(3.04.05) सर्वापेक्षाधिकरणम्पूर्वाधिकरणे ऊर्ध्वरेतसामाश्रमिणां विद्यायाः अग्नीन्धनाद्यनपेक्षत्वं उक्तम् ।अत्र गृहस्थानां विद्यायाः यज्ञादिकर्मापेक्षत्वं प्रतिपाद्यते इति संगतिः ।यद्वा ऊर्ध्वरेतस्स्विव गृहस्थेष्वपि विद्यायाः यज्ञादिकर्मानपेक्षत्वं स्यादितिशंकया संगतिः । पूर्वपक्षमाह - यदीत्यादिना । साधयितुमर्हतीत्यन्तेनोपपत्तिरुक्ता । अथ श्रुतिविरोधपरिहारव्याजेनश्रुतिस्वारस्यं प्रदर्शयति - यज्ञादिश्रुतिरपीति । यज्ञादीनां विद्यानंगत्वेविविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति श्रुतिविरोधो हि भवद्भिरापाद्यतेस च न संभवति । तादृशश्रुत्या विद्याख्यवेदनांगत्वाबोधनात् । वस्तुतःविविदिषन्तीति श्रवणेन विविदिषांगत्वस्यैव लाभेन जन्मान्तरशतानुष्ठितानभिसंहितफलकर्ममृदितकषायस्य विविदिषोत्पत्तिरिति न विद्यायाः कर्म अङ्गं भवितुमर्हतीतिभावः ।।सिद्धान्तमाह - अत इति । कर्मापेक्षैवेत्यनेन सूत्रस्थचशब्दस्य अवधारणार्थत्वमितिदर्शितं भवति । कर्मानर्हेषु सन्यासिषु तथा संभवेपि गृहस्थेषु यज्ञादीनांविद्यांगत्वमेव तया बोध्यते इति नान्यथासिद्धिरित्याशयेनाह - तमेतमिति ।तमेतं = भगवन्तम् । ब्राह्मणाः = ब्रह्मविद्यानिष्ठाः । वेदानुवचनेन,वेदाध्ययनेनेत्यर्थः । तपसा = कृच्छ्रचान्द्रायणादिव्रतेनेत्यर्थः ।अनाशकेन = अनशनव्रतेन, उपवासव्रतेनेति यावत् । अथ यज्ञादीनां विद्यांगत्वस्फुटीकरणाय विविदिषन्तीत्यस्यार्थमाह - यज्ञादिनेत्यादिना । यज्ञादीनांविविदिषायामेवान्वयः किं नस्यादित्यत्राह - यज्ञादीनां ज्ञानसाधनत्वे सत्येवेति ।उक्तार्थे दृष्टान्तमाह - यथा असेरित्यादिना ।ननु असिना जिघांसति, पदा जिगमिषतीत्यादौ असिप्रभृतेर्हननादिसाधनत्वानुभवात्सनर्थेच्छासाधनत्वेऽर्थविरोध इति गत्यभावात् प्रकृत्यर्थसाधनत्वमभ्युपगतम् ।अत्र च तादृशगत्यभावाभावेन सनर्थेच्छा साधनत्वमेव श्रुतं किमितिन स्वीक्रियते, प्रकृत्यर्थापेक्षया प्रत्ययार्थ प्रधानत्वाच्चेतिचेत्, न । गत्यभावस्योभयत्र तुल्यत्वात् । तथाहि - जिज्ञासां प्राप्तुमिच्छोःकर्मानुष्ठातुः पुरुषस्य परमफलं ज्ञानं पूर्वमेवेष्टमिति वक्तव्यम् ।परमसाध्यफलेच्छया विना अवान्तर साध्येषु प्रवृत्त्यनुपपत्तेःनहि स्वर्गेच्छया विना स्वर्गार्थ यज्ञेषु तदनुकूलद्रव्यार्जनादौवा प्रवृत्तिस्संभवतिअतः जिज्ञासारूपज्ञानेच्छयाः पूर्वमेव सिद्धत्वेन तां प्राप्तुकामस्यकर्मानुष्ठानेन पुनः प्राप्तिकथनमनुपपन्नं, एवं ज्ञानेच्छायाः पूर्वमेवजातत्वे न तादृशस्य पुंसः इच्छासिध्यर्थ प्रवृत्ति निरपेक्षत्वंचेति नेच्छासाधनत्वं यज्ञादीनां संभवति । अतोऽत्रापि गत्यभावात्यज्ञादीनां ज्ञानसाधत्वाभुयपगमो नव्याहतः । धातोः कर्मणः समानकर्तृत्वादिच्छायांवा इति सूत्रेण घात्वर्थप्राधान्येनैव सनो विधानादपि स्थितधात्वर्थप्राधान्यंन भग्नमपि । एवमत्रात्माश्रयमिथः संश्रय चक्रकादिदूषणं चिज्ञासाधिकरणभाष्योक्तदिशा इहाप्यनुसन्धेयम् ।वस्तुतः यज्ञेन विविदिषन्तीति श्रुतेः कथंचिदन्यथानयनेऽपि “क्रियावानेषब्रह्मविदां वरिष्ठः, कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते,“कर्मणैव हि संसिद्धिमास्थिता जनकादयः, इयाज सोऽपि सुबहून् यज्ञान्ज्ञानव्ययाश्रयः इत्यादिबहुविधानां कथंचिदप्यन्यथासिध्यनर्हाणांयज्ञादीनां ज्ञानांगत्वबोधकश्रुतिस्मृतिवचनानां सत्त्वादपि न यज्ञादीनांविविदिषोत्पत्त्यर्थत्वसंभवो युक्तः । अतः स्फुटतरबहुवचनानुरोधेनभवताप्येतच्छ्रुत्यर्थे वर्णनीय इत्यतोपि नेदमपि वाक्यं भवदनूकूलमिति ।वस्तुतः इयं श्रुतिः निदिध्यासितव्यः इत्यादाविव वेदनस्येष्टत्वमेवानुवदति,न त्विच्छायाः विधेयत्वं पूर्वोक्तानुपपत्ति प्रमाणवचनादि विरोधादिति ।द्रष्टव्यम् । ननु वाक्यार्थज्ञानस्यैव मोक्षजनकत्वात् तस्य च यज्ञादिनिरपेक्षंवाक्यादेवोत्पत्तेः कथं यज्ञाद्यङ्गकत्वमित्यत्राह - ज्ञानं चेति ।ध्यानोपासनादिशब्दवाच्यमिति । वाक्यार्थज्ञानस्यैव मोक्षसाधनत्वेध्यायीत उपासीत इत्यादिविधिवाक्यानां वैयर्थ्यं स्यादिति भावः । विशदतमेत्यादि ।द्रष्टव्यः इत्युक्तेरिति भावः । निरतिशयप्रियमिति । यमेवैष वृणुते तेन लभ्यःइत्युक्तेरिति भावः । आप्रयाणादनुवर्तनीयमिति । ततश्चोपासनरूपस्यांङ्गिनोऽनुवृत्तेः तन्निष्पत्त्यर्थत्वेनाङ्गानामप्यनुवृत्तिरावश्यकीति भावः । सूत्रकारवचनबलादेवास्माभिः पूर्वमुक्तं न स्वातन्त्र्येणत्याशयेनाह - वक्ष्यति चेति ।एतावता कर्माणामपेक्षितत्वे किमायातमित्यत्राह - एवंरूपमिति । परमपुरुषाराधनरूपैरित्यादि । अनेन यज्ञादिप्रवृत्तेः प्रवृत्तिरूपत्वेन मनोऽवधानविरोधित्वेनतेषां विद्यांगत्वं न संभवतीति शंकापि परिहृता । अदृष्टद्वारैवोपकारत्वाभ्युपगमादितिभावः । उक्तमर्थमुपसंहरति - अत इति । सूत्रशेषं व्याचष्टे - अश्ववदिति ।स्वपरिकरबन्धरूपं यत्परिकर्म तदपेक्षः इत्यर्थः । उक्तार्थे स्वयंस्मृतिं प्रमाणयति - तदिदमिति । प्रामाण्यसंवादाय भगवानित्युक्तम् ।पूर्वार्धेन कार्यत्वं प्रतिज्ञातं, उत्तरार्धेन कार्यत्वे पावनानीति हेतुरुक्तःमनीषिणां = विद्यावतां, या विद्या सा विमुक्तये इत्युक्तं ज्ञानमिहमनीषाशब्देनोच्यते, विशिष्याभिधानात् । ततम् - व्याप्तम् । स्वकर्मणातमभ्यर्च्येत्युक्तेः स्वस्वाश्रमधर्माणामेवांगत्वमिति च सिद्धम् ।अत्र शंकाद्वयं - ब्रह्मविद्यांगत्वं वदतां कः आशयः? ब्रह्मविद्यानुष्ठानकालेरजसा तमसा च गुणेनाभिभवे तस्याः उत्तरोत्तरनिष्पत्तिर्न स्यात्सत्वगुणाभिभावकरजस्तमोगुणहेतुभूतपापनिवृत्त्यर्थं अंगतया कर्मकार्यम् । तदा निष्कामकर्मकरणात् धर्मेण पापमपनुदति इति पापनाशेरजस्तमसोर्नाशः सत्त्वविवृद्ध्या विद्यानिष्पत्तिरिति वक्तव्यंएवं च सन्यासिनामपि बद्धत्वाविशेषेण रजस्तमसोः अभिवृद्धिदर्शनात्तन्निवृत्यर्थं न कर्म क्रियते । एवमेव गृहस्थस्याप्यस्तु इत्येका । अन्याच विविदिषन्ति इति शब्दपर्यालोचनया ।। कर्मणामंगत्वं वदतां दृष्टद्वारेणोपयोगाभावात्अदृष्टविधयैवेति वक्तव्यम् । प्रतिबन्धपापजन्यरजस्तमोनिबर्हणंपरमपुरुषप्रसादद्वारेति वक्तव्यम् । अतो भगवान् कर्माचरणयोग्यगृहस्थविषये एवं संकल्पयति । यज्ञादिषु कृतेष्वेवानुगृह्णामि इति गृहस्थेषुसन्यासिषु तु गृहस्थस्याऽऽश्रमोचितकर्माचरणे इव एतदाश्रमोचितकर्माचरणे एव संकल्पयति । अतो न विरोधः ।। सर्वापेक्षाधिकरणं समाप्तम् ।।