44 अग्नीन्धनाद्यधिकरणम्

(3.04.04) अग्नीन्धनाद्यधिकरणम्पुरुषार्थाधिकरणेनास्य संगतिं वक्तुमादौ अनन्तरपूर्वाधिकरणद्वयस्य प्रासङ्गिकत्वंप्रतिजानीते - स्तुतीति । अनेन प्रसक्तिहेतुश्च दर्शितः । तदधिकरणेन साक्षात्संगतेः व्यवच्छित्त्यै - अत्रावान्तरसंगतिविशेषेणेत्युक्तम् । कर्मांगकात्विद्यातः पुरुषार्थसिद्धिरिति हि तदधिकरणप्रधानकृत्यम् । तत्र विद्यायाः एवसाक्षात्फलजनकत्वे कर्मरहितसन्यासाद्याश्रमनिष्ठेषु विद्यादर्शनं हेतुरुक्तः ।अथ सन्यासाद्याश्रमाणां प्रणवकरणकब्रह्मोपासनं स्तुतिकरणायानुवादमात्रमितिपूर्वपक्षः तदुपयोगितया परिहृतः । ततश्च ब्रह्मोपासनस्तुत्यर्थतया आश्रमान्तराणामनुवादः इति स्तुतेः प्रसक्तत्वेन स वा एष रसानां इत्यादीनामपि किं स्तुतिपरत्वंन वेति संशयः । वेदान्तोक्ताख्यानानां विद्यास्तुत्यर्थत्वं पारिप्लवार्थत्वं वेतिसंशयश्चोपस्थितः तन्निर्णयायाधिकरणद्वयं प्रवृत्तमिति भावः । अथप्रथमाधिकरणेन साक्षात्संगतिमुपपादयति - विद्यावन्तइति । न संभवतीत्याशंक्येतिसूत्रस्थश्चशब्देनेयमाशंका द्योतितेति भावः । सन्यासाद्यश्रमनिष्टेषुविद्यैव न संभवति । भवन्मते यज्ञादिकर्मणां विद्यांगत्वाभ्युपगमेनांगानांच तेष्वसंभवात् अंगवैकल्येनाङ्गिनः साद्गुण्याभावात् । नच निरङ्गाङ्गयनुष्ठानंफलवद्भवितुमर्हति । तस्मात्तेषु विद्याया एवासंभवात् तेषु विद्याऽस्तीतिकृत्वा कर्मणां साक्षात्पुरुषार्थसाधकत्वदूषणं न योयुज्यते इति भावः ।सूत्रार्थमाह - यत इत्यादिना । इत्यादिकया श्रुत्या परिगृह्यन्तेइत्यन्वयः । अयमाशयः - श्रुतिस्तावत्सन्यासाश्रमनिष्ठानां विद्यासंबन्धंस्पष्टमेव प्रतिपादयति । अतस्तस्मिन्नर्थे न विवदितव्यम् । परंतुयज्ञाद्यंगाभावेन कथं अंगिनिष्पादनमिति शंका परमवशिष्यते, सापि विद्यायाःयज्ञाद्यङ्गकत्वनियमाभावेन परिहार्या । नहि सर्वाधिकारिविषयेपियज्ञादीनामंगत्वं नियतमिति ब्रूमः । येनेयमाशंका स्यात् । तथा नियमकथनेच तेषामपि विद्याप्रतिपादकश्रूतीनामपलाप प्रसंगात् । नचतदर्थं यज्ञादीनामङ्गत्वमेवकिमिति न परित्यज्यत इति वाच्यम् ।तेषामंगत्व बोधक प्रमाणविरोध प्रसंगात् ।अतः बहुविधस्वस्वाश्रमार्हधर्माणामेवविद्यांगत्वाभ्युपगमात् तेषां विद्याप्रतिपादक श्रुतीनामप्युपपत्तिःयज्ञाद्यङ्गकत्वबोधक श्रुतीनामप्युपपत्तिरिति सर्वसामञ्जस्यसिद्धिःअत एव हि निरग्नित्वेन होमकरणप्रसक्तिहितानामपि सन्यासिनां होमाभावेपिपञ्च संस्कर कतृत्वबोधक वचनबलात् तत्राधिकारः ।गृहस्थविषये होमाङ्गकस्यतस्य प्रवृत्त्या तथाविधवचनोपपत्तिश्च । अतः अंगिनि तेषामधिकारबोधनात् अंगाभावस्य स्पष्टतर प्रमाणसिद्धत्वाच्च अंग्यधिकारः युक्तएव । वस्तुतः स्वाश्रमोचितधर्माणामेवाङ्गत्वमित्यतोपि नांगहानिप्रसक्तिः ।नहि गृहस्थ धर्माणामेवांगत्वमिति राजानुशासनम् । तमेतं वेदानुवचनेनब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशाकेनेति तत्तदाश्रमोचितधर्माणामेवांगत्वोक्तेः । तस्मात् यज्ञादिकर्मविरहेपि स्वाश्रमोचितकर्मसंभवेनांगसिध्या अङ्गिनो निष्पत्तिर्युक्तैवेति । अत एव हि सन्यासाश्रमस्यमोक्षाश्रमइति प्रामाणिकानां व्यावहारः । अग्नीन्धनमिति व्याख्येयपदोपादानम्आदिपदाभिप्रेतमप्यर्थ दर्शयन्नाह - आधानपूर्वकेति । अंगाभावे कथमंगिनिष्पत्तिरितिशंकायाः कः परिहारः उक्त इत्यत्र तत्पर्यवसितार्थमाह - केवलेति । अतःऊर्ध्वरेतश्शब्दः सन्यासिमात्रपरः अग्नीन्धनाद्यनपेक्षेत्युक्तेः इति केचित्,आश्रमित्रितयपरः इत्यपरे ब्रह्मचर्यवानप्रस्थयोः अग्निसत्त्वेपि आधानपूर्वकाग्न्यभावात् । अन्याग्नीनामेव तयोश्शास्त्रसिद्धत्वादिति ।। अग्नीन्धनाधिकरणम् ।।