42 स्तुतिमात्राधिकरणम्

(3.04.02) स्तुतिमात्राधिकरणम्पूर्वाधिकरणे सन्यासाद्याश्रमस्य ब्रह्मसंस्थस्तुत्यर्थतयाऽनूदितत्वंनिराकृत्य विधानमर्थात्प्रतिपादितम् ।अथात्रापि रसतमत्वप्रतिपादकवाक्यानांस्तुतिपरत्वं निराकृत्य रसतमादिदृष्टिविधिरूपत्वं प्रतिपाद्यतेइति संगतिः । यद्वा असार्वत्रिकी इति उद्गीथविद्यायाः कर्मांगत्वंप्रस्तुतं फलाभिलाषे । उद्गीथविद्यैव नास्ति विधानाभावात् । स वाएषः इत्यादीनां कर्मांगोद्गीथाद्युपासने स्तुति मात्ररूपत्वादितिशंकते । अथवा उद्गीथविद्यायाः कर्मद्वारा ब्रह्मविद्योपयोगस्थापनायविधिपरत्वं स्थापयति ।विषयं प्रदर्शयति - इदमित्यादि । परार्ध्यः = परस्थानार्हः । ब्रह्मस्थानप्रापकः । पूर्वं रससप्तकस्य प्रतिपादितत्वात् उद्गीथस्यात्राष्टमरसत्वंप्रतिपाद्यते । विचारणीयवाक्यानां बहुत्वात् तत्राप्येवं संशयसंभवेननिर्णयस्य वक्तव्यत्वात् तेषामपि ग्राह्यत्वाय - एवं जातीयकानीत्युक्तम् ।ननु तन्निर्धारणानियमाधिकरणे उद्गीथोपासनस्य पृथक्फलत्वं तत एवकर्मस्वुपादानानियमश्चेत्युक्तम् । तत एवोद्गीथादिषु रसतमत्वादिदृष्ययोपासनस्यसिद्धत्वेन स्तुतिपरत्वसंशय एव न संभवतीति इदमधिकरणमनति प्रयोजकमितिशंकामस्यति - अत्रेति । अत्रोपासनपरत्वे तात्पर्यं पूर्वत्र पृथक्फलवत्वेनक्रतुषूपादानानियमे तात्पर्यमिति कृत्यभेदात् न निष्प्रयोजनत्वशंका युक्तेत्याशयः ।अङ्गावबद्धाधिकरणे उद्गीथोपासनस्यापि सर्वशाखासाधारणत्वस्थापनंमपि अत्र स्थाप्यमानमुपासनपरत्वमवलम्ब्यैवेति ध्येयम् । तत्र हि एकत्रश्रुतस्योद्गीथोपासनस्य सर्वशाखास्वन्वयः उक्तः । नहि कुत्रापि तदुपासनविधानानभ्युपगमे सर्वशाखासु उपासनसंबन्धः वक्तुं शक्यः । अतोऽत्रोपासनपरत्वंस्थाप्यते । एवमेवान्यथात्वाधिकरणे विद्याभेदाभेदचिन्तापि कृतेतिउद्गीथाद्युपादानादित्यनेन सूत्रस्थमुपादानादिति पदं विवृतम् ।उक्तं पूर्वपक्षहेतुमेवोपपादयति - क्रत्वंगेति । रसतमादित्वं प्रतिपादितमिति ।स एव रसतमः इत्यत्र हि तच्छब्दपरामृष्टोद्गीथस्य रसतमादित्वं केवलंप्रतिपाद्यते,नतु रसतमत्वेनोपासनं, तथावाचकपदाभावात्अतः उद्गीथादेः केवलं रसतमत्वोक्त्या तत्स्तुतिरेव कृता भवतीतिभावः । उक्तार्थे दृष्टान्तमाह - यथेति । उक्तपूर्वपक्षस्य सौत्रत्वंदर्शयति - तदिदमिति । पूर्वपक्षपरं सौत्रं खण्डं व्याचष्टे - उद्गीथाद्युपादानादितिनन्वत्र स एष रसानामित्यादिना क्रत्वङ्गभूतोद्गीथोपादान पूर्वकंरसतमत्वं प्रतिपाद्यते । अतस्तद्वाक्यस्य स्तुतिपरत्वं स्वीकृतम्एवं सति यस्य पर्णमयी जुहूर्भवतीत्यादिनापि क्रत्वंगभूतजुहूपादानपूर्वकंपर्णमयत्वं प्रतिपाद्यते इति तद्वाक्यस्यापि स्तुति परत्वमेव स्यादितिचेन्न, वैषम्यात् । नहि उद्गीथादेः रसतमत्व प्रतिपादने इव जुह्वाःपर्णमयत्व प्रतिपादनेन काचित्स्तुतिर्भवतिवस्तुतः क्रत्वंगभूतवस्तूपादानपूर्वकं पुरुषेण साधयितुमशक्यगुणप्रतिपादने स्तुतिरेव। रसतमत्वं हि न पुरुषेण साधयितुं शक्यमतस्तद्वाक्यस्यस्तुतिपरत्वं युक्तमेव । पर्णमयत्वस्य च पुरुषेण साधयितुं शक्यत्वात्न स्तुतिरूपत्व प्रसक्तिरिति ।सिद्धान्तमाह - अत्रोत्तरमिति । अपूर्वत्वादिति व्याख्येयपदोपादानम्नन्वप्राप्तत्वे स्तुतिपरत्वं कुतो न संभवतीत्यत्राशयं विवृणोति - नहीत्यादिनाअयमाशयः - सर्वत्र स्तुतिः प्रमाणान्तर प्राप्तगुणानुवादेन क्रियते,अत्रच रसतमत्वं न प्रमाणान्तर प्राप्तम् । अतस्तदनुवादायोगेन स्तुतिकल्पनंन संभवतीति । नन्वप्राप्तगुणविधानेनापि स्तुतिः क्वचित्क्रियते । अनुभवसिद्धा च ।सैवात्र किं न स्यादिति चेत् न । रसतमत्वादेरुद्गीथेऽसंभवेनायोग्यत्वात्अयोग्यार्थान्वयविधानासंभवात् तद्विधानेन स्तुत्यनुपपत्तेः । ननुउद्गीथे स्वरूपेण रसतमत्वाद्यन्वयायोग्यत्वेन तथा स्तुत्यसंभवेपिअविद्यमानार्थकथनं वृत्त्यन्तरोपनीतगुणान्वयेन स्तुतिरस्तुइयमपि स्तुतिरनुभवसिद्धैव । अत एव हि इयमेव जुहूरित्यादावेवं स्तुतिरभ्युपगताअन्यथा तु रसतमत्वाद्यरोपणेन दृष्टिविधित्वाभ्युपगमे इयमेवजुहूरित्यारेपिदृष्टिविधिपरत्वं स्यादिति शंकां परिहरति - न चेत्यादिना । सन्निहित इति,अनेनापूर्वत्वादिति सूत्रखण्डस्यार्थान्तरं उक्तम् । स वा एष इतिवाक्यपूर्वत्वस्य उद्गीथविधिवाक्ये उद्गीथविधिवाक्यपूर्वत्वस्यस वा एष इति वाक्ये वाऽभवादिति । उद्गीथादिविधिरित्यत्रादिपदेनपंचविधसामविध्यादिग्रहणम् । यया कयाचन विधया = अमुख्यवृत्त्येत्यर्थः ।अनेन मुख्यवृत्त्या स्तुतिरिति पक्षेपि स्वरूपेणोद्गीथादेः रसतमादित्वासंभवरूपदूषणं सूचितम् ।अयं भावः - इयमेव जुहूः इति वचनस्य क्रतुविधिप्रकरणस्थत्वेन “विधिनात्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्यु"रिति न्यायेन विध्येकवाक्यत्वस्य प्रतिपन्नत्वात्संभवत्येकवाक्यत्वे तत्परित्यागेन वाक्यभेदकल्पनस्याप्रामाणिकत्वाच्चयथाकथंचित् विहितार्थप्रशंसारूपार्थवादत्वं स्वीकृतम् । प्रकृते चस एव रसानां रसतमः इत्यादौ उद्गीथविधेरसन्निहितत्वात् एकवाक्यत्वाभावेनस्तुतिपरत्वं न संभवतीति नार्थवादरूपत्वम् । अतोऽप्राप्ते शास्त्रमर्थवदितिन्यायेनाप्राप्तरसतमत्वादि दृष्टिविधिपरत्वमेव स्वीकर्तव्यम् । अपि चैतद्वाक्यसमीपे एव तत्तद्दृष्टिविधानं च दृश्यते । अतोपि दृष्टिविधिपरत्वाश्रयणमेवस्वरसमिति न स्तुतिपरत्वं युक्तमिति । उपसंहरति - अत इति ।।

उत्तरसूत्रं व्याचष्टे - उपासीत इति । भावशब्दात्=विधिप्रत्यययुक्तभावशब्दादित्यर्थःभावशब्दपदार्थमेव विवृण्वन् तस्य विधायकत्व मुपपादयति - विधीतिउद्गीथमुपासीत इति हि श्रुतिः । अत्र उद्गीथोपासनविधिः सन्निहितएवेति उद्गीथादेः रसतमत्वादिदृष्ट्योपासनस्य कर्तव्यत्वं स्वत एवसिध्यतीति भावः । पूर्वसूत्रे,उद्गीथोपासनविध्यश्रवणेऽपि पूर्वपक्षयुक्तिपरिहारेणोपासनस्यविधेयत्वस्थापनद्वारा रसतमत्वादि दृष्टिपरत्वमुक्तम् ।अत्रोपासनविधिसद्भावप्रतिपादनमुखेन तदेव स्थापितमिति विशेषः ।। समाप्तं स्तुतिमात्राधिकरणम् ।।