50 तद्भूताधिकरणम्

(3.04.010) तद्भूताधिकरणम्पूर्वाधिकरणे विधुरादीनां निराश्रमाणां जपोपवासादिभिर्विद्यानुग्रहसंभवेनब्रह्मविद्यायामधिकारस्संभवतीतिस्थिरीकृतम् । अथ तद्वदेवाश्रमभ्रष्ठानामपिनिराश्रमाणां ब्रह्मविद्याधिकारस्स्यादिति शंकयोत्थानात्संगतिःनैष्ठिकेत्यादि ।नैष्ठिक वैरवानसपरिव्राजकानां ये आश्रमाःतेभ्यप्रच्युतानामित्यर्थः । वैरवानसः=वानप्रस्थः । यद्वा नैष्ठिक वैरवानसपरिव्राजकशब्दाः भावप्रधाननिर्देशाः । नैष्ठिक्यवानप्रस्थ्य पारिव्रज्यरूपाश्रमेभ्यःप्रच्युतानामित्यर्थः । इदं गार्हस्थ्यात्प्रच्युतस्याप्युपलक्षणम्वानप्रस्थादेः गृहस्थाश्रम प्राप्तिरिव गृहस्थस्य ब्रह्मचर्याश्रमप्राप्तिरपिहि प्रच्युतिरेवकेचित्तु - गृहस्थस्याध्ययनाशया हेत्वन्तरेणवा कदाचित् ब्रह्मचारिधर्मपरिग्रहेपि प्रायश्चित्तमात्रम् । न भ्रष्टता इति वदन्ति ।युक्तं चैतत् - गृहस्थस्यास्सधानाहिताग्नित्व आयावज्जीवाग्निहोत्रादिविधानात्तदनुष्ठानशून्यानामपितेषां ब्रह्मविद्याधिकाराभाव प्रसंगात् । तावताभ्रष्टत्वाभावात्गौणाचारमात्रं मेव तत् । एते प्रायश्चित्तेन शुद्धिमर्हन्ति ।एवंनेतरेषाम् । अतोभाष्य त्रितयमात्रग्रहणं युज्यते ।विद्यानुग्रहसंभवादिति।येषां सांगविद्योपसंहार सामर्थ्यमस्ति । तेषां विद्याधिकारः इतिसिद्धम् ।अनाश्रमिणां विषये दानादिरेव विद्यांगम्अत एव विधुरादीनां ब्रह्मविद्याधिकारःउक्तः एवं चैतेषामपि दानाद्यङ्गानुष्ठानसंभवात्तेन विद्यानुग्रहोपपत्तेश्च अधिकारौचित्यात् अधिकाराभ्युपगम युक्तइति । सिद्धान्तमाह - इति प्राप्त इति । सूत्राक्षरार्थमाह - तुशब्दइत्यादिनानैष्ठिकादिभावं प्राप्तस्य नैष्ठिक्याश्रमादिभ्यःच्युतिर्न युक्ताशास्त्रैः नैष्ठिक्याद्यश्रमधर्म परित्यागव्यावर्तनादिति सूत्रार्थःश्रुतौ ब्रह्मचारिपदं नैष्ठिकब्रह्मचारिपरम् ।।सूत्रतात्पर्यमाह - अत इत्यादिना तान्=प्रच्युतान् । अर्वाचीन फलविद्यायाःतेष्वपि संभवमभि प्रेत्य - ब्रह्मविद्येत्युक्तम् । ननु नैष्ठिकाद्यश्रमात्प्रच्युतिर्नश्रुतिसंमता । अतस्तेषामानाश्रमित्वेनावस्थानमपि न श्रुतिसंमतमेव,अथापिहठात् । तथा प्रच्युतानां सांगविद्योपसहारसामर्थ्यसत्वेन ब्रह्मविद्यायामधिकारस्स्यादितिशंकायाःकःपरिहारःइति चेत् उच्यते, यतः तेषां प्रच्युतेः अनाश्रमित्वेनावस्थानस्याचासंमतत्वंश्रुतिसिद्धमत एवतथाव स्थानं पातकमिति गम्यते । अतश्चतेषां पतितत्वादेवनाधिकारः ।। नहि पतितस्य शुभकर्मस्वधिकारः इति ।।

उत्तरसूत्रशंकामाह - अथ स्यादिति । प्रायश्चित्तसद्भावे हि अधिकारकल्पनंयुक्तमित्यत्राह - अस्ति चेति । अधिकारलक्षणं=पूर्वतन्त्र षष्ठाध्यायःअवकीर्णी पशुः=गर्दभपशुरित्यर्थः। ब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेतइति अवकीर्णिनः=क्षतव्रतस्य (प्रच्युत ब्रह्मचर्यस्य) प्रायश्चित्तंविहितमिति भावः । शंकामुपसंहरति - अत इति । यद्यपि आरूढो नैष्ठिकंयस्तु । इति स्मृतिः अवकीर्णी….आलभेत इति श्रुतिः । अतः स्मृत्यासामान्यमुखेन प्रवृत्तायाः श्रुतेः संकोचकरणं न युक्तम् - अथापि “नैष्ठिकानांवनस्थानां यतीनां चावकीर्णनांशुद्धानामपि लोकेऽस्मिन् प्रत्यापत्तिर्न विद्यते” इति कौशिकस्मृतिबलसहितयाअनया श्रुतेः संकोचकरणं युज्यते । अपि च स्मृत्या श्रुतिवाधो ह्यनुपपन्नःअत्र तु स्मृतेश्च विषयव्यवस्थापनेन प्रामाण्यं युच्यते ।प्रच्युतब्रह्मचर्यस्येति। ब्रह्मचर्यं=स्त्रीनियतिः । अयं भावः=उपपातकमहापातकयोःआपीठान्मौलिपर्यन्तं पश्यतःपुरुषोत्तमम् । पातकान्याशुनश्यन्ति किं पुनस्तूपपातकमिति ब्रह्मध्यानमेव प्रायश्चित्तमितिशास्त्रेषु प्रतिपाद्यते । एवं योगिनामपि अनवधानेन पातक संभवे अपिचेत्पातकं किंचित् योगी । कुर्यात्प्रमादतःयोगमेव निषेवेत नान्यं कृच्छ्रं समाचरेदिति प्रामादिकाधप्रायश्चित्तभूत ब्रह्मध्यानं प्रायश्चित्तत्वेन विधीयते । तस्मात् ब्रह्मविध्यायाःपातकाधिकृतत्वसंभवात्नैष्ठिक्याद्याश्रमारुढस्य तत्परावर्तनजनितपातित्यसंभवेपि ब्रह्मविद्याधिकारःयुक्तःएवं प्रायश्चित्त सत्वादपि तदनुष्ठाने श्रुत्युत्पत्त्या शुद्धेनतेन ब्रह्मविद्यानुष्ठानं च युक्तमिति शंका ।।सूत्रार्थमाह - अधिकारेति । अनुमानशब्दः अनुमापकस्मृतिपरः इत्यभिप्रेत्यपतनस्मृतेरित्यक्तम् ।आरुढो……..आत्महा इति पतनस्मृतेःप्रायश्चित्तस्यासंभवादित्यर्थःअयं भावः - यद्यप्युपपातक महापातकयोःपूर्वाधयोः ब्रह्मविद्यैव प्रायश्चित्तम्अथापि आश्रमपरिभ्रष्टस्य प्रायश्चित्तं न पश्यामीति प्रायश्चित्तनिषेधात् एतद्व्यतिरिक्तपातक विषयमेव ब्रह्मविद्याप्रायश्चित्तमित्यवगम्यतेएवमुक्तवचन बलादेवावकीर्णि प्रायश्चित्तमपि न संभवतीत्यध्यवसीयतेअत एव हि आत्महेत्युक्तम् । एवं ब्रह्मविद्यायाः प्रमादिकोत्तराधप्रायश्चित्तत्वाच्चास्यैतावता ब्रह्मविद्यायामप्रवृत्तेः न प्रायश्चित्तसंभवःतस्मात् प्रायश्चित्तासंभवात् न ब्रह्मविद्याधिकारः युक्तः इतिनन्वेवं सति अधिकारलक्षणोक्तं अवकीर्णि प्रायश्चित्तं निर्विषयकंस्यादित्यत्राह - अतःइति । इतर ब्रह्मचारिविषयमिति । भ्रष्टोपकुर्वाणब्रह्मचारिविषयमित्यर्थः।। अयं भावः - पूर्वपक्षे जीवन्नेवेह कर्माणि’ इत्यत्र कर्मपदं काम्यकर्मपरम्फलाभि सन्धिपूर्वककर्मकरणे कथं तस्य न लेपः “न कर्म लिप्यते नरे"इत्यस्यकथमुपपत्तिरिति न च वाच्यम् । कर्ममध्ये क्रियमाणं हिंसादिकंन पापावहं भवतीत्यथीत् । सिद्धान्ते तु विद्यांगकर्मपरम् ।वस्तुतस्यफलानुद्देशेन क्रियमाणत्वात् फलाश्लेषः उत्तरवाक्येन बोध्यतेविद्याधिकारिणि त्वयि उत अन्यथा=कर्माकारणे नास्ति=विद्यानिष्पत्तिःन भवति । यतस्त्व मन्यपुरुषार्थे रतिमान् न, अत एव नरः (नरमतेइतिनरः । फलान्तरश्लेषो न भवति । सात्वित्याग पूर्वककर्मकरणात् ।।“अनिष्टमिष्टं मिश्रंच त्रिविधं कर्मणः फलं - भवत्यत्त्यागिनां प्रेत्यन तु सन्यासिनां क्वचित् । इति भगवदुक्तेः ।। जनक केशिध्वजादीनांविषये यदुक्तं तदपि ज्ञानयोगं विना कर्मयोगाधीनात्माव लोकन परंइति न दोषः । तेच ज्ञानयोगं बिना कर्मयोगेन संसिद्धिम् - प्राप्तवन्तःगीताभाष्ये स्पष्टमिदम् । स्वर्गादिः नात्र विवक्षितः प्रकरणविरोधात्उभयत्र एवकारः नान्ययोगव्यवच्छेदकः अयोगव्यवच्छेदपरः ।।अनुमतिरिति । ब्रह्मविदोपि काम्यस निषिद्धस्य च कर्मणः कामं मनुष्ठानंभवतु नाम । तथापि तदधीन बन्धस्यनैव प्रसक्तिः । दर्शनसमाकारध्यानेनसर्वस्यापि नाशावश्यं भावात् । इति तात्पर्यम् । विधिपक्षे विद्यांगकर्मपरमिदम् ।यज्ञेन विविदिषन्ति इति कर्मणो विद्यांगत्वबोधनात् ।।

उत्तरसूत्रार्थमाह - नैष्ठिकादीनामिति । उपपूर्वं=पातकमित्यौचित्यादध्याहारःउपपूर्वकं पातकमुपपातकमित्यर्थः ।महापातकेष्विति । ब्रह्मचर्यप्रच्यवनस्यमहापातकेष्वपरिगणितत्वाद्धेतोः तत्प्रायश्चित्त सद्भावोऽस्तीत्यर्थःअत्रमधुशब्दः न सुरापरः । गौतमधर्मसूत्रे ब्रह्मचारिधर्माः प्रस्तुताःमधुर्मासगन्धमाल्येत्यादिभिः केचन पदार्थाः निषिद्धाः ।कतिपयधर्माश्चोक्ताः । ततः समावर्तनम् । पश्चात् नैष्ठिक गृहस्थभिक्षुवैखानसभेदेनाश्रमाःविभक्ताः । ततः नैष्ठिकधर्मप्रतिपादनम् । अनन्तरं च “उत्तरेषांचैतदविरोधि” इत्युक्तम्नैष्ठिकावैष्टिकब्रह्मचारिविषये उक्तं ग्राह्यम् । न तु सर्वम्तदाश्रमाविरोधियत् तावन्मात्रं इत्यर्थः । अत्र मद्दवशनादिनिषेधस्योक्तत्वेनतत्करणे प्रायश्चित्तमन्त्रानुक्तमपि उक्तं भवतीति भावः ।। मननूपकुर्वाणब्रह्मचारिणः स्त्रीनियमाति क्रमे तस्योपपातकान्तर्गतत्वेन प्रायश्चित्तोक्तावपिनैष्ठिकस्य कथं मुपपातकत्वेपि प्रायश्चित्त संभवः अनुक्तेरित्यत्राह - तदुक्तमितिस्मृतिवाक्यस्यार्थमाह - गुरुकुलवासिनःइति । तदित्यन्तेन एतच्छब्दार्थःउक्तः।ततश्च गुरुकुलवासिनः विहितायेधर्माः प्रायश्चित्तं च, तदित्यर्थःस्वाश्रमाविरोधि भवतीत्यन्वयः ।स्त्रीसंसर्गादिनिमित्त प्रायश्चित्तादेर्गृहस्थादिष्वनापादनार्थंस्वाश्रमाविरोधिपदम् । तथाचोपकुर्वाणब्रह्मचारिणि विहितोपपातकान्तर्गतस्त्रीनियमातिक्रमप्रायश्चित्तस्यनैष्ठिकादिष्वप्यतिदेशात् अस्मिन्नपि प्रायश्चित्त प्राप्तिस्स्तीतिब्रह्मविद्यायोग्यताप्यस्तीति भावः । तदिदमाह - तद्वदिहापीति ।अयं भावःयदाहवनीये जुहोति इति होमसामान्यस्याहवनीयाधारत्वं विहितम् । भग्नव्रतस्यब्रह्मचारिणः अवकीर्णी नैऋतं मदर्भमालभेत इति पशुयाग विहितः । निरग्नेःब्रह्म चारिणः कथं होमकर्तृत्वमिति शंकाजायापती अग्निमादधीयातां इति दंपतिकर्तृकत्वस्मरणाच्च । अत्रैवंपूर्वपक्षः - यया अवकीर्णः तया सह अग्न्याधानं विरचस्यकर्तुं शक्यम्यद्वा नूतनभार्यामूद्वा तया सह अग्न्याधानं कृत्वा। आहिताग्निस्सन्कर्तु शक्यः इति । अत्रायं समाधिः ।अवकीर्णहेतुभूतस्त्री परस्त्रीअतो न तया सहितः अग्न्याधानयोग्यः । नूतनभार्यापरिग्रहोपि न संभवतिअविप्लुतब्रह्मचर्यः लक्षण्यां स्त्रियमुद्वहेत्। इत्यस्खलितब्रह्मचर्यस्यैवविवाहविधानात् । अतप्रायश्चित्तस्य विवाहायोगाच्च ।अतः उपनयनहोमवत्लौकिकाग्नावेव होमः कार्यः इति सिद्धान्तितम्"अवकीर्णपशुश्च तद्वत् । इत्यत्र तच्छब्देनोपनयनहोमः परामृष्टःकेचित्तु निषादस्थपतिः परामृष्टः इति वदन्ति । तस्यापि अग्न्याधानाभावेनलौकिकाग्नावेव होमस्य कर्तव्यत्वात् । इत्थं च यथा कथं चित् प्रायश्चित्तसंभवात् कृत प्रायश्चित्तस्य उत्तरविवाहादिषु अधिकार इव अस्यापिउत्तरब्रह्मविद्याधिकारः स्यात् इति ।भाष्ये ब्रह्मचारिविषये उक्तप्रायश्चित्तशास्त्रं इतर विषयक प्रायश्चित्तशास्त्रस्याप्युलक्षणम्।। “वानप्रस्थो दीक्षाभेदे कृच्छ्रद्वादशरात्रं चरित्वा महाकक्षंवर्धयेत्, भिक्षुः वानप्रस्थवत् सोमवृद्धिवर्ज स्वशास्त्र संस्कारंच । इत्यादिकं विवक्षितम् ।।

तुशब्दस्वारस्यात् पूर्वसूत्रस्य पूर्वपक्षपरत्वमभिप्रेत्यात्र तुशब्दस्यमतान्तरव्यावृत्यर्थत्वमाह - तु शब्द इति । अत एव हि पूर्वसूत्रे एके इत्युक्तम्। ननु उत्तरेषां चैतदविरोधीत्यतिदेशवचनबलात्प्रायश्चित्त सद्भावः अवगम्यते । प्रायश्चित्तं न पश्यामीति प्रायश्चित्तनिषेधेनपतनसद्भावश्चावगम्यते इति कथमनयोर्विरोध शान्तिः इत्यत्र प्रायश्चिन्तनिषेधवचनमेवविरोधपरिहारकमित्याशयेनाह - यद्यपीति । अयमाशयः - निषिद्ध कर्मणां प्रत्यवायजनकत्वंवैदिककर्मण्यधिकारप्रतिबन्धकत्वं सजातीयकर्मरुचिजनकत्वं चेति शक्तित्रयमस्तितत्र केषांचित्प्रायश्चित्तानां उक्तत्रिविधशक्ति विधटकत्वं,केषांचित्तु यथायोग्यमन्यतमशक्तिविधटकत्वम् । प्रकृतेच नैष्ठिक्याद्याश्रमप्रच्युतेअति देशबलेन प्राप्तस्य प्रायश्चित्तस्य नरकानु भवसंपादक प्रत्यवायजनकत्वशक्तिविघटकत्वमात्रमिष्यते नतु वैदिककर्माधिकारशक्तिविधटकत्वमपि"येन शुध्येत्स आत्महे"ति तत्रैवोक्तत्वात् । इत्थंच प्रायश्चित्तातिदेशपतनस्मृत्योर्न विरोधोपि । अतः प्रायश्चित्त बलेन नरकानु भवाभावेपिब्रह्मविद्याधिकारो न संभवतीति ।कर्माधिकारः =ब्रह्मविद्याधिकारः । आचाराच्चेति सूत्रखण्डमुपादायतत्तात्पर्यमाह - आचाराच्चेति । अत प्रायश्चित्तस्य वर्जनं सिद्धमित्यतउक्तं - कृत प्रायश्चित्तानामपीति । नतु तेषां शिष्टैः वर्जनमस्तुतावता ब्रह्मविद्याधिकारनिषेधः कुतइत्यत्राह - तेभ्य इति । शिष्टैर्वर्जितत्वादेवब्रह्मविद्योपदेशाभावेन न तत्राधिकारसंभवः इति भावः । यद्युप्युक्तवचनबलेनाश्रमभ्रंशस्यनिषिद्धत्ववत् अनाश्रमित्वमपि “अनाश्रमी न तिष्टेत्तु” इत्यनेननिषिद्धमेवेति उभयोस्तुल्यत्वात् केषां चिद्विद्याधिकारः केषांचिन्नेतिवैषम्यमयुक्तमिव प्रतिभातिअथापि अनाश्रमिणां तेषां विद्याधिकरस्य श्रुतत्वात् शिष्टैरगर्हणाच्चविद्याधिकारो युक्तः । भ्रष्ठानां तु कुत्रापि विद्याया अदर्शनात्शिष्टैर्गर्ह्यमाणत्वाच्च न विद्यायामधिकारो युक्त इत्यभिप्रायःएवं “शास्त्रेषु निष्कृतिर्द्रष्टा महापतकिनामपि । शरणागतहन्तुस्तुन दृष्टा निष्कृतिः क्वचित्,“कृतघ्ने नास्ति निष्कृतिः इत्यादिवचनबलेनशरणागतहन्त्रादयःप्रायश्चित्तैर्विशुद्धा अपि साधुसंस्पृष्ट्यनर्हाएवेति तेऽपि विद्यानधिकारिण एव । इयं रीतिः व्यासविद्यायामपि तुल्यानन्वेवं सति प्रपत्तेस्सर्वाधिकारत्व वचन विरोध प्रसंगः - मैवम् आश्रमप्रच्युतादिव्यतिरिक्तविषयकत्वात् तद्वचनस्य । यथा च सकिंचनानांभक्यधिकारिणां प्रपत्त्यनधिकारेपि न सर्वाधिकरत्ववचनविरोधः तथैवप्रकृतेऽपीति नानुपपत्तिः । एतेनापशूद्राधिकरणसिद्धविद्यानधिकारवतांशूद्राणामिव प्रच्युतानामपि न्यासाधिकारोयुक्तः इत्यपि निरस्तम्अथैवं सति “तं मातावापितृहन्तारमपि पातिभवार्तिहेति” वचनं कथंघटताम् मातापितृहन्तृणामपि प्रपत्त्यधिकारोक्तेः । आश्रमप्रच्युतस्यतदपेक्षयाप्यपापशालिनः प्रपत्त्यधिकारस्यावश्यकत्वात् इति चेत् मैवं - शास्त्रानुसारेणार्थस्यनिर्णेयत्वात् । शास्त्रं हि “तं मातापितृहन्तारमपि पाति भवार्तिहे"ति मातापितृहन्तृणां प्रयत्त्यधिकारः ब्रवीति । आश्रमप्रच्युतानां तु कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्ताभावकथनेन प्रपत्त्यनधिकारं च । अतो वचनात्प्रवृत्तिः ।वचनान्निवृत्तिरिति केषां चिदधिकारः केषां चिदनधिकारश्च युक्त एव । अत एवाश्रमप्रच्युतिः अधिकपापजननीति च निश्चीयते । आश्रमप्रच्युतानामपि तज्जनितकर्मजन्यफलभोगानन्तरं जन्मान्तरे अधिकारः संभवति इति च ध्येयम् ।।ब्रह्मचारी गृहस्थः वानप्रस्थः सन्यासी इति चत्वारः आश्रमिणः ।एतेषां सर्वेषामपि सत्वरजस्तमोगुणतन्निबन्धनकार्यकरणं समानं, यःसात्त्विकःस एव कालान्तरे तामसः राजसश्च भवितु मर्हति ।सर्वदा सात्विकः सर्वदाराजसःसर्वदा तामसः इति न नियन्तुं शक्यम् । अष्टादशपुराणकर्ता व्यासोपिकालभेदेन गुणाभिभवात् विष्णुपुराणादिकं चकार ।तत्तदाश्रमप्रयुक्त धर्माणा मननुष्ठाने ततः प्रच्यवने एते आभासाश्रामिणोभवन्ति । हेत्वाभासाः आभासहेतवः इतिवत् । विवाहानन्तरमपि कच्चपुच्छादिधारणंविना स्थितौ गृहस्थाभासः । तत्रापि क्रमेण वस्त्रधारणेपिगृहस्थधर्माननुष्ठानेसोपि आभास एव । धर्मानुष्ठानेपि अग्निहोत्राद्यकरणे “नान्तरा भोजनंकुर्यादित्यादिनियमातिक्रमणेच।आभास एव सः । तत्तदुचितधर्मपरित्यागेअधर्मकरणेच तारतम्यमनुसृत्य आभासतारतम्यम् । इदं सर्वाश्रमिष्वपिसमानम् । अद्यकाले गृहस्थः भिक्षुः इति आश्रमिणौ द्वावेव । नैष्ठिकब्रह्मचारी वानप्रस्थश्च न स्तःगृहस्थस्येव भिक्षोरपि बहवःधर्माः असाधरणाः वर्तन्ते । तेभ्यः प्रच्यवनेतत्तत्तारताम्यमनुसृत्याभासतारतम्यं भवति । काषायदण्डमात्रं स्वीकृत्यभिक्षाचरणे आभासभिक्षुरेव सः । पुत्रेषणायाः वित्तेषणायाः दारेषणायश्चव्युत्थाय भिक्षाचर्यं चरेदिति नियमसत्वात् । अत्रेषणात्रयपरित्यागविषये एकेषणात्याग, ईषणाद्वयत्याग ईषणात्रय त्यागाः यथा संभवमधिकारिभेदेन भवेयुः । तदनुसारेण आभासतारतम्यं आनाभासत्वं च संभवति । परित्यक्तेषणात्रयः यथा परित्यक्त पितृतर्पण, अग्निहोत्रादिकर्म अध्ययनहोमादिको यतिःपुनरपि न तानि कर्माणि उपादातुमर्हतिस एवानाभासाश्रमी । परित्यक्तपुत्रदारेषणोपि सत्कार्यकरणार्थं अपरित्यक्तवित्तेषणःएकया विधाय सात्विकोपि मुख्याश्रमी न भवति ।स्वार्थं न धनेषणा ममसत्कार्यर्थमेवेत्यस्य तात्त्विकत्वेपि तत्तदर्थवित्तेषणाया अपिपरित्यागँस्य शास्त्रेणोक्तत्वात् ।“भिक्षेति शिष्यजनरक्षणदीक्षितेतिशाटीति शाश्वत मठोपधिकल्पनेति । ग्रन्थोपसंग्रहण मूल्यमिति ब्रुवाणाःसन्यासिनोपि दधते सततं धनायां” । इति श्रीदेशिकचरणैः स्पष्ट मुक्तत्वात्अतोऽयमपि न मुख्य भिक्षुर्भवितुमर्हति । भगवदाराधनार्थमपिहिभिक्षुः नैव स्वहस्तेन तुलसीदलं हर्तुमर्हतिश्रीवण् शठकोपश्रीवीरराघवयतीन्द्र महादेशिकैः पूर्वाश्रमे अनुगृहीतवैकुण्ठविजय चम्पूग्रन्थे अयमंशः उक्तः ।“कष्टंकष्टमहो महान् हतकले रुन्मेष एष स्वयं सन्यासाश्रममाश्रिताःकटिलसत्कन्थाः विरक्ता इव ।भिक्षां सेवकदक्षिणामथ तदुद्वाहं गृहं शाटिकां व्याजीकृत्य समार्जयन्तिबहुशो द्रव्याण्मी निर्भयाः ।।अन्याय्यं किमितोऽस्ति यत् हतकलौ सन्यासिनोऽन्यादृशासूया हन्तपरस्परं विदधते स्वैरं हि वैरं त्वमी ।अन्योन्यं मृतिचिन्तकाः किल मिथः शिष्यापहारोद्यता भूयिष्टासु सुदुर्वचासुच मिथः निन्दास्वमन्दाशयाः ।।“इत्यादिना ।। अतस्सर्वैरपि आश्रमिभिः स्वात्मरक्षणार्थं जागरुकैःभाव्यम् ।। “अधिगतनिगमान्त शोधकानप्यहहधनादि निदर्शनेन भूयः । कलुषयतिचतुष्पदाद्यभिन्नात् अघटितघटनापटीयसी माया” इति श्लोकविषया एव भवेयुःधनादिस्पृहासत्वे । गुरुमातृपितृभ्रात्रादिभिः शिक्षितानामपि धनेच्छाभूयसी भवति इतीदं लोकदृष्टम् । सामान्यत एव सर्वेषां धनेच्छा त्याज्याअन्यथा श्रीवैष्णवाः न ते । आद्योपनिषद्येव “मा गृधः कस्यस्वित्धनमित्युपदिष्टम् । अत्राचार्यभाष्ये श्लोकद्वयं विष्णुपुराणस्थमुदाहृतम्।। “परमसुहृदि अशुभमतिः” इत्यादिकंअन्यदपि विष्णुपुराणोक्तं ग्राह्यं - न जातु कामः कामानामुपभोगेनशाम्यति । “यत्पृथिव्यां व्रीहियवंहिरण्यं पशवः स्त्रियः । एकस्यापिन पर्याप्तं तस्मात् तृष्णां परित्यजेत् । या दुस्त्यजा दुर्मतिभिःया न जीर्यति जीर्यतः ।तां तृष्णां सन्त्यजेत् प्राज्ञः सुखेनैवाभिपूर्यतेधनाशा जीविताशा च जीर्यतोपि न जीर्यतः । जीर्यन्ति जीर्यतः ।केशाः दन्ता जीर्यन्ति जीर्यतः तथाप्यनुदिनं तृष्णा ममतेषूपजायते"इत्यादिययातिवाक्यानि”.समान्यपुरुषाणामपि धनाशादिकं त्याज्यं, श्रीवैष्णवांनां सर्वथाप्रपन्नानां ततोपि सर्वथा । जनादिभ्यः उपदेशं कुर्वाणानां गृहस्थानामपिततोपि सर्वथा । सर्वदा च यतीनाम् । व्याजावलम्बनं सर्वसुलभमितिनिषेधशास्त्राणि अत्यन्तं त्याज्यान्येव भवेयुः । दूषणत्रयरहितत्वस्यसास्नादिलक्षणासाधारणत्ववत् ईषणात्रयराहित्य पूर्वकं भिक्षाचरणंयत्यसाधारणम् । सूत्रकृत्काले एव आश्रम भ्रष्टाः आसन् इति ज्ञायतेसत्कार्यकरणश्रद्धालवः केचित् न स्वार्थं वयं कुर्मः इति वदन्तःविमानादिमूलमपि द्रव्याद्यार्जनं रचयन्ति । नायं दोषः इति च कथयन्तिधर्मं अधर्मं च न वयं जानीमः । न वयं सर्वज्ञाः । नापि बहुश्रुताःतत्त्वं तु भगवानेव वेद । वयं तु अपराधभीरवः ।।परं तु गृहस्थस्य यथावदनवस्थितत्वेपि प्रायश्चित्तादिना शुद्धिःसंमता । अन्येषां तु प्रायश्चित्तैरपि न शुद्धिसंभवना । उत्तरकर्मस्वपि नाधिकारः । स्वयं तरितुमक्षमः इति स्थितस्यान्येषांसंस्कारकरणयोग्यतापि नास्ति इति ।। तद्भूताधिकरणं समाप्तम् ।।