(3.04.07) सर्वान्नानुमत्यधिकरणम्एवं ब्रह्मविद्यानिष्ठानां शमदमादयोऽनुष्ठेयाःइति पूर्वाधिकरणे प्रतिपादितम् । तत्र भोजननियति रूपशमविशेषोऽस्तिनवेति अस्मिन्नधिकरणे विचार्यते इति संगतिः । विषयं प्रदर्शयति - वाजिनामित्यादिनाअस्य=प्राणविद्यानिष्ठस्य ।अनन्नं=अनदनीयम् । अनदनीयं न जग्धंभवति, नापि परिगृहीतं भवति,एवंविदि=प्राणविद्यानिष्ठे,किमप्यन्नमनदनीयंन भवतीत्यर्थः। सर्वान्नानुमतिः=निषिद्धान्नस्यापि भोजनानुमतिरित्यर्थःवविशेषानुपादानात्सर्वदेति । उदाहृतश्रुतौ आपद्विषयत्वा प्रतीतेःशब्दस्वाभाव्येन प्रतीतार्थस्य परित्यागे बीजाभावाच्च सर्वदापिसर्वान्नानुमतिः युक्तातस्माद्वच नात्प्रवृत्तिर्वचनान्निवृत्तिरिति वदतां शास्त्रप्रामाण्यशालिनामस्माकंप्राणविद्यानिष्टस्य निषिद्धभक्षणानुमतिरंगी करणीयैव । निषिद्धभक्षणनिषेधशास्त्र तु न हिंस्या"दित्यादिकमिव विहितव्यतिरिक्तविषयकमेवेतिशास्त्रज्ञैरभ्युपगन्तव्यमिति भावः । ननूदाहृतवचनबलात् प्राणविद्यानिष्टेसर्वान्नानुमति सिद्धावपि प्रकृते ब्रह्मविद्यानिष्टे न तत्प्रसक्तिरितिचेत् मैवं, अल्पशक्तेः प्राणविद एव सर्वान्नानुमतिसिद्धौ अधिकमहिमशालिनिब्रह्मविद्यानिष्ठे सर्वान्नानुमितेः किं पुनर्न्यायसिद्धत्वेनपृथग्वचनानपेक्षणात्अतःप्राणविद्यानिष्ठस्येव ब्रह्मविद्यानिष्टस्यापि सर्वान्नानुमितेश्शास्त्रसिद्धत्वात् भोजनरूपशमविशेषो नास्त्येव ब्रह्मविदाम् ।तथा च विहितव्यतिरिक्तविषयेष्वुपरतिरूप शमादिः न ब्रह्म विदि भवितु मर्हतिनिषिद्ध भक्षणादीना मस्मिन्ननुमति सत्वात् शमादेर संभवात् ।।प्राणोपासकस्यापि कथम भक्ष्यभक्षणादिरूपापथ्ये सति उत्पत्तिरितिन शंक्यम् । केषांचिदोषधीनामपथ्ये सति र्कायकरत्वाभावेपि केषांचित्अपथ्यकरणेपि तदभावात् । अपथ्यजायमान विपरीतफलनाशकत्वस्य तेषु विद्यमानत्वात्।। यो ह वै ज्येष्टं च श्रेष्टं च वेद सवैज्येष्टश्च श्रेष्टश्चभवति इत्युक्ता प्राणविद्याअस्याः स्वरूपंपूर्वमेव प्रतिपादितम् ।। निकृष्टस्य प्राणविद एवसर्वान्नानुमितौ ब्रह्मविद्यानिष्टस्याधिकमहिमशालिनः किमु वक्तव्यमितिससिद्धान्तमाह - इति प्राप्त इति । श्रुतस्य चशब्दस्य यथावदन्वयेविपरीतसाधकत्वमित्यभि सन्धायान्वय प्रदर्शनेनार्थमाह - प्राणात्ययापत्तावेवेत्यर्थःइति । अन्यथा प्राणात्यये इत्यस्य वैयर्थ्यापत्तेः प्राणात्ययेसर्वान्नानुमतिरेवेत्यन्वयेपि उक्तार्थे एव पर्यवसानावश्यकत्वाच्चायमेवार्थःइति भावः । तद्दर्शनादिति खण्डं ब्रह्मविद्विषयतया व्याचष्टे - दृश्यतेहीतिवक्ष्यमाणार्थमुपजीत्य अपिशब्दःअस्तु ब्रह्मविद्यानिष्टस्य तथाभ्युनुज्ञानं,तावतापि प्राणविद्यानिष्टेसर्वान्नानुमितेः सार्वकालिकत्वाभ्युपगमे किं बाधकमित्यत्रापिशब्दसूचितमर्थमाह - किंपुनरिति ।प्राणविद्यानिष्ठादधिकमहिमनि ब्रह्मविद्यानिष्ठे एव प्राणभंगप्रसंगे एव निषिद्धभक्षणदर्शनात् प्राणविद्यानिष्ठस्य निषिद्धभक्षणानुमतिरपि आपद्विषयैवेति कैमुत्यन्यायेन सिध्यतीति भावः ।अथ ब्रह्मविद्यानिष्ठः कः । कथं च तस्मिन्नापद्विषये एव सर्वान्नभक्षणदर्शनमित्यत्रविस्तरेणोपपादयति । चक्रायणस्यापत्यं पुमान् चाक्रायणः। उषस्त्यनुष्ठितार्थेप्रामाण्यसंवादाय,एतत्कर्तृक प्रस्तातोद्गातृ प्रतिहर्तृविजयाभिव्यक्यै च ब्रह्मविदग्रेसरःइत्युक्तम्मटची = पाषाणवृष्टिः ।इभ्यग्रामे=हस्तिपकग्रामे । इभमर्हतीति इभ्यहस्तिपः । प्रकृतसाध्यार्थोपयोगितया - अनशनेन प्राणसंशयमापन्न इत्युक्तम्तदात्वेऽनिषिद्धभक्षणस्यैव वाऽवश्यकर्तव्यत्वे ब्रह्मविद्यानिष्पपत्तयेइति हेतूक्तिः । अनेन प्राणविद्यानिष्पत्त्यर्थतयापि तदनुष्ठानसंमतिः प्रदर्शिता ।।कुल्माषान्=माषविशेषान् । निषिद्धत्वबुद्धिपूर्वकतयैव तदनुष्ठानमितिसूचनाय - तेन चोच्छिष्ठेभ्योऽन्ये न विद्यन्ते इति प्रत्युक्तः इतिभाषितम् । निषेधभूयस्त्व सूचनाय इभ्योच्छिष्ठान्, स्वोच्छिष्टभूतान्पर्युषिताश्चेत्युक्तम् ।। नन्वस्त्वेवं अथापि “न हवा” इत्यादिश्रुतौअविशेषेण सर्वान्नानुमिते र्बोधनस्य कथं निर्वाहः इत्यत्राह - अतइति । प्राणात्ययापत्तावेवेति । कैमुतिकन्यायेन दुर्बलप्राणविद्यानिष्ठस्यप्राणात्यये एव सर्वान्नानुमतिरिति सिद्धेः अविशेषेण कीर्तितत्वेपिऔचिन्यात्कालनियतिपरतयैव तादृशश्रुतिः निर्वाह्येति भावःइदमुपलक्षणं अभोज्य भोजन निषेधशास्त्रस्य संकोचकरणमपि न संभवतिनिषिद्धभोजनस्य प्राण विद्यांगत्वेन विधानाभावात् । तत्र निषिद्धभोजन स्यानुमतिमात्रं हि दीयते । अतोपि न सार्वकालीनत्व प्रतीतिरिति ।।
उत्तरसूत्रार्थमाह - आहारेति । पूर्वसूत्रार्थेन संबन्धमाह - एवमिति ।अत्र सूत्रे ब्रह्मविदां प्राणात्यये एव सर्वान्नानुमतिरित्येतत्व्यतिरेकमुखेनोपपादितं, पूर्वसूत्रे तथा अनुष्ठानरूपान्वयेनेतिभिदा । किं पुनर्न्याय संचरणं तूभयत्र तुल्यम् ।। जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिर्विवेकःइति विवेकस्वरूपविशोधने एव स्पष्टमवगम्यते आहारनियमः आवश्यक इति।। यजमानकृतं पाप मन्नरूपेण जायते । तस्य मासिकृतिपापं लभते ह्यन्नभुक्तदाइति सामान्यत एव सर्वेषां सर्वान्नभोजननिषधात् विद्यानिष्टस्यायंनिषेधः अवश्यं पालनीय एवकुलटाषण्डपतितवैरिभ्यः काकिणीमपि । उद्यतामपि गृह्णीयात् नापत्स्वपिकदाचन" इत्यादिकमपि द्रष्टव्यम् ।। उच्छिष्टमपि चामेध्यं पूतिपर्युषितंच यत् । इत्यादिगीता वचनमपि द्रष्टव्यम् ।। महाप्राज्ञोपि भीष्माचार्यःद्रौपदीवस्त्रापहरणकाले सभायां दुर्योधनान्नभोजनकरण रूपदोषाविष्टचेताःन विवारयामास । शरतल्पेशयनानन्तरं दुर्याधनान्न जनित रक्तादीनांबहिर्गमनात् परिशुद्धः धर्मादीन् धर्मपुत्रादीन्प्रति कथयामास इति प्रसिद्धम् ।।
अनन्तरसूत्रार्थमाह - अपिचेति । ब्रह्मविदामिव प्राणविदामपि न्यायनिरपेक्षं वचनबलादेव प्राणसंशयापत्तावेव सर्वान्नानुमतिसिद्धिरित्याशयेनब्रह्मविदामन्येषां चेत्युक्तम् ।।
उत्तरसूत्रं व्याचष्टे - यत इति । अकामकारे शब्द इति व्याख्येयम्तेन विवक्षितमर्थमाह - कामकारस्येति । तादृशशब्दमेव विवृणोति - अस्तिहीति । उदाहृतश्रुतेरर्थमाह - पाप्मनेति । अत्र ब्राह्मण इति साधारणशब्देनब्रह्मविदामपि संग्रहणात् तेष्वपि निषिद्धभक्षणस्य निषेधात् प्राणविद्यानिष्ठेनिषेधः किं पुनर्भ्यायसिद्धः इति भावः ।। अत्र सुराशब्दः निषिद्धसामान्योपलक्षकःइतिचाभिप्रायः । आपद्विषयकनिषिद्धभक्षणस्यान्यत्रानुमतत्वेनात्रत्यतन्निषेधः ऐच्छिकभक्षणविषयः इत्यंगीकार्यम् । अन्यथासर्वदा निषिद्धभक्षणानुमतेःतन्निषेधस्यचानुपपन्नत्वं स्यादिति भावः ।एतेन “नाविरतो दुश्चरितादिति दुश्चरितनिवृत्तिविधानेपि’ न कांचन कामयमानांस्त्रियं परिहरेत् तद्व्रतमिति वामदेव्योपासकस्य सर्वतरुण्यपरिहरानुमतिवत्सर्वान्नानुमतिः स्यात् ब्रह्म विदोपि इति पक्षोपि निरस्तः । उषस्तिवृत्तान्तविरुद्धत्वात् उच्छिष्टभोजनस्य विषिद्धत्वेपि सोमपानोच्छिष्टस्यानुमतत्ववत्तदुपपत्तेः । नहि सोमपानोच्छिष्टं अन्योच्छिष्टसाधकम् । नहि गुरुभर्तृप्रभृत्युच्छिष्टमनुमतमिति सर्वत्र न्यायसंचारो युज्यते ।। सर्वान्नानुमत्यधिकरणंसमाप्तम् ।।