(3.04.08) विहितत्वाधिकरणम्संगतिं सूचयन् संशयादिकं प्रदर्शयति - यज्ञादीतिसर्वापेक्षाधिकरणे यज्ञादीनां ब्रह्मविद्याङ्गत्वमुक्तं, तेषांविद्यांङ्गत्वेचामुमुक्षुभिः गृहस्थाश्रमादिनिष्टैरनुष्टेयत्वमस्तिन वेति संशयोत्थानात्संगतिरिति भावः ।नित्यानित्यसंयोगविरोधइतिअग्निहोत्रादिधर्माणां यावज्जीवमनुष्ठानं, मोक्षेच्छानुगुणमनुष्ठानंच विरुद्धमिति भावः । इदमत्रतात्पर्यम् ।मुमुक्षिभिः कर्मणां विद्यांगत्वेमुमुक्षूणामेव विद्यायामधिकारेण मुमुक्षायां सत्यामेव यज्ञादीनामनुष्ठेयत्वमित्यनित्यत्वमेव स्यात् । आश्रमाङ्गत्वेच यावज्जीवमग्निहोत्रंजुहोति इति गृहस्थैर्यावज्जीवानुष्टेयत्वविधानात् नित्यत्वं च स्यात्ततश्च नित्यत्वानित्यत्वयोरेकत्र समावेशप्रसंगःअतः कर्मस्वरूपभेदः मुमुक्षूणामाश्रमिणां द्विवारानुष्ठानं च प्रसज्यतेन चैकस्य कर्मणः नित्यत्वकाभ्यत्वोभयाभ्युपगमवत् विद्यांगकर्मणामाश्रमाङ्गकर्मणांच स्वरूपैक्ये प्रमाणमस्ति । अतो विद्याङ्गकर्मणामाश्रमाङ्गत्वासंभवात्केवलतत्तदाश्रमिभिः आश्रमाङ्गकर्मानुष्ठानेपि विद्यांगकर्मानुष्ठानंन सिध्यतीति न यज्ञादीन्यनुष्टेयानीति । सिद्धान्तमाह - इति प्राप्तइति । तात्पर्यं व्यनक्ति - केवलाश्रमिणाप्यनुष्टेयनीति। यज्ञादीनि कर्माणीत्यध्याहारः । हेतुपरं खण्डं व्याचष्टे - यावज्जीवमितिनित्यवद्विहितत्वादिति । नित्यं सदा यावदायु…….फलाश्रुतेःर्वीत्सयावातन्नित्यं समुदाहृतमित्युक्तप्रकारेण नित्यत्व गमकलिंगबलेन नित्यत्वस्याभ्युपगम्यत्वात्नित्यमनुष्ठानसिद्धिः यज्ञादि कर्मणामिति भावः ।।
ननु नित्यतया विहितत्वेनाश्रमशेषत्वमभ्युपगम्यताम् । विद्याङ्गत्वंच एवं मास्तु नित्यानित्यसंयोगविरोधादितिशंकापरिहार परमुत्तरसूत्रमर्थानुवादेनावतारयति - तथाविद्यांगतया चेति ।विद्याकर्मणोस्समसमुच्चय व्यावृत्त्यर्थं - विद्योत्पत्तिद्वारेणत्युक्तम्नित्यानित्यसंयोगविरोधं, परिहरति - अग्निहोत्रादीनामिवेति । विनियोगपृथक्त्वेन - अंगत्वज्ञापकविधेःविनियोजकप्रमाणस्य भिन्नत्वेनेत्यर्थः ।अयमभिसन्धिः=अग्निहोत्रं जहुयात्स्वर्गकामःइत्यादि शास्त्रैः विहितस्याग्निहोत्रादि कर्मणां काम्यत्वेनानित्यत्वंतस्यैव यावज्जीवमग्निहोत्रं जुहोतीति नित्यतया विधानात् नित्यत्वंचेति विरुद्धधर्मयोस्समावेशो दृष्टःतत्र च विनियोजक प्रमाणभेदेन विरोधपरिहारः तान्त्रिकैः क्रियतेःतथैवात्रापि एकस्यैव यज्ञादिकर्मणः “यज्ञेनदानेन’ इत्यादिना विद्यांगत्वंयावज्जीव मित्यादिना आश्रमांगत्वं सिद्धमितिविनियोजक प्रमाणभेदेनउभयार्थत्वसिद्धिरिति नित्यत्वानित्यत्वविरोधपरिहारस्तुल्यः । अतोनोभयार्थत्वं विरुद्धमिति । अत्र सूत्रद्वयेन यज्ञादीनां विनियोगपृथकत्वंस्थापितम् ।।
नन्वस्तु यज्ञादीनां विद्यांगत्वमाश्रमाङ्गत्वंच अथापि स्वरूप भेदस्स्यात्इति शंकापरिहारपरमुत्तरसूत्रं फलितार्थकथनेनावतारयति - तद्वदेवतिसर्वथेति=व्याख्येयम् । उभयलिंगात् उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वलिंगादित्यर्थःननु शब्दस्वरुपैक्यं न प्रयोजकं, अग्निहोत्रशब्दस्य तुल्यत्वेपिकुण्डपायिनामयनाग्निहोत्रे मासमग्नि होत्रं जुहोतीति विहिते स्वरूपभेददर्शनादित्यत्राह - कर्मस्वरूपभेदेप्रमाणा भावादिति । तत्र प्रमाणानुरोधेन भेदः स्वीकृतः । अत्र चस्वरूपभेदकप्रमाणाभावेन प्रत्यभिज्ञाप्य मानत्वरूपलिंगस्य बाधकंनास्तीति न स्वरूपभेदोयुक्तः इतिभावःएवं स्वरूपभेदनिरसनेन मुमुक्षणाऽऽश्रमिणागृहस्थेन तन्त्रेण यज्ञादिकमनुष्ठेयम्तावतैव सामञ्जस्यादिति सूचितम् ।तत्र फलार्थ मनुष्ठीय मानेन अग्निहोत्रदर्शपूर्णमासादिकर्मणैव नित्यानुष्ठानस्यापि सिद्धिः । तदुक्तं - नित्यकाम्यस्वरूपैक्येविनियोगपृथक्त्वतः । फलार्थं क्रियमाणेपि नित्यं भवति तन्त्रतः इति ।।
उत्तरसूत्रार्थमाह - धर्मेणेति । तानेव यज्ञादिधर्मान्निर्दिश्येतियज्ञेन दानेनेत्यादिना अंगत्वेन प्रतिपन्नान् यज्ञादीन्, धर्मेणपापमपनुदतीत्यत्र यज्ञादिवाचकधर्मशब्देन निर्दिश्येत्यर्थः । ततश्चाङ्गत्वप्रयोजककिंचित्कारःपापकर्मभिरुत्पत्ति प्रतिबन्धाभावरूपः इति दर्शितम् । दर्शयति - श्रुतिरितिशेषः । उत्पत्तिप्रतिबन्धाभावरूप किंचित्कारमेव विवृणोति - अहरहरितितथाचांगभूतयज्ञादिधर्मानेव धर्मशब्देन निर्देशात् प्रसिद्धाग्निहोत्रादिधर्मस्यैव विद्योत्पत्तिप्रतिबन्धकपापापनोदनहेतुत्वोक्तेः तस्यैव विद्याङ्गत्वंस्वरससिद्धं न भञ्जनीयमिति भावः ।। विहितत्वाधिकरणं समाप्तम् ।।