(3.04.03) पारिल्पवार्थाधिकरणम्पूर्वत्र “स एव रसानां रसतमः” इत्यादीनां स्तुतिपरत्वनिरासपूर्वकं उपासनार्थत्वंनिरणायि । अथ प्रतर्दनो ह वै इत्याद्याख्यानानामपि पारिप्लवार्थत्वनिराकरणेनब्रह्मविद्यास्तावकत्वं प्रतिपाद्यते इति स्तुतिप्रसंगात्संगतिः । अथ विषयसंशयप्रदर्शनपूर्वकं पूर्वपक्षमाह - प्रतर्दन इति । मन्वाद्याख्यानानां पारिप्लवार्थत्वेऽविवादात् वेदान्तेष्वाख्यानानीत्युक्तम् । पारिप्लवर्थाः = आख्यानशंसनार्थाःइत्यर्थः । विद्याविशेषप्रतिपादनार्थानि = तत्प्रकरणपठितविद्यायामुत्कर्षप्रतिपादनार्थत्वेन विद्यास्तावकानीत्यर्थः ।अयमत्र पूर्वपक्षिणोऽभिसन्धिः । आख्यानानि शंसन्तीति सामान्यतःसर्वेषामाख्यानानां अश्वमेधगत पारिप्लवनाम्नि शंसने विनियोगः प्रतिपादितः ।तत्रैषामेवाख्यानानां विनियोग इत्यत्र नियामकादर्शनात् अविशेषेणसर्वेषामेवाख्यानां तत्र विनियोग आवश्यक इति वेदान्ताम्नाताख्यानानामपिपारिप्लवनाम्नि शंसने एव विनियोगः सिध्यतीति । सिद्धान्तमाह - नसर्वाणीतिविनियोगस्य विशेषितत्वमुपपादयति - आख्यानानीत्यादिना । ततः किमित्यत्राह - अतइति । उपसंहरति - तस्मादिति । स्वाभिमतकोटिं व्यनक्ति - अपि त्विति ।विद्याविध्यर्थाः इति । विध्याविधेः स्तावकतया शेषभूता इत्यर्थः ।अयं भावः - आख्यानानि शंसन्तीत्यत्र सामान्यतः सर्वेषामेवाख्यानानांपारिप्लवे विनियोगो दृश्यते, अथापि स्वप्रकरण एव मन्वाद्याख्यानानांपठितत्वात् प्रकरणेन प्रकृताख्यानानामेव पारिप्लवार्थत्वसिद्धिरितिन वेदान्ताम्नाताख्यानानामपि पारिप्लवार्थत्वसिद्धिर्युक्ता । ननु प्रकरणबलेनप्रकृताख्यानस्य पारिप्लवार्थत्वसिद्धिरस्तु, अथापि आख्यानान्तराणामपिपारिप्लवाङ्गत्वं कुतो न संभवतीति चेत् । प्रकरणपठितेनाख्यानेनैवपारिप्लवान्वयस्य निराकांक्षत्वात् वेदान्ताम्नाताख्यानानां स्ववाक्यपठिततत्तत् ब्रह्मविद्यासमन्वयेन नैराकाङ्क्षयेणाकांक्षोत्थापनासंभवाच्चतेषां पारिप्लवांगत्व कल्पनासंभवात् ।ननूद्गीथमुपासीत इत्यत्रोद्गीथ सामान्यस्योपासनसंबन्ध प्रतिपादनवदत्रापिआख्यानानि शंसन्ति इत्यत्रापि सर्वाख्यानानामपि पारिप्लवसंबन्धप्रतिपादनं किं न स्यात् । न ह्यत्र विशेषो दृश्यते । सन्निधिविशेषस्वरभेदप्रयुक्तोद्गीथविशेषमात्रस्योपासनसंबन्धार्हत्वेपि उद्गीथमितिसामान्यश्रुत्या सर्वोद्गीथानामपि हि उपासनसंबन्धस्तत्र स्वीकृतः ।अतोऽत्रापि प्रकरणबलेनाख्यानविशेषस्य पारिप्लवसंबन्धार्हत्वेपिआख्यानानीति सामान्यश्रुत्या सर्वेषामप्याख्यानानां पारिप्लवसंबन्ध एव युक्तःइति चेदुच्यते - न हि तत्र श्रुतिमात्रेण तथाऽर्थः स्वीकृतः सर्वशाखासुक्रतोरेकत्वेन सर्वशाखाप्रत्ययन्यायावतरणेनापितथाऽभ्युपगतत्वात् । अतस्सामान्यश्रुत्या प्राप्त एवार्थः विशेषलिंगेनापिपोषितः । अत्र तु प्रकरणबाधेन सर्वाख्यानानामपि पारिप्लवे विनियोगावगमकंन किंचिदपि लिंगमन्यद्वा पश्यामः । श्रुतिस्तु प्रकरणपठितारव्यानेनापिचरितार्था । वस्तुतः सर्वाख्यानानामपि पारिप्लवांगत्वकल्पनमपि दुःशकम्,आख्यानानन्त्येनाशक्यत्वात् इति बोध्यम् ।।
उत्तरसूत्रार्थमाह - आत्मा वा इति । एकवाक्यतयोपबन्धादिति । एकवाक्यतयान्वयादित्यर्थः । अनेन वेदान्ताम्नाताख्यानानां स्ववाक्यपठितविद्यासमन्वयेननिराकांक्षत्वादपि न पारिप्लवांगत्वमिति दर्शितम् । उक्तार्थे संमतं दृष्टान्तमाह- यथेति । कर्मविध्यर्थत्वमिति । तस्माद्बर्हिषि हिरण्यं न देयमित्येकवाक्यत्वेनकर्मविध्यर्थत्वमित्यर्थः । ततश्च “अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुरित्याख्यानानामपि आत्मा वा अरे द्रष्टव्य इति विध्येकवाक्यत्वेनान्वयात् विधेयविद्याविशेषोपयोगित्वमेवेति भावः । तथा = विद्याविध्यर्थाः एकवाक्योपबन्धाच्चेतिसूत्रार्थः । विद्यास्तुतिमुखेन तत्प्ररोचनार्थाः । सोऽरोदीदित्यादेः कर्मार्थत्वम् ।एषां च विद्यार्थत्वम् । मनुर्वैवस्वतो राजा इत्यादेः पारिप्लवरूपशस्त्रार्थत्वमितिविवेकः । अर्थवादाः द्विविधाः विध्यर्थवादाः निषेधार्थवादाः । बर्हिषिन देयं रजतं इति रजतदाननिषेधः कृतः सोऽरोदीत्याद्यर्थवादाः निषेधार्थवादाःएतेषां कर्मकाण्डगताख्यायिकानां न पारिप्लवे विनियोगः स्वीक्रियतेएवमेव श्वेतकेतुः हारुणेय आस इत्याख्यायिकानां न पारिप्लवार्थत्वम्सन्निहितविद्याविध्येकवाक्यत्वभंगेनान्यत्र नयनमप्ययुक्तम् ।सन्निधिपठिताख्यायिकाभिरेव शान्ताकांक्षत्वादपि नैतेषां तत्र गमनम् ।समाप्तं पारिप्लवाधिकरणम् ।।