49 विधुराधिकरणम्

(3.04.09) विधुराधिकरणम्संगतिं प्रदर्शयति - चतुर्णामिति । ब्रह्मचर्याद्याश्रमनिष्ठानांविद्यासहकार्याश्रमधर्मानुग्रहेण विद्यानिष्पत्त्या विद्यायामधिकारःउक्तः । अथाश्रमरहितानामाश्रमांगकर्माभावेन तदङ्गकब्रह्मविद्यायामधिकारःअस्तिनेवेति संशयात्संगतिरिति भावः । आश्रमान् अन्तरा=आश्रमान्विहायेत्यर्थःअअनाश्रमिणामिति यावत् । विधुरादय इति । विधुरः मृतदारः । आदिशब्देनाकृतदारपरिग्रहःआआश्रमधर्मेति कर्तव्यताकत्वात्विद्याया इति। “नहि तत्करणं लोकेवेदे वा किंचिदीरितम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिते"तिवचनात् इतिकर्तव्यताख्यांग विरहिणः साधकत्वासंभवावगमेन,अनाश्रमिषुचविद्यांगभूताश्रमधर्मा संभवात् तत्र विद्यानु ग्रहोह्यनुपपन्न इतिन तेषां विद्यायामधिकारो युक्तः इति भावःसिद्धान्तमाह - इति प्राप्त इति । सूत्रे तुचापीत्यव्ययत्रयस्यापिसार्थक्योपादनायाह । तु शब्द इति ।“स्युरेव तु पुनर्वैचेत्यधारणवाचिनः"इति चशब्दस्याप्यवधारणवाचकत्वोक्तिमभिसन्धायाह - च शब्द इति । अन्तरावर्तमनानामिति व्याख्येयम् । अनाश्रमिणामिति लब्धार्थकथनम् । अस्त्येवेत्यनेनचशब्दार्थस्यान्वयोदर्शितः । रैक्वः=मृतदारः जान श्रुत्याचार्यःभीष्मः स्वपित्रर्थमकृतदारपरिग्रहः अनुष्ठितस्नातक वर्तनव्रतःकेचित्तुः भीष्मो गृहस्थ एव । अद्य प्रभृति मे दाश ब्रह्मचर्यंभविष्यति । परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः इति तेनैवोक्तेःअत्र मैथुन परित्यागोक्तेः कन्यका विवाहः पूर्वमेवसिद्ध इति ज्ञायतेआनुशासन पर्वणि “स्तूयमानो महातेजाः भीष्मस्याग्नीन् अनुव्रजन्"प्राप्तोऽस्मि समयेराजन् अग्नीनादाय ते विभो । इति श्रवणात् आहिताग्नित्वमवगम्यतेइति गृहस्थ एव भीष्मः ।ननु कथमत्रानाश्रमिमध्ये भीष्मोपादानं इति चेदयमभिप्रायः - अन्तरावर्तमानानां=तत्तदाश्रमीयपूर्ण धर्मानुष्ठानरहितानामित्यर्थः ।भीष्मस्य गृहस्थत्वेपि गृहस्थधर्मेषु बदुषु केषांचिदेव धर्माणामनुष्ठानमितिभीष्मोपादानस्ययुक्तत्वात् । तेषामप्यधिकारस्य संमतत्वात् । गृहस्थेष्वपि द्रव्यादिसंपद्रहिताःवर्तन्ते ।तेषां कथं यागादिकतृत्वम् । तेषामपि हि ब्रह्मविद्यायामधिकारोवाप्यः । न हि सर्वेपि ब्रह्मनिष्टाः धनिकाः । अतो पत्नीविधुराणामिवद्रव्यादिशक्तिविधुराणामपि ग्राह्यत्वम् । शांकरे एवमेवोक्तमितिवदन्ति । संवर्तोपि=विधुरःएते तु प्रसिद्धेषु ब्रह्मचर्यगार्हस्थ्य वानप्रस्थ सन्यासाश्रमेषुनैकमप्याश्रममास्थिताः इति निराश्रमाः ब्रह्मविद्यानिष्टाश्च पश्चाच्चैतेगार्हर्स्थ्याद्याश्रम निष्ठाः । तथा हि शुश्रूषुर्जानश्रुतिर्हिहंसोक्तानादरवाक्य श्रवणानन्तरं स्वस्य संवर्गविद्याला भाय रैक्वायस्वकीयकन्यां प्रादादिति उपनिषत्प्रसिद्धम् । अतोग्रहस्थः । संवर्तोऽपिपूर्वं विधुरः पश्चाद्गृहस्थः । गृहस्थासाधारणार्त्विज्यादि श्रवणात्उक्तं च शतदूषण्यां अलेपकमतभंगवादे - आश्रमित्वाभावे कथं वाताशनस्यैवसवर्तस्य महीभृता ऋत्विकत्वेन वरणम्….गृहस्थस्यैव ह्यार्त्विज्यादिकम्? । पूर्वं विधुरस्यापि कार्यार्थंदारक्रियादिपूर्वकमार्त्विज्यं युज्यते इति । केचितु अस्यैव पुनर्विवाहानन्तरंसन्यासमप्याशेरते । नन्वेतेषु विद्यादर्शनमस्तु । अथापि कथं विद्यानुग्रहःआश्रमधर्माभावादिति शंकां परिहरति - नचेति । अनैकान्तिकानामपि=अनियतानामपीत्यर्थःआश्रमधर्माणामेव विद्यांगत्वमिति न नियमः । वर्णधर्माणामपि विद्यांगत्वात्यज्ञेनेति तृतीयाश्रुत्या यज्ञादीनामाश्रमधर्माणां विद्यांगत्वावगमवत्दानेनेत्यादिना आश्रमानियतवर्णधर्माणामप्यङ्गत्व प्रतीतेः । ततश्चनिराश्रमिणां आश्रमधर्माभावेपि वर्ण धर्मस्य सत्वात् तेन विद्यानुग्रहसंभवाच्च तेषां विद्याधिकारो युक्त एवेति भावःएवं प्रमाण बलेन वर्णधर्माणां विद्यांगत्वमुपपद्य अग्नीन्धनाद्यधिकरणसिद्धमर्थंदृष्टान्तयन् दर्शनबलेनापि तत्कल्प्यमित्याह - यथेति । धर्शनानुसारेणहिऊर्ध्वरेतःसु आश्रमधर्माणामंगत्वं कल्पितं, तथैवात्रापि वर्ण - धर्माणामङ्गत्वंकल्प्यमिति तैरेव विद्यानुग्रहस्सुवचः । उभयत्राङ्गत्वं श्रुतिसिद्धमपीतिभावः । ननु वर्णधर्मैरेव विद्यानुग्रहे शूद्रस्यापि तादृशधर्मसत्वेनविद्यानुग्रहसंभवात् अनाश्रमिणाभिवास्यापि ब्रह्मविद्यायामधिकारःस्यात् मैवम् । अपशूद्राधिकरणे निषेधेनाधिकारापादनासंभवात् । विधुरादीनांतुवेदाध्ययनादि विद्यानुष्ठानौपयिक बहुविधधर्मदर्शनाद् विद्यादर्शनाच्चाधिकारस्स्वीकृतःशूद्रादिविषयेतु वेदाध्ययनादिनिषेधेनविद्यानुष्ठानौपयिकधर्माभावात्विद्यासंभवकल्पक प्रमाणाभावाच्च नतेषामधिकारकल्पनं शोभनमिति ।।आश्रमाःचत्वार एव, आचार्यकुले आत्मानमवसादयन् यावदायुषं यो वर्तते सः नैष्ठिकब्रह्मचारी । अन्ये गृहस्थादयः प्रसिद्धाः । वेदाद्यध्ययनानन्तरंआचार्य कुलात् आगतः विवाहपर्यन्तं उपकुर्वाणब्रह्मचारी । स तु ननैष्ठिकः । अनाश्रम्येव । स्नातकव्रतानुष्ठानानन्तरंविवाहात्पूर्वमपिअनाश्रम्येव ।। रैक्वः मृतदारोवा भवतु अतविवाहो वा भवतु । उभयथाप्यनाश्रम्येव।। अयमिहभावः ।विद्यांग कर्मणां अदृष्टद्वैरैव सहकारित्वंनतु अवहनवादेरिव दृष्टद्वारेण । यावत् तुषविमोको जायते तावत् अवहननादिकार्यम् । अवहननादिषु तारतम्यमूलं तुषस्याल्पत्वबहुत्वतारताम्यंदृष्टम् । अतस्तत्र सामग्री प्राबल्यमावश्यकम् । भगवत्प्रसादरूपादृष्टद्वारेणफलजननविषये न फलतारतम्यम् ।भगवान् तत्तदाश्रमिणामनाश्रमिणां च विद्यांगभूत कर्मसु यावत् शक्यं अनुष्टातुं तल्लोपंविना करणे प्रसन्नः विद्योत्पत्तिविरोधिपापंनाशयामीति संकल्पितवात् । अतस्तदनुष्ठानं पर्याप्तमिति ।।

उत्तरसूत्रं व्याचष्टे - अपि चेति । जप्येनापि = जप्येन मन्त्रेणापीत्यर्थः ।मन्त्रजपेनापीति यावत् । संसिध्येत् = निःसन्देहं सिद्धिं प्राप्नोतीत्यर्थः ।कुर्यादन्यन्न कुर्याद्वेति । वैदिकं यागादिकं करोतु वा न करोतुवेत्यर्थः । मैत्रो ब्राह्मणः उच्यते इति । ब्रह्मणस्संबन्धी ब्राह्मणःब्रह्मविद्यानिष्ठ इति यावत् । मित्रमेव मैत्रः । स्वाऽर्थेऽण् ।सर्वप्राणिप्रियः इत्यर्थः । यज्ञाद्यनुष्ठाने प्राणिवधादिसंभवेनसर्वप्राणि प्रियत्वं न स्यादिति यज्ञाद्यकरणेपि न किंचिद्बाधकंमोक्षसिद्धेः प्रणवादिमन्त्रजपेनैव संभवादित्यर्थःइदंच वाक्यं प्राणवध संभावनया यज्ञादिकं न कर्तव्यमिति यज्ञादिनिषेधेन तत्परम् । किं तु यज्ञाद्यभावेपि जपादिनैव सिद्धिरित्येतन्मात्रबोधनपरमितिमन्तव्यम् ।। विद्यानिरपेक्ष सिद्धि परिहारायार्थमाह - जपाद्यनुगृहीतयाविद्ययासिद्धोभवतीत्यर्थः इति ।। वर्णधर्माणामपि विद्यांगत्वे श्रुतिरिवस्मृतिरपि प्रमाणमिति अनेन सूत्रेण दर्शितम् ।।

अनन्तसूत्रार्थमाह - न केवलमिति । धर्मविशेषैर्विद्यानुग्रह इत्यनेनसूत्रस्थ विशेष शब्दः तदुपरि समासश्च विवृतः । अत्र तप आदिधर्मविशेषाणांविद्योत्पादकत्वोक्तेः तैरपि विद्यानुग्रहसंभवात् अनाश्रमिणां चैतत्संभवात्तेषामपि विद्याधिकारः युक्त । अत्रानाश्रमधर्माणां विद्यांगत्वंश्रुतिसिद्ध मित्येतत्प्रदर्शनं सूत्रकृत्यम् । पूर्वसूत्रकृत्यंतुस्मृतिसिद्धत्व प्रदर्शनम् । प्रथम सूत्रकृत्यं अनाश्रमिष्वङ्गिभूतविद्याप्रदर्शनमितिविवेकः ।।

अनन्तरसूत्रं व्याचष्टे - तुशब्द इत्यादिना । अत इति व्याख्येयम् । इतरदित्यपिव्याख्येयम् । आश्रमित्वस्य ज्यायस्त्वे अनाश्रमित्वस्य दुष्टत्वं स्यादित्यत्राह- अनाश्रमित्वमिति । आपदभावे अनाश्रमित्वं दुष्टमेवेति भावः । शक्तस्यत्वित्यादि । अनेनाश्रमानियतधर्माणामपि विद्यानुग्राहकत्वे आश्रमप्राप्ति-क्षमाणामपि आश्रमोपेक्षा स्यात्, यज्ञादिश्रुतिवैयर्थ्यं च स्यादिति शंकानिरस्ता । क्षमाणामाश्रमित्वस्यावश्योपादेयत्वात्, अन्यथा प्रत्यवायात् ।हेत्वन्तरमप्याह - भूयोधर्मकेति । शक्तविषये इत्यध्याहारः । शक्तस्य भूयोभिरेवधर्मैर्विद्यानुग्रहः नत्वल्पधर्मैरपि, अशक्तस्य तु अल्पधर्मैरपि । अतः शक्तविषयेभूयोधर्मसाध्यविद्यानुग्रहस्याल्पधर्मैरसाध्यत्वात् ।विद्यानुग्राहार्थमाश्रमस्वीकारेणाश्रमधर्मानुष्ठानमेव युक्तमितिभावः । अनेन गुरुलघुविकल्पोऽपि परिहृतः । स्मृतेः श्रुत्यनुमापकत्वेनलिंगशब्दवाच्यत्वमित्यभिप्रायेण - स्मृतेरित्यर्थः इत्युक्तम् । आपच्छब्दार्थंविवृणोति - निवृत्तेति । निवृत्तब्रह्मचर्यस्येत्यनेन स्नातकग्रहणम्नन्वेतयोरुभयोरपि सन्यासाश्रमस्वीकारेणानाश्रमित्वमपयातीत्यत्राह - अवैराग्येसतीति । अविरक्तत्वे दारपरिग्रहणे आश्रमित्वसंपादनं सुशकमित्यत्राह - दारालाभइति ।। नन्वनयोरविरक्तत्वात्कथं ब्रह्मविद्यायामधिकारःविरक्तस्यैव मोक्षार्थविद्यायामधिकारादिति चेत् न । दारादिपरिग्रहरागसंभवेपि देहान्तरोपभोग्यब्रह्मव्यतिरिक्तफलाशाभावेन मुमुक्षुत्वौपयिकवैराग्यसंभवात् । दारादिषु भोग्यताबुद्धिसत्त्वेपि भोग्यतातिशयबुद्धिकृतरागाभावसंभवाच्च । अतः लोकान्तरजन्मान्तरभोग्यनैरपेक्ष्यरूपवैराग्यस्यसर्वमुमुक्षुसाधारण्यं संभवतीति न किञ्चिद्बाधकम् । यद्वा अवैराग्ये सति - गार्हस्थ्यधर्मश्रद्धायां सत्यामित्यर्थः ।। यद्यप्यस्याधिकरणस्य अन्तरत्वाधिकरणमिति वाअनाश्रम्यधिकरणमिति वा नामधेयकरणं युक्तम् । विधुरस्येव तद्व्यक्तिरिक्तस्याप्यनाश्रमिणः ब्रह्मविद्याधिकरस्यात्र समर्थनात्, अथापि अनाश्रमिभूतानां विधुराणांइतरानाश्रम्यपेक्षयाप्याधिक्येनानाश्रमित्वप्रसिध्यतिशयसत्त्वात् विधुराधिकरणमितिनामधेयं कृतमिति बोध्यम् ।। विधुराधिकरणं समाप्तम् ।।