति दृष्टान्त वैषम्यम् । गोदोहनादिवदापादनं चाशक्यम्तस्माद्यजमानकर्तृकमेवोपासनमिति ।।
उत्तरत्रोक्तेः सूत्रकृदभिमतत्वावगमेनोत्तर सूत्रस्य सिद्धान्तसूत्रत्वमभिप्रयन्नवतारयति - इति प्राप्त इति ।ऋत्विज कर्मेति। आर्त्विज्यशब्दव्याख्यानम्अर्थादुद्गीथाद्युपासनमित्यध्याहृतम् । प्रयोजनायेति तस्मै इत्यत्रचतुर्थीव्याख्यानम् । परिक्रीयते इत्यस्य विशेष्याकांक्षया ऋत्विगित्यध्याहृतम्फलसाधनभूतस्य सांगस्य क्रतोरित्यनेन तच्छब्दार्थः उक्तः । ऋत्विक्परिक्रयणमेवकुत इत्यत्राह - कर्मविधिष्विति । अत्र ऋत्विक्वरणदक्षिणादानादिश्रवणेनफलसाधनभूतसांगक्रत्वनुष्ठानं ऋत्विक्कर्तृकमिति निश्चीयत इति भावःननु साङ्गं कर्म आर्त्विज्यमस्तु उद्गीथोपासनं च न कर्माङ्ग भूतंअतो न ऋत्विक्कर्तृक मित्यत्राह - तदन्तर्गतानीतिकायिकानि=गोदोहनादीनि प्रोक्षणादीनि वा इदंच दृष्टान्तार्थम् ।मानसानि=उद्गीथाद्युपासनानि । अयं भावः - सांगस्यकर्मणः निर्विधातानुष्ठानेनफलहेतुत्वसिध्यर्थं हि ऋत्विक् परिक्रीयते । अतस्तत्र यदनुष्ठानेनकर्मफलप्रतिबन्धनिवृत्तिः तदनुष्ठानमपि ऋत्विजैव कर्तव्यम् ।प्रकृतेचोद्गीथोपासनस्यविघ्नोप शमार्थमनुष्टीयमानत्वात् क्रत्वंगत्वाभावेपि ऋत्विक्कर्तृकत्वमेवन्याय्यम् ।किं बहुना, एतादृश प्रकृतकर्मसंबन्ध रहितं गोदोहनादिकमेवऋत्विजा अनुष्ठीयते इति । ननूक्तंशक्यत्वा शक्यत्वनिबन्धनं वैषम्यमित्यत्राह - नचेति । अयमाशयः - यस्य यत्र कर्तुं शक्तिरस्ति तेन तत्प्रयोक्तव्यमिति न नियमः ।तथा सति सर्वेषामपि ऋत्विजां सर्वानुष्ठाने शक्तिसत्वेन प्रयोगसांकर्यप्रसंगात्अअतो वचनमेव यस्य कर्तृत्वं बोधयति स एव तत्प्रयोक्तेत्यभ्युपगन्तव्यम्तथा च गोदोहनेन पशुकामस्य प्रणयेदित्यत्र अप्प्रणयनकर्तुः ऋत्विजःएव गोदोहनोपादानकर्तृत्व प्रतीतेः - ऋत्विक्कर्तृकत्वं स्वीकृतम्नतु शक्यत्वनिबन्धनस्तदभ्युपगम इति । अथ “तदन्तर्गतानि कायिकानिमानसानि चेत्यत्र विवक्षितमर्थंआशंक्य विवृणोति - यद्यपीत्यादिनाक्रत्वधिकृताधिकारत्वात्=क्रत्वधिकृतऋत्विगधिकारत्वादित्यर्थःययथा च प्रोक्षणादेः कर्मोपयोगित्वेन कर्माधिकृतऋत्विक्कतृकत्वं तथैवात्रापिउद्गीथाद्युपासनस्य क्रतूपयोगित्वेन तदधि कृतऋत्विक्कर्तृकत्वमिति भावः ।इदं च ऋत्विक्कर्तृकक्रियोपयोगित्वेनेत्यत्र व्यक्तीभविष्यति ।ऋत्विक्कर्तृक क्रियोपयोगित्वं चाप्रतिबन्धं फलजनकत्वात् । ननुक्रतोः ऋत्विक्कर्तृकत्वेहि तदंगोद्गीथोपासनस्य क्रत्वधिकृताधिकारत्वमित्यत्राह - क्रतोश्चसाङ्गस्येति । उद्गीथस्य ऋत्विक्कर्तृकत्वसिध्यै - साङ्गस्येत्युक्तम्नन्वस्तु ऋत्विक्कर्तृकत्वे उपपत्तिः तथापि ऋत्विक्कर्तृकत्वबोधकंवचनं तु न पश्यामः । नह्युपपत्ति मात्रेणार्थसिद्धिः । अत एव हिगोदोहनादौ फलाश्रय यजमानकर्तृकत्वायोग्यत्व रूपोपत्ति सत्वेपि वचनंप्रमाणीकृतम् । यावता च वचनाभावः न तावता ऋत्विक्कर्तृकत्वसिद्धिःशक्यत्वविशिष्ट पृथक्पुरुषार्थ साधकत्वेन तत्प्रतिबन्धादित्यत्राह - यदेवेतिकक्रत्वंगभूते उद्गीथे ऋत्विज एत कर्तृत्वं सर्वसंमतम् । तत्र विद्ययेतिसहपठितविद्याकर्तृत्वमपि तस्यैव युक्तम् ।यदेव विद्यया करोतीतिहि श्रुतिः । नहि देवदत्तो घटं चक्षुषा पश्यतीत्युक्ते चक्षुषःप्रेरणं अन्यकर्तृकमिति शक्यते वक्तुम् । एवं प्रधान कर्मणः ऋत्विक्कर्तृकत्वात्ऋत्विक्कर्तृक तादृशकर्मणो वीर्यवत्तरत्व साधनभूतोद्घीथाद्युपासनस्यकः कर्तति कर्त्रपेक्षेयामन्तरंग बहिरङ्गन्यायेन आसन्नःऋत्विगेवचकर्तेति प्रतीयते । अन्याप्युपपत्तिः पूर्वमुक्ताअतः उक्तानेकोपपत्ति सहकृतश्रुतिस्वारस्यबलात् उद्गीथाद्युपासनस्यऋत्विक्कर्तृकत्वमेव न्याय्यमिति । तस्मादुहैवं विदुद्गाता ब्रूयात्कं ते काममागायानीति ऋत्विक्कर्तृकवेदनस्य यजमानगामि फलकत्वावेदनादपिउपासनस्य ऋत्विक्कर्तृकत्वं सिद्धम् । अत एव शास्त्र फलं प्रयोक्तरीतिन्यायस्य प्रकृते नावतारः । यजमानेन स्वकार्य करणार्थं दक्षिणाप्रदानेनऋत्विजांक्रीतत्वेन तेषां परार्थत्वात् । यां कांचन यज्ञे ऋत्विजआशिषमाशासते यजमानायैवैतामाशिषमाशासते श्रुति श्रुतेश्च ।तस्माद्गोदोहनादिवदुद्गीथोपासनमपिपृथक्फलसाधनमिव ऋत्विक्कर्तृकमेवेतिननु वेदान्तविहितो पासनेषु शास्त्रफलांश्रय यजमानकर्तृकत्वं दृश्यतइति अत्रापि किं न स्यादित्यत्राह - दहराद्युपासनेष्विति । दहरादिषूपासनेष्वितिपाठस्तु उपासनस्य दहरादिविषयकत्वमुपजीव्येति द्रष्टव्यम् ।उपासनत्वेनसर्वोपासनानामविशेषेऽपि क्वचित् ऋत्विक्कर्तृकत्वंश्रुतं क्वचिच्चन श्रुतम् । अतः क्रत्विक्कर्तृकत्वश्रवणे शास्त्रफलं प्रयोक्तरीतिन्यायस्यपावादन्न प्रवृत्तिः अश्रवणेतु तन्न्याय प्रवृत्तिः । तस्मात्फलि कर्तृकत्वापावादक तच्छ्रवणाभावेन दहराद्युपासनेषु फलाश्रययजमानकर्तृकत्वमितिभिदा इतिभावः । तद्ध देवा उद्गीथमाजहुः इत्यादौ चोद्गीथोपासनस्यन साक्षात् देवकर्तृकत्वाभिप्रायः उद्गातृकर्तृकतदुपासने देवानांप्रयोजकत्वाभिप्रायः इति न विरोधःअत एव बहुवचनोपपत्तिश्च । उद्गातरि प्राणदृष्टि विधानस्थले कथंतदुपासनस्य उद्गातृकर्तृकत्वमिति मावोचः उद्गाताऽहं प्राणः इतिस्वस्मिन् गरुडदृष्टिवदुपपत्तेः ।। समाप्तम् स्वाम्यधिकरणम् ।।