(3.04.06) शमदमाद्यधिकरणम्पूर्वाधिकरणे ब्रह्मविद्यानिष्ठैः गृहस्थाश्रमिभिःयज्ञादिनित्यनैमित्तिककर्मणामनुष्टेयत्वं प्रसाधितम् ।अथेन्द्रियव्यापररूपाणांतेषामनुष्ठेवत्वे इन्द्रियव्यापारनिवृत्तिरूपाणां शमादीनां विरोधेनानुष्ठेयत्वासंभवात्गृहस्थविषये शमादीनां ब्रह्मविद्याङ्गत्वं न संभवतीति पूर्वपक्षोत्थानात्संगतिःआआन्तर ब्राह्यकरणेति। करणव्यापारोपरमरूपायाः शान्तेः सर्वव्यापारोपरमरूपत्वेनयज्ञादीनां करणव्यापाररूपत्वेन च परस्परं विरोधात् एकेनाधिकारिणाअनुष्ठानं न संभवतीति गृहस्थेषु यज्ञाद्यनुष्ठानस्य पूर्वमवश्यकर्तव्यत्वस्थापनेनशमाद्यननुष्ठानाभ्युपगम एव युक्तः इति भावःसिद्धान्तमाह - इति प्राप्त इति । पूर्वपक्षमनूद्य सूत्रार्थ विवरणमुखेनसिद्धान्त कोटिं प्रदर्शयति - यद्यपीति । सूत्रे तथापि शमदमाद्युपेतस्स्यादित्युक्याउक्तपूर्वपक्षो द्योतितः इत्याशयेन यद्यपीत्याद्युक्तम् । तुशब्दःपक्षव्यावृत्त्यर्थः ।तस्मादेवं विदिति। एवंवित्=ब्रह्मविद्यानिष्ठःशान्तः=निगृहीतान्तरिन्द्रियः दान्तः=निगृतबाह्येन्द्रियः। उपरतः=निषिद्धकाम्यकर्मभ्योनिवृत्तः । तितिक्षुः=शीतोष्ण - सुखदुःखादि द्वन्द्र सहिष्णुः । समाहितोभूत्वा = चित्तैकाग्त्र्यवान् भूत्वा । आत्मन्येवात्मानं=मनस्स्येवपरमात्मनं, पश्येत् दर्शनसमानाकारं यथा स्यात् तथा पश्येदित्यर्थःसाक्षात्कुर्यादिति यावत् । दाने कर्ण समःइत्यादाविव आत्मन्येवात्मानमित्यत्रापिअभेदे सप्तमी वा परमात्मानमिति समुदिवार्थः ।। अत्र भूत्वा इत्यनेनशमादीनामंगत्वं स्फुटं प्रतिपन्नम् । एवमंगत्वविधानात् शमादीनामुनुष्ठेयत्वमुक्तम् । अथ दृष्ट प्रयोजनरूपोपकार सत्वादप्यनुष्ठेयत्वं प्रतिजानीते - विद्योत्पत्तेरितिविद्यायाश्चित्तसमाधिरूपत्वमुपजीव्य विद्योत्पत्तेश्चित्तसमाधानरूपत्वोक्तिःशमादीनां दृष्टपरिकरत्वादित्यन्वयः । अस्तु दृष्टपरिकरत्वं, ततःकिमित्यत्राह - विद्यानिवृत्तये इति । परिकराननुष्ठाने, प्रधानस्यैवानिष्पत्तिप्रसंगः इति भावःतेषामिति व्याख्येय निर्देशः । तान्यप्यनुष्ठेयानि ।नाननुष्टेयानीतिभावः । किं कुर्मः=अंगतया विहितत्वेपि दृष्टपरिकरत्वेपि गृहस्थानुपादेयत्वमेवतेषां युक्तम् । अन्यथा तेषु यज्ञादिकर्म बोधकश्रुतिविरोधात् परित्याज्यंवा तेषां यज्ञादिकं स्यात् । अतः शमाद्यंगकत्व बाधकवचनस्य गृहस्थव्यतिरिक्तविषयकत्वाश्रयणमेवोचितमितिशंकां परिहरति - नचेति । अविरोधमुपपादयति - भिन्नविषयत्वादिति । अविहितेषु=अविहिताप्रतिषिद्धादिष्वित्मर्थःअनेन शरीरधारणार्थमितभोजन प्रवृत्ति रूपपन्ना । प्रयोजनशून्येषु=मुमुक्षोःविषयेकाम्यकर्मणां प्रयोजनशून्यत्वात्तेष्वित्यर्थःअयं भावः - यज्ञादीनां करणव्यापाररूपत्वात् शमादीनां तदुपरमरूपत्वाच्चगृहस्थे शमाद्यभावः किल शंक्यते । एवं सति सन्यासाश्रमनिष्ठानामपितत्तदाश्रम नियत तत्तद्वयापरभूयस्त्वेन शमादीनां केनाप्यनुष्टेयत्वंन सिध्यतीति अंगत्वबोधक श्रुतेः जलाञ्जलि प्रदानमेव स्यात् । यदिशमादेः विहितव्यरिक्त विषय व्यापारोमरमरूपत्वाभ्युपगमेन सन्यासिषुविरोध परिहारः क्रियते? तर्हि नृहस्थेपि सः परिहारः सामानोऽन्यत्राभिनिवेशात्निष्कारणं श्रुति संकोचश्च भवता मित्यधिकमपि दूषणमिति । अतः यज्ञादिव्यतिरिक्तविषयव्यापारोपरम एव शान्त्यादिकमिति न विरोधप्रसंग इतिनन्वस्तु शान्तिः विहितव्यतिरिक्तविषयोपरमरूपैव नतु सर्वोपरमरूपाअथापि यज्ञादिकरणव्यापररूपकर्मसु सर्वदा वर्तमानस्य गृहस्थस्य वासनावशेनसर्वदा व्यापारे एव प्रवृत्त्या अन्यव्यापारोपरतिरपि वा कथं सेत्स्यति,अतः शमादीनामनुष्टेयत्वमेव न घटते । सन्यासाद्याश्रमिष्वप्येवमेवस्यादिति चेदिष्टमेव । नहि सर्वात्मानानुष्ठानाशक्यं अंगत्वेन श्रुतिर्बोधयितुंक्षमा । अतस्तादृश श्रुतिः कथचिदन्यपरत्वेनैव नेयेत्याशंकां परिहरति - नचकरणेति । तत्प्रसादद्वारेणेति । तत्तदाश्रमोचितकर्मानुष्ठानं हिअदृष्टद्वारोपकारकं अतः सर्वैरपि तत्तदाश्रमिभिः स्वस्वकर्मानुष्ठानेनसर्वदा व्यापारे व्यापृतत्वेपि एतज्जन्य विहितव्यतिरिक्तविषयप्रवृत्तिहेतुभूत वासनायाः भगवत्प्रसादरूपादृष्टवशेन नाशात् नविहितव्यतिरिक्तविषयेप्रवृत्तिरिति शमादीनां सर्वैरनुष्ठेयत्वं घटत एवेति भावः ।उपसंहरति - अत इत्यादिना ।। शमदमाद्यधिकरणं समाप्तम् ।।