(3.04.01) पुरुषार्थाधिकरणम्अथांगिभूतोपासनिरूपणानन्तरं अङ्गनिरूपणं क्रियत इति पादसंगतिमभिप्रयन्पूर्वपादोक्तार्थमनूद्याधिकरणसंगतिं दर्शयति - गुणेत्यादि ।इति चिन्त्यते इति । विद्यायाः अङ्गिनः सिद्धौ हि तन्निरूपणानन्तरंअंगनिरूपणं सुकरम् । अतः अंगित्वं विद्यायाः अस्मिन्नधिकरणे निरूप्यतइति भावः ।। ननु विद्याङ्गभूतकर्मनिरूपणं ह्यत्र पादे क्रियते ।कर्म च पूर्वस्मिन्काण्डे एव निरूपितम् । अतः पौनरुक्त्यात् न पुनःनिरूपणीयम् । सिद्धान्ते पूर्वोत्तरशास्त्रयोरेकशास्त्रत्वाभ्युपगमात्अधिगतकर्मविचारस्यैव ब्रह्मविचारेऽधिकाराभ्युपगमाच्च तेनैव विद्यांगभूतकर्म प्रतिपत्ति संभवात् ।वस्तुतः कर्मणां विरोधिफलसाधनत्वेन विरुद्धत्वात् “न कर्मणा न प्रजया,प्लवा ह्येते अदृढाः यज्ञरूपाः इत्यादिभिः त्याज्यत्वोक्तेश्च सुतरांविद्यांगत्वासंभवेन तन्निरूपणमप्यनर्थकं चेति चेत्। न, कर्मणांस्वर्गस्वाराज्यादिफलान्तरसाधनत्वेपि फल संगकर्तृत्वत्यागादि पुरस्कारेणविनियोग भेदेन विद्याविरोधि रजस्तमोनिबर्हण सत्त्वविवृद्धिद्वाराविद्यानिष्पत्तिसाधनभूतत्वेन विद्यांगत्वसंभवात् । अतः फलान्तरसाधनत्वेनपूर्वतन्त्रे विचारितस्य फलतस्त्याज्यस्य कर्मणः फलसंगादिनिवृत्तियुक्ततया निवृत्त्येकसंज्ञस्य विद्यांगत्वसंभवात् तत्प्रकारपरिशोधनं न पुनरुक्तंनापि विरुद्धमिति । तत्र ब्रह्मविद्यानिष्ठेन निषिद्धकाम्यकर्मणोःस्वरूपेण परित्यागः कर्तव्यः। नित्यनैमित्तिकयोस्तु ईश्वरसापेक्षकर्तृत्वबुद्धेः परमात्मशेष भूतस्वार्थ बुद्धेश्चाविरुद्धत्वेन ईश्वरनिरपेक्षकर्तृत्वबुद्धिःस्वतन्त्रस्वार्थबुद्धिश्च विरुद्धत्वात्परित्याज्या ।। एवं ब्रह्मविदां,सर्ववर्णाश्रमसाधारणहिंसासत्यास्तेयाद्यनुष्ठानं, तत्तद्वर्णाश्रमसंबन्धिधर्मानुष्ठानं च विद्याङ्गत्वादपेक्षितमिति विद्यांगत्वप्रकारः अस्मिन्पादे परिशोध्यते । पूर्वपादान्तिमाधिकरणे उद्गीथविद्यायाः पृथक्फलत्वमुक्तंअत्रापि ब्रह्मविद्यायाः फलवत्त्वेन पुरुषार्थसाधकत्वमुच्यते इतिपूर्वाधिकरणसंगतिः ।। अत इति व्याख्येयम् । पूर्वपादे विद्यायाएव प्राधान्येन प्रस्तुतत्वात् विद्यातः इति व्याख्यानं कृतम् । ब्रह्मविदाप्नोतिपरमिति । धनवान् सुखीत्यादाविवात्रापि परप्राप्तेः ब्रह्मवेदनप्रयोज्यत्वलाभेनब्रह्मविद्यायाः परप्राप्तिरूपपुरुषार्थसाधकत्वं लब्धम् । अहं = वेदपुरुषः,आदित्यवर्णं आदित्यवर्णदिव्यमंगलविग्रहविशिष्टम् । तमसः तमोगुणविशिष्टप्रकृतेः । परस्तात् = भिन्नदेशवर्त्तिनम् । तमोगुणवत्प्रकृतिभिन्ननित्यविभूतिवर्तिनं पुरुषमित्यर्थः ।अनेन नित्यविभूतेः तमोगुणवद्भिन्नत्वमप्यर्थादुक्तं भवति । एवंक्षयन्तमस्य रजसः पराके इत्यत्रापि रजोगुणवद्भिन्नदेशे वसन्तमित्यर्थात्नित्यविभूतेः रजोगुणवद्भिन्नतत्वमपि फलति ।। अत्र च ब्रह्मविद्यायाःब्रह्मप्राप्तिहेतुत्वं प्रतिबन्धकनिवृत्तिद्वारकमिति दर्शितम् ।नान्यः पन्थाः इत्यनेनोपायान्तरनिषेधः उक्तः । तथा विद्वानित्यादिनाब्रह्मविद्यायाः प्रतिबन्धकनिवृत्तिः ब्रह्मप्राप्तिश्च फलमित्युभयमपि दर्शितम्फलाधिकरणे इवात्रापि सिद्धान्तस्योत्तरत्र वक्ष्यमाणत्वेपि पूर्वपक्षोत्थापनायआदौ सिद्धान्तोपक्षेपः कृतः ।
अथ तात्पर्यं व्यञ्जयन्नुत्तरसूत्रं पूर्वपक्षपरं व्याचष्टे - नैतदेवमिति ।कुतो नावगमयतीत्यत्राह - कर्मस्विति । याथात्म्यवेदनप्रतिपादनपरत्वादिति । आदित्यो यूपः इत्यादीनामिव ब्रह्मविदाप्नोति परमित्यादीनांन विद्यया पुरुषार्थप्रतिपादने तात्पर्यमिति भावः । ननु कर्तृभूतजीवात्मयथात्म्यप्रतिपादनपरत्वमस्तुअथापि विद्यायाः क्रतुशेषत्वं कथमित्यत्राह - अत इति । फलश्रुतिरित्यनेनपुरुषर्थवादः इति पदं व्याख्यातम् । अन्येष्विति व्याख्येयम् । विद्यायांफलश्रुतेरर्थवादत्वे दृष्टान्ततयोक्तमर्थं जैमिनिसूत्रेण द्रढयति - तदुक्तमिति ।“यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति”, इति पर्णतादिद्रव्येषु,“यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृड्क्ते”, इत्यञ्जनादिसंस्कारेषु,“यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते” इत्यादिकर्मसुचयथा फलश्रुतेरर्थवादत्वं जैमिन्यभिप्रेतं, तथैव विद्यायामपि फलश्रुतेरर्थवादत्वं जैमिनिर्मनुते इत्यर्थः ।। अयमत्राशयः - व्रीहीन्प्रोक्षतीत्यादौव्रीह्यादेः प्रोक्षणादिवत् आत्मा ज्ञातव्यः इत्यादिभिः विद्यात्मकज्ञानंआत्मनः शेषभूतमित्यवगतम् । एवमधीत्य स्नास्यन्नित्यादिभिः ज्ञानस्यकर्मशेषत्वमप्यवगतम्ततश्च द्वारभूतव्रीह्यादेः क्रतुशेषत्वेन व्रीह्यादिशेषभूतप्रोक्षणादेःक्रतुशेषत्ववत् आत्मशेषभूतज्ञानस्य कर्मशेषत्वं आत्मनः कर्मशेषत्वेनेतिवक्तव्यम् । इत्थं च कर्मसु कर्तृभूतस्यात्मनः कर्मशेषत्वं सिद्धमेवस चात्मा जीव एवेति तत्स्वरूपयाथात्म्यप्रतिपादनपरतयैव वेदान्तवाक्यानांप्रामाण्यम् । न चात्मज्ञानस्य पृथक्फलसाधनत्वप्रतीतेः कथं कर्मांगत्वमितिवाच्यम् । पृथक्फल बोधक वाक्यस्यार्थवादत्वात् । तथाहि - स्वाध्यायोऽध्येतव्यःइत्यादौ स्वाध्यायस्य कर्मत्वावगमवत् आत्मा वाऽरे द्रष्टव्यः इत्यादौआत्मनः कर्मत्व प्रतीतिरविरुद्धाततश्चाध्ययनेन स्वाध्यास्य संस्कार्यत्ववत् ज्ञानेनात्मनोपि संस्कार्यत्वंसिद्धम् । इत्थं च व्रीह्यादिसंस्कार रूपतया प्रोक्षणस्य कमर्शेषत्ववत्कर्तुस्संकाररूपतया विद्यापि कर्मशेष भूतैव । विद्यायाः कर्मशेषत्वेचअव्यभिचरित क्रतुसंबन्धिजूहूद्वारा क्रतुशेषभूत पर्णतायाः अपापश्लोकश्रवणंयथार्थवादः तथैवाव्यभिचरितक्रतुसंबन्धिकर्तृद्वारा क्रतुशेष भूतविद्यायाअपिफलश्रवणमर्थवादः । प्रकरणान्तराधीत विद्यायाऽ कथं क्रतुशेषत्वमितिमावोचः प्रकरणान्तराधीत पर्णतया इव तदुपपत्तेः ।इत्थं च व्रीहीन्प्रोक्षतीति विहितं प्रोक्षणं अव्यभिचरित क्रतु संबन्धि व्रीहिसरकार रूपं सत् यथा व्रीहिद्वारा क्रत्वंगं तथैव वेदान्त वेद्यस्यात्मनःकर्मकर्तुर्जीवादनतिरिक्तत्वेन तद्याथात्म्य वेदनं क्रतुकर्तुस्तस्यजीवात्मनः (अव्यभिचरित क्रतु सबन्धिकर्तुः) संस्काररूपं सत् तद्वाराक्रत्वंगमेवकर्मकर्तुर्जीवस्य नित्यत्वादि स्वरूपयाथात्म्यवेदनेन संस्कार्यत्वंचावश्यापेक्षितम् । कर्तुरात्मनो नित्यत्वादिज्ञानेन विना कालान्तरदेहान्तरानुभाव्यस्वर्गादि फलसाधन कर्मसु प्रवृत्त्यनुपपत्तेः । तस्मात् आत्मा वाद्रष्टव्यइत्याद्याः श्रुतयः कर्मकर्तृजीवात्मनः नित्यत्वादि स्वरूपयाथात्म्यस्यवेदितव्यत्वोपदशपरा एव । ब्रह्मविदाप्नोतीत्यादौ च कर्मकर्तृजीवएव ब्रह्म शब्देनोच्यते । अत एव हि तत्त्वसीति सामानाधिकरण्यनिर्देशःइति । यद्यपि परं जैमिनिर्मुख्यत्वादि त्यादिभिः जीवभिन्न ब्रह्मवादित्वेनजैमनिः प्रसिद्धः इति नैवंविधाक्षेपो जैमिना कर्तुं शक्यः अथापिजैमिनिना पूर्वकाण्डे उक्तंकर्मश्रद्धा संवर्धनरूपतात्पर्यान्तरेणोक्तमित्यपर्यालोच्य जैमिनेर्वास्तवमे वेदंमतमित्याशयेन पूर्वपक्षः प्रत्यवस्थितःननन्वेतावतोक्तैरेकादशभिः पादैः परं ब्रह्मैव परतत्वं तच्च चेतनाचेतनविलक्षणमिति प्रसाधितं दृढीकृतं च । एवं जीवविलक्षणस्यतस्यैव वेदान्तप्रतिपाद्यत्वंचतुर्थपुरुषार्थार्थिभिः ध्येयत्वं चेतिच निरूपितम् । अतः एवं विधशंकाकरणमेवानुपपन्नमित्यधिकरणानुत्थितिंशंकते - ननुचेति । चेतनाचेतनसाधारण इति । यथाऽचेतनसामानाधिकरण्येनन स्वरूपैक्यं युक्तं तथैवात्रापि चेतन सामानाधिक्येऽपि । उक्तंच अश्मादिवच्च तदनुपपत्तिरिति सूत्रे । तर्हि कथ मुभय सामानाधिकरण्यस्यापिनिर्वाहः इत्यत्राह - यःपृथिव्यामित्यादिना ।तत्कथमिति। तथा च जीवविलक्षणस्यैवप्रतिपाद्यमानत्वात् तस्य च कर्माकर्तृत्वात् कर्मकर्तुर्जीवस्यात्रप्रत्यभिज्ञापनाभावाच्च कथं कर्मकर्तृजीवद्वारा विद्यायाः कर्मांगत्वशङ्केति भावः ।परिहारमाह - उच्यत इति । वेदान्तवाक्येष्वेवेति । जीवविलक्षणवस्तुप्रतिपादकत्वंहि वेदान्तवाक्यानांभवदभिमतम् । तत्रैव विद्यापेक्षया कर्मणः प्राधान्यंसूच्यते । अतस्त्वयापि तदभ्युपगन्तव्यमेवेति भावः ।तदुपबृंहितेति।लिंगोपबृंहितेत्यर्थः। अतः सामानाधिकरण्यस्य स्वरूपैक्य परत्वंविना अन्यथानयनम युक्तमिति भावः । ननु यत् यदसाधारणं तत्तदंगमितिनियमः । अन्यशेषस्यान्यशेषत्वासंभवात् प्रकृतेच कर्तुः न वैदिककर्मांगत्वसंभवः तस्य वैदिककर्मणइव लौकिककर्मणोपि कर्तृत्वेन साधारणत्वात्ततश्चकर्तुरव्यभिचरित क्रतुसंबन्धित्वाभावेन तद्द्वाराअव्यभिचरितक्रतुसंबन्धिजुहूद्वारापर्णतयाः क्रत्वंगत्ववत् न विद्यायाः कर्माङ्गत्वसंभवः इत्याशयेनचोदयति - ननुचेतिसमाधत्ते=नैवमिति । अयमभिसन्धिः - यद्यपि कर्ता लौकिकवैदिक कर्मसाधारणएव । अथापि कर्तुःदेहानतिरिक्तत्वज्ञानेपि लौकिककर्मकरणं संभावितम्वैदिककर्मकर्तुस्तु देहातिरिक्त मित्यात्मस्वरूपज्ञानमेपेक्षित्तम्अअन्यथा देहान्तारानुभाव्यस्वर्गादि साधनकर्मसु प्रवृत्त्यनुपपत्तेःवेदान्तवाक्यं देहातिरिक्तनित्यात्म स्वरूपज्ञानमेवोत्पादयतिवेदान्त प्रतिपाद्यं च तदेव । नित्यात्मस्वरूपस्याव्यभिचरित क्रतुसंबन्धित्वेनतादृश नित्यात्म स्वरूपवैदिककर्मकर्तृद्वारा पर्णताया इव क्रत्वंगत्वंन विरुद्धमिति । सूत्रार्थमुपसंहरति अत इति ।।
ननु विद्यापेक्षया कर्मणः प्राधान्ये हि विद्यायाः कर्मांगत्वसिद्धिर्युक्ता ।कर्मप्राधान्यसूचकं तु न पश्यामः इत्याशयेन पृच्छति - कानि पुनस्तानीत्यादिना ।कर्मणोऽङ्गित्वसूचनाय - प्राधान्येनेत्युक्तम् । अथ दर्शनमेवविवृणोति - अश्वपतिरित्यादिना । आत्मवित्तम इत्यनेन कर्तृसंस्काररूपमात्मयाथात्म्यज्ञानमस्तीतिदर्शितम् । ब्रह्मविदग्रेसराः इत्यनेनापि तदेव दर्शितम् । कर्मप्रधानत्वदर्शनादिति।अत्र कर्म विद्या चेत्युभयमपि प्रसक्तम् । तत्र कर्मणः प्राधान्येनानुष्ठानकथनंतस्यांगित्वं सूचयति । वेदः कर्मकाण्डब्रह्मकाण्डभेदेन द्विविधः ।प्रथमः कर्मप्रतिपादकः द्वितीयस्तु ब्रह्मप्रतिपादकः । प्रथमः अंगिकाण्डःद्वितीयस्तु अंगप्रतिपादकः अंगिभूतकर्मकर्तुः जीवात्मस्वरूपयाथाम्यप्रतिपादनार्थंप्रवृत्तः । यद्यपि अंगप्रतिपादिकभागस्य ब्रह्मकाण्डस्यैव प्राथम्यंयुक्तम् । तथापि अनुयाजादिवत् अंगस्यापि पश्चाद्भावित्वं संभवतिननु कर्तृभूतजीवस्वरूपं कर्मकाण्ड एव निरूपितमिति उत्तरभागस्यव्यर्थत्वमेवेति चेन्न । जीवस्य स्वरूपं यावत् न तावत् कर्मकाण्डेप्रतिपादितम् इति न विरोधः ।।
लिंगमिदमिति । अनुग्राहकं लिंगमुक्तमित्यर्थः । प्राप्तिरुच्यतामिति ।श्रुतिरभिधीयतामित्यर्थः । यदेवेति । अत्र विद्ययेति तृतीयाश्रुत्याविद्यायाः यच्छब्दबोधितकर्मसु विनियोगोक्तेः कर्माङ्गत्वं सिद्धम् ।ननु प्रकरणबलेन विद्यया इत्यस्य प्रकृतोद्गीथमात्रविद्यापरत्वेनतस्याः कर्मांगत्वसिद्धावपि न विद्यासामान्यस्य कर्माङ्गत्वसिद्धिरितिशंकां परिहरति - नेयमित्यादिना । विद्यामात्रविषयेति । विद्येति सामान्यतःश्रवणेन सर्वविद्योपस्थापनस्वारस्यात् सर्वविद्याया अपि कर्मांगत्वसिध्याब्रह्मविद्यायाः कर्मांगत्वमव्याहतमिति भावः ।।
विद्याकर्मणोस्साहित्यं चेति । तं विद्याकर्मणीत्यादिना परलोकं प्रयान्तंप्रति विद्याकर्मणोः समन्वारम्भणाख्यः स्पर्शः संबन्धलक्षणः उक्तः ।स च संबन्धः अंगागिभाव एव वक्तव्यः । तदेव च साहित्यम् । ततश्चविद्यायाः कर्मांगत्वसिद्धिरिति भावः । ननूक्तश्रुत्या विद्याकर्मणोःसाहित्यं प्रतीतम् । तच्च कर्मणो विद्यांगत्वेपि उपपन्नं भवतीतिकथमनेन विद्यायाः कर्मांगत्वमुच्यते इत्यत्राह - साहित्यं चोक्तेनन्यायेनेति। उक्तेन न्यायेन=आचारदर्शनात्तच्छ्रुतेरिति सूत्रद्वयप्रतिपादितन्यायेनेत्यर्थःअयं भावः । यद्यपि साहित्यं विद्याया इवकर्मणोऽप्यङ्गत्व बोधने क्षममेव ।अथापि किमत्राङ्गमिति पर्यालोचनयां पूर्वोक्तहेतुद्वयसहकृतं सत् साहित्यं विद्यायाः एवांगत्वं दृढयति । नहि कर्मणोऽङ्गत्वावगमकंकिंचित् लिंगादिकमुपलभामहे - येन साहित्यं कदाचित् विपरीतफलकमपि भवेदितिशंक्येत इदं त्ववधेयम् - इदं च मरणानन्तरं परलोकगन्तृविषयम् । भवदुक्तरीत्याविद्या मोक्षहेतुभूता । विद्यद्या मोक्ष गन्तृणां कर्मणः नष्टत्वेनगमनकाले साहित्य मनुपपन्नम् । नच कर्मणा स्वर्गगन्तृणामपि विद्याऽनपेक्षितैवेतिवाच्यम् । अत्र विद्यापदेन ब्रह्मध्यानरूप विद्यायाः अविविक्षणात्कर्मकर्तृस्वात्मविज्ञानस्यैव विद्यापदेन विवक्षणात्तादृशं च ज्ञानं अपेक्षितमेव । न च कर्तृयाथात्म्यज्ञानस्य कर्तुरपेक्षितत्वेपिगमनकाले किमर्थमपेक्षेति वाच्यम् । देहात्मभ्रमाननुवृत्त्यर्थंतस्यापेक्षितत्वात् इति ।।
उत्तरसूत्रं व्याचष्टे - विद्यावत इति । विद्याशब्देन तच्छब्दार्थो विवृतः ।आचार्येत्यादि । आचार्यकुलात् = आचार्यादित्यर्थः । यथाविधानं = गुरुनियमनमनतिक्रम्येत्यर्थः ।गुरोः कर्म = गुरवे कर्तव्यं गुरुदक्षिणादिकं कर्म । अतिशेषेण = निःशेषम्अभिसमावृत्य = निर्वृत्येत्यर्थः । नन्वत्र विद्यायाः कथं कर्मांगत्वप्रतीतिरित्यत्राह - वेदमधीत्येति । अधीत्येति ल्यपा अध्ययनस्य गृहस्थधर्मे विनियोगप्रतीतिरुक्ता । स्वाध्यायमधीयानो धार्मिकान् विदधत् आत्मनिसर्वेन्द्रियाणि संप्रतिष्ठाप्य अहिंसन् सर्वभूतानि अन्यत्र तीर्थेभ्यः स खल्वेवंवर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते इत्युपरि वाक्यम् ।अत्र पुत्रशिष्यादीनां धर्मनिष्ठत्वकरणं निषिद्धवर्जनं क्रत्वनुष्ठानंचोच्यते । ब्रह्मलोकमित्यत्र ब्रह्मशब्दः जीवपरः जीवात्मकर्मसंपादिततत्तल्लोकप्राप्तिरुक्ता । नच पुनरावर्तन इतीदं चिरकालस्यापित्वाभिप्रायकम् ।नन्वत्राध्ययनस्य कर्मांगत्वमुक्तश्रुत्या प्रतीयतां नाम, तेन विद्याविलक्षणस्यार्थावबोधस्य कथं कर्मांगत्वसिद्धिरिति शंकापरिहारायअर्थावबोधपर्यन्ताध्ययनवतः इत्युक्तम् ।ननु स्वाध्यायोऽध्येतव्य इत्यत्र विहितस्याध्ययनस्यार्थज्ञानपर्यन्तत्वेसिद्धे हि त्वदभिलषितार्थसिद्धिः । तदेव तु न पश्यामः । अध्ययनस्याक्षरराशिग्रहणमात्रपर्यन्तत्वादित्यत्राह - अर्थावबोधेति ।भाट्टैः प्राभाकारैश्च पूर्वतन्त्रे स्थापितमिति भावः ।। क्रतुज्ञानमन्तरेणक्रत्वनुष्ठानासंभवात् क्रत्वनुष्ठानं प्रति यथाऽनुष्ठेयं क्रतुज्ञानमंगं,तथैवाध्ययनमात्रे सत्यपि अर्थज्ञानाभावे अध्ययनांगिभूत कर्मानुष्ठानासंभवात्कर्म प्रति अर्थज्ञानस्यांगत्वमित्यध्ययनस्यांगत्वबोधनेपि अर्थज्ञानपर्यन्तस्यैवाध्ययनस्यांगत्वमेषितव्यमित्याशयः ।। इत्थं च विद्यायाः कर्मांगत्वसिध्याऽङ्गस्यचाफलत्वनियमेन न विद्यायाः पृथक्फलत्वमित्युपसंहरति - अत इति ।।
उत्तरसूत्रं व्याचष्टे - इतश्चेति । आत्मज्ञानस्यांगत्वस्फोरणाय - आत्मविदःइत्युक्तम् । शतं समाः इत्येतत्पर्यालोच्य पुरुषायुषस्य सर्वस्येत्युक्तम्विनियोगादिति । प्रधान्येनेत्यादिः। शतवर्षाणि जीवितुमिच्छेत्चेत् कर्माणि कुर्वन्नेव जिजीविषेदित्युदाहुतश्रुत्या बोधनेन विदुषोयावदायुषं फलार्थं कर्मकरण विधानप्रतीतेः कर्मणः प्राधान्यमवगतम्ततश्च यावदायुषं कर्तव्यतया विहितस्य कर्मणः प्रधानत्वे तन्मध्येप्राप्तस्य सर्वस्यापि अप्रधानत्वलक्षणांगत्वावश्यकत्वेन ब्रह्मविद्यायाअपि कर्मांगत्वमापतितं भवतीति भावः ।विद्या तु कर्मांगमिति । अत्र षड्भिः सूत्रैः जैमिनिमतमुपन्यस्तवान् व्यासः ।ननु कथं व्यासस्य एवं रीत्या जैमिनिपक्षोपन्यासः संगच्छते । व्यासेनैवस्वसूत्रेषु ब्रह्म-तदुपासना-ब्रह्मप्राप्तिरूपमोक्षादीनां जैमिन्यंगीकृतत्वभाषणात् । परं जैमिनिः मुख्यत्वात्, ब्राह्मेण जैमिनिरुपन्यासादिभ्यः, भावंजैमिनिः विकल्पामननात्, साक्षादप्यविरोधं जैमिनिः इत्येवं जैमिनिमतस्योपन्यासात्एवं सति कथमत्र विरुद्धभाषणम्? उच्यते । पूर्वकाले सर्वेपि ऋषयः संभूय विनावैमनस्यं असूयां द्वेषादिकं च, शास्त्रविचारं कृतवन्तः आसन् । तत्र व्यासस्यवेदविभागादिकृतः सामर्थ्यमवेक्ष्य तं प्रधानीकृत्य विवदामासुः । तदा ते ते ऋषयःस्वाभिप्रायं प्रकटितवन्तः । अत एव व्यासः स्वसूत्रे तत्तदभिप्रायं तत्तन्नामनिर्देशपूर्वकं प्रकटीचकार । जैमिनिरपि स्वाभिप्रायं प्रादर्शयत् । तमेवाभिप्रायंव्यासः अत्र सूत्रे निबबन्ध । चर्चासमाप्तौ केचित् स्वमतावलम्बिन एवासन् ।जैमिनिस्तु व्यासोक्तस्यावापोद्वापादिभिः परमार्थत्वं निर्णीय तन्मतमेव स्वमतमितिनिर्धारयामास । निर्धारणात्पूर्वं जैमिनेः योऽभिप्रायः तमभिप्रायम्अत्रायोजयत् । निर्धारणानन्तरभाव्यभिप्रायमपि । अतः जैमिनेः प्राथमिकीदशाऽन्त्र पश्चाद्भाविनी दशा ब्रह्मास्तित्व तदुपासन मोक्षप्राप्त्याधभ्युपगमदशाअत एव जैमिनेः । व्यासशिष्यत्वं भारते हयशिरोपाख्याने प्रतिपादितम्अतः पूर्वं जैमिनिः निरीश्वरवादी । कर्मैवापूर्व द्वारेण फलजनकंवेदान्तवाक्यानि कर्मकर्तृजीवयाथाभ्यप्रतिपादकानि नत्वतिरिक्त ब्रह्मप्रतिपादकम्जीवस्वरूपज्ञानं च कर्मांगम् । अत एव । “य एतदक्षरमविदित्वा तपस्तप्यतेबहूनि वर्षसहस्राणि अन्तवदेवास्य तद्भवति, य एतदक्षरं विदित्वातपस्तप्यति’ इत्यादौ वेदनस्य कर्मांगत्वं स्पष्टमभिहितम् इत्यभिमन्यते स्म ।तदीयपक्षमत्र बादरायणः तन्नामनिर्देशपूर्वकमुवाच ।विद्या प्रधानं कर्म अंगं इति वादिनो वयम् । एवं कर्मणः प्रधानत्वंविद्यायाः अंगत्वं च केचिदुशन्ति । केचिच्च समप्राधान्यम् । अस्मन्मतेऽपिज्ञानयोगस्येव कर्मयोगस्यापि आत्मावलोकसाधनत्वमिष्यते । कथं? कर्मणःआत्मज्ञानगर्भत्वादिति वक्तव्यम् । तत एव सिद्धं कर्मणः प्राधान्यंज्ञानस्यांगत्वं च । सर्वस्य कर्मणः भगवदाराधनरूपत्वमभ्युपगम्य कर्मानुष्ठीयते ।तच्च कर्म भगवद्ज्ञानगर्भं सत् फलं जनयति । नित्यं क्रियमाणभगवदर्चादिकमपिकर्म भगवद्ज्ञानगर्भमेव सत् फलाय समर्थम् । एतादृशस्थले कर्मणः प्राधान्यंवेदनस्यांगत्वं चईश्वरध्यानं चित्तशुध्यर्थं, स्वात्मध्यानं तु कैवल्याख्य मोक्षहेतुःइतीश्वरांगीकर्तुनैयायिकस्य मतम् । ध्यानकर्मणोः समसमुच्चयः इतिप्राचीननैयायिकमतम् । उदयनाचार्यादयः विद्यायाः प्राधान्यमुशन्ति । एवं बहवःपक्षास्सन्तीति दर्पणे ।। एवमेव मोक्षे दुःखनिवृत्तिमात्रं, न त्वानन्दः,धर्मज्ञानस्य तन्मते आगन्तुकत्वात् तदा इन्द्रियाद्यभावेनज्ञानाभावात् आनन्दस्य न प्रसक्तिः । आत्मनोपि ज्ञानरूपत्वाभावेनानन्दाप्रसक्तिः ।अधिकोपदेशात् । इति सिद्धान्तसूत्रम् । तदन्तरप्रतिपत्त्यधिकरणेफलाधिकरणे अत्रपुरुषार्थाधिकरणे च प्रथमतः । सिद्धान्तसूत्रं पश्चात्पूर्वपक्षःसिद्धान्तश्च इति मार्ग आदृतः ।।
एवं जैमिन्यहृदयकथितं पक्षमुपक्षिप्य सिद्धान्तमाह - एवमिति । वेद्यतयोपदेशादिति ।अयं भावः - व्रीहीन्प्रोक्षतीत्यत्र विहितप्रोक्षणस्य व्रीहिद्वारा क्रत्वंगत्ववत्ब्रह्मविदाप्नोति परमिति विहितवेदनस्य प्रत्यगात्मद्वारा क्रत्वंगत्वकथनमयुक्तम् ।तत्र प्रत्यगात्मविलक्षणस्यैवान्यस्य कस्यचित् वेद्यत्वावगमेन प्रत्यगात्मनएवानुपस्थितेः । अतः तस्य वेदनं प्रति न द्वारत्वसंभवः । प्रतीयमानं च ब्रह्मन कर्मकर्तृ । अतो ब्रह्मवेदनस्य न कर्माङ्गत्वसंभवः इति न विलक्षणवस्तुवेदनस्यफलकथनमर्थवाद इति । ननु विद्यायाः अंगत्वे बहूनि लिंगानि दर्शितानि ।अथ कथमगंभूतयास्तस्याः फलवत्वमित्यत्राह - लिंगानीति ।। तद्दर्शनादिति ।सूत्रखण्डमुपादाय विवृणोति - तद्दर्शनादित्यादिना । अशुद्धे शुद्धेऽप्यसंभावनीयानन्तगुणाकरस्येत्यनेनवेदान्तवेद्यस्य चेतनविलक्षणत्वमुक्तम् । स्वरूपपरवाक्योक्तगुणानांउपासनापेक्षितत्वेन गुणप्रतिपादकस्वरूपपरवाक्यानामुपासनोपयोगित्वमभिप्रेत्यवेदनोपदेशवाक्येष्वित्युक्तम् । एतेन गुणप्रतिपादकानामुदाहरिष्यमाणानांस्वरूपपरवाक्यानां कथं वेदनोपदेशत्वमिति शंका व्युदस्ता । मृत्युर्धावतिपञ्चमः इत्यादिषु वेदनोपदेशवाक्येषु दर्शनादित्यन्वयः । निरस्तनिखिलहेयगन्धस्येत्यादिनागुणसप्तकविशिष्टत्वं उपहतपाप्मेत्यादि श्रुतिभियर्थासंभवं प्रतिपाद्यतेननु परस्य ब्रह्मणः वेदनोपदेशवाक्येषु दर्शनमस्तु किं ततइत्यत्राह - तस्मादितिप्रत्यगात्मनः वेदान्तवाक्यप्रतिपाद्यत्वासंभव सूचनाय खद्योतकल्पस्येत्यादिविशेषणद्वयम् । मुक्तस्यापि संग्रहार्थं हेयसंबन्धयोग्यस्येत्युक्तम्
ननु वेदान्तवाक्येष्वेव कर्मप्राधान्य सूचकं लिंगादिकमस्तीति पूर्वमुक्तम्तस्यः कः परिहारः यावतोक्तं लिंगादिकं न दूषितं, न तावता विद्यायाःअंगित्वसिद्धिः जीवाधिकस्य वेदान्त वेद्यत्वसिद्धिश्चेत्यत्राह - लिंगान्यपिनिरस्यन्त इति।। आचारदर्शनादिति सूत्रोक्तमनुवदति - यदुक्तमिति ।तुशब्दस्वारस्यमवलम्ब्य अनंगत्वेऽपीत्युक्तम् । किमुक्तं भवतीत्यत्राह - ब्रह्मविदामिति।अनैकान्तिकत्वमेव विवृणोति - अननुष्ठानस्यापीति। तथा च ब्रह्मविदांकमीनुष्ठानम नियतमित्यर्थः । दर्शनमेव व्यनक्ति - दृश्यते हीति ।किमर्थः=किंप्रयोजना इत्यर्थः ।अध्येष्यामहे इत्यनेनाध्ययनरूपं कर्म विवक्षितम् । अध्येष्यामहेइत्यनेनार्थज्ञानस्यापि त्यागोक्त्या कथं विद्यायाः अप्यंगित्वमितिनमन्तव्म् । अक्षरराशिग्रहण फलकस्याध्य यनमात्रस्य विवक्षितत्वात्तस्यार्थज्ञानपर्यन्तत्वस्योत्तरत्र निषेधाच्च ।एवमनियतत्वोक्यासिद्धं दूषणमाह - अत इति। कर्मणोऽङ्गित्वं हि भवदभिमतम् । नह्यंगिभूतकर्मानुष्ठानत्यागः कथंचिदपि घटते । अंगिनोऽवश्यानुष्टेयत्वनियमादितिभावः । ननु भवन्मतेपि ब्रह्मविदां कर्मानुष्ठानाननुष्ठाने कथं घटेतेकर्मणः अंगत्वाभ्युपगमात् । नह्यनियतमंग भवितुमर्हतीत्याशयेनचोदयति - कथमिदमितिपरिहरति - फलाभिसन्धीति । यज्ञादि कर्म फल तस्त्याज्यं स्वरूपतः उपादेयंच ब्रह्मविदाम् । अतः फलाभिसन्ध्या तदनुष्ठाने न तदंगम् - फलाभिसन्धिविरहेण तदनुष्ठाने च तदंगम् । अतो ब्रह्मविदामेवाभिसंहितफलानांकर्मणां त्यागः, अनभि संहित फलानां तेषामेवानुष्ठानं चोपपन्नतरमितिनास्मत्पक्षेव्याहतिलेशोपीति भावः । अतःअनभि संहित फलस्य कर्मणःअनंगत्वे हेतुकथनं मोक्षैकफलब्रह्मविद्याविरोधित्वादिति । विरोधित्वेनानं गत्वादननुष्ठान दर्शनं युक्तमिति भावः । उक्तव्याहतिर्भवन्मतेएवेत्याह - विद्याया इति । स्वर्गस्वाराज्यादि साधक कर्मांगत्वेनहि विद्या भवदभिमता ततश्च विद्यां प्रत्यंगिनः प्रधानरूप कर्मणः कथं त्यागःअत प्रधानभूतकर्मानुष्ठानानुष्ठाने भवतामेव व्याहते । ननु क्वचित्मोक्षैक फलकस्य कर्मणोऽनुष्टेयत्वं क्वचिच्च त्रिवर्गफलस्य कर्मणःअननुष्टेयत्वमिति नास्मन्मतेऽपि व्याहतिरिति चेन्न । मोक्षाख्यपुरुषार्थस्यैव भवदनभिमतत्वात् ब्रह्मविद्याफलश्रवणस्य ह्यर्थवादत्वंभवदभिमतमिति ।।
उत्तरसूत्रमवतारयति - यदुक्तमिति । न सर्वविद्याविषयेत्यनेन असार्वत्रिकीतीदंविवृतम् । तर्हि किंविषयेत्यत्राह - अपित्विति । कुत इत्यत्राह - यदेवेतिअनिर्धारितविशेषस्येत्यनेन विशेषविषयसाकांक्षत्वेन निरपेक्षत्वलक्षणश्रुतित्व मेवास्याः नास्तीति दर्शितम् । प्रस्तुतेत्यनेन प्रकरणपरामर्शःउक्तः । निष्ठत्वं = वाचकत्वम् । ननु प्रकरणापेक्षयापि श्रुतेर्बलीयस्त्वमपितत्रैव शंकितमित्यत्र अनिर्धारितविशेषेत्यनेन विवक्षित मर्थं व्यनक्ति - नहीत्यादिनाअयमाशयः यदेव विद्यया करोति तदेव वीर्यवत्तरंभवतीति हि वाक्यंश्रूयते । अत्र यत्करोति तद्विद्यया इत्यन्वयश्चेत् यच्छब्देन कर्मसामान्यपरामर्शसंभवेनविद्याशब्देन विद्यासामान्यबोधनमिति विद्यायाः सर्वस्या अपि कर्मांगत्वंविहितं भवेत्नच तथाऽन्वयः । यदेव विद्यया करोति इति श्रवणात् । अतः यदेवेत्यनुवादरूपतयाप्रतीयमानत्वात् प्रापकप्रमाणं किमित्यपेक्षायां, प्रकरण बलात्उद्गीथमुपासीत इति प्रकृतोद्गीथोपासनेन क्रियमाणस्य कर्मण एव यच्छब्देनपरामर्शात् सामान्यवाचिनोपि विद्याशब्दस्य उद्गीथविधा विशेषे संकोचःआवश्यकः इति न विद्यासामान्यस्य कर्मांगत्व बोधनं संभवति । तस्मात्विद्ययेत्यस्य स्वतोऽर्थनिश्चसामर्थ्याभावेन श्रुतित्व मेवनास्तीतिन प्रकरणापेक्षया प्राबल्यविचारः युक्तः इति ।। यच्छब्दः उद्गीथविद्यया क्रियमाणकर्मवाची विद्याशब्दश्च उद्गीथविद्यावाचीततश्चोद्गीथविद्यायाः क्वचित्कर्मांगत्वं सिद्धमेवेति सर्वस्याअपि विद्यायाः कर्माङ्गत्वं किं न स्यादिति चेन्न, उद्गीथविद्यायाअपि कर्मांगत्वस्य तन्निर्धारणानियमाधिकरणे यथाश्रयभावाधिकरणे चनिषिद्धत्वात् । तर्ह्यस्या श्रुतेः कागतिरिति चेत् वीर्यवत्तरत्वफलाभिलाषिणःकर्मकर्तुः उद्गीथविद्यानुष्ठानं नियमेन कर्तव्यमित्येतावन्मात्रमेवेयंश्रुतिःबोधयति । अन्यथाधिकरणद्वयोक्त दूषणानां जागरुकत्वादिति ।उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलत्वेऽप्यार्थवादिकमपिफलं तदविरुद्धं ग्राह्यमेवेति । अन्यथात्वाधिकरणभाष्यं त्वन्वारुह्यभाषणमिति पूर्वमेवावोचामप्रतिबन्धकाभावस्यापि पुरुषाभिमतत्वेन पुरुषार्थत्वं च । अधिकरणद्वयेनिराकृतं क्रत्वर्थत्वं च नै तद्रूपं किंतु परमापूर्व प्रयोजकत्वरूपं,तथाचैतत्सूत्रस्यान्यथात्वाधिकरण भाष्यस्य च नोक्ताधिकरणद्वयेन सहविरोधः इति ।। वस्तुतस्तु क्रत्वर्थत्वं पुरुषार्थत्व मुभयमपि प्रकृतेऽविरुद्धं,अत्रक्रत्वर्थत्वं हि न प्रयाजाद्यंग साधारणं परमापूर्व प्रयोजकत्वरूपंकिं तु प्रतिबन्धविघटन द्वारा क्रतुफल प्रयोजकत्वरूपं मुत्तेजकत्वपर्यवसितम् । अत्र विद्यापदेनोद्गीथ विद्यायाः - परामर्शे भवदभिमतकर्तृयाथाम्यज्ञानस्यांगत्वंन सिध्यतिउद्गीथविद्यायाः - अपि फलकामनायामेव कर्तव्यत्वसिध्या तस्या अपिनांगत्व सिद्धिः कर्तृयाथाम्यज्ञानस्यैव विवक्षणे तेन ज्ञानेन क्रियमाणस्यकर्मणः वीर्यवत्तरत्व फलत्वोक्त्या फलान्तरसाधकत्वसिद्धिरिति स्वर्गादिसाधकयागाद्यंगकत्वंन सिध्येत् । अप्रतिबन्धफलानभिलषया कर्म मात्रकरणे तत्रास्य ज्ञानस्यानपेक्षितत्वादपिनांगत्वसिद्धिः । फलाभिलाषानभिलाषाभ्यां अस्यानुष्ठानतदभावौ इतिनास्य ज्ञानस्य विद्यारूपस्य सार्वत्रिकत्वमित्यप्यभिप्रायः सूत्रकृतः ।।
अथ समन्वारम्भणादिति सूत्रोक्तदूषणपरिहारपरमुत्तरसूत्रमवतारयति - यच्चेदमुक्तमिति । विद्याकर्मणोस्साहित्यमात्रं न विद्यायाः अंगत्व बोधने क्षमम् ।तदुपोद्बलकतयोक्तन्यायश्च परिहृतः । तस्मान्नानया विद्यायाः अंगत्वं बोध्यते ।तर्हि किमनया प्रतिपाद्यत इति चेत्तत्राह - तं विद्याकर्मणोरिति । उक्तेनन्यायेनेति । अभिसंहितफलस्य कर्मणः मोक्षव्यतिरिक्तस्वर्गादिफलजनकत्वमित्युक्तप्रकारेणेत्यर्थः । शतवदिति खण्डेनाभिप्रेतमर्थं विवृणोति - शतवदिति ।ननु तं विद्याकर्मणी समन्वारभेते इत्यत्र एकस्यामेव व्यक्तौ विद्याकर्मणोस्समन्वारम्भणंप्रतीयते । अत एव हि दृष्टान्तेपि विक्रेतर्येकस्मिन्नेव शतद्वयस्यान्वयः । नहिएकस्मिन् विद्यायाः समन्वारम्भणे, अपरत्र कर्मणः समन्वारम्भणे च"तं विद्याकर्मणी समन्वारभेते” इति वाक्यं स्वरसम् । ततश्चैकस्मिन्पुरुषे विद्यायाः स्वफलभूतमोक्षजननाय समन्वारम्भणे तद्विलक्षणफलजनकस्यकर्मणः कथं समन्वारम्भणं युक्तं असंभवात् । एवं कर्मणः स्वफलजननायसमन्वारम्भणे तद्विपरीतफलयाः विद्यायाश्च समन्वारम्भणमपि न युक्तमेवेतिचेत् । ब्रूमः - नात्र मोक्षजनकविद्यायाः समन्वारम्भणं विवक्षितम्किंतु सांसारिक फलजनक कर्मण इव सांसारिक फलजनकविद्याया एव समन्वारम्भणमुच्यतेइत्थं च सांसारिकफलजनन समर्थ विद्याकर्मणोरेकेन पुरुषेणानुष्ठानेतद्वयमपि कालान्तरे देहान्तरे चानुष्टातारं तमेव पुरुषं मनुवर्ततेयावता तज्जन्य फलस्यासिद्धिःतावत्तयोरनुवृत्तेरावश्यकत्वात् ।अतो न विरोधः । यद्वा मोक्षजनकविद्याया इव तदंग कर्मणः एव समन्वारम्भणमत्रोच्यतेउउपायभक्तिः प्रारब्धव्यतिरिक्ताधनाशिनीति न्यायेन विद्यायाः प्रारब्धकर्मावसानेएव मोक्षजनकत्वात् प्रारब्धकर्मावसानपर्यन्तं तदनुवृत्तिरावश्यकीतदङ्गकर्मणश्च अभ्यासाधेयातिशयविद्योत्पादनाय जन्मान्तरेऽप्यनुवृत्तिरावश्यकीतिन तं विद्याकर्मणी समन्वारभेते इति श्रुत्यस्वारस्यम्ननु विद्यायाः कर्मांगत्वमभ्युपयतामस्माकमपि न श्रुत्य स्वारस्यं,स्वर्गादिजनक कर्मणा फलजननाय प्रधानभूतकर्मानुवृत्तिवत् तदंगविद्यायाअप्यनुवृत्तेरिष्टत्वादिति चेत् न विद्यायाःकर्मांगत्वे एव विवादात्अंगत्वसिद्धौ ह्येव मुपपत्तिस्सुवचा । अंगत्वे श्रुत्याचार दर्शनादिकंतु परास्तम् ।अस्माकं सर्वापेक्षाच यज्ञादि श्रुतेरश्ववदित्यनेनकर्मणां विद्यांगत्वस्थापनात् एवमुपपादनं शोभनमिति ।।इन्द्वसमासोह्ययम् । उभयोः समप्राधान्यं स्पष्टमवगम्यते । अतोऽप्यंगागिभावस्यनात्र प्रतीतिः । नाम ब्रह्मेत्युपासीत इत्याद्यैश्वर्यफलकानांफलान्तरकर्मणां च मृतं प्रत्यनुवृत्तिर्युक्ताएकफलानुभवाणन्तरं अत्य फलानुभवः । तत्र प्रथफलानुभवाय यो गच्छतितस्मिन्नुभयोः साहित्यमस्ति ।।
अथ दूष्यांशानुवादपुरस्सरमुत्तरसूत्रं व्याचष्टे - यदुक्तमित्यादिना ।कुतो न युक्तमित्यत्राह - वेदमधीत्येति । नन्वध्ययनविधेरेवार्थज्ञानपर्यन्तत्वेनार्थविचारप्रवर्तकत्वं स्थापितमित्यत्र - किं शब्दस्वारस्यादभ्युपपगतं,उतार्थानुपपत्त्येति विकल्पं हृदि निधाय प्रथमे दूषणमाह - न चाध्ययनविधिरेवेति ।अक्षरराशिग्रहणमात्रेपर्यवसानादिति स्वमते ह्येव शब्दस्वारस्यमितिदर्शितम् ।यथाऽग्नीनदधीत इत्यत्राधानं=अग्निसिद्धये केवलं विधीयतेन पुनरुत्तरकर्मानुष्ठानार्थम् । शब्दस्य तावन्मात्रे प्रसिद्धिस्वारस्यात् ।एवमत्रापि अध्ययनविधिः अक्षरराशिग्रहणप्राप्त्यर्थमेव विधीयते इति भावः ।द्वितीये दूषणमाह - गृहीतस्य चेति । अयं भावः - अध्ययनविधेरेवार्थबोधप्रवर्तकत्वाभावे प्रवर्तकान्तराभावाच्च केवलं मूलमात्राध्ययनततः मीमांसायां प्रवृत्तिःन स्यादिति मीमांसायाः अनारंभणीयत्वप्रसंगः इति हि भवद्भिरर्थानुपपत्तिरुच्यते ।सा च न संभवति । अध्ययनविधेरक्षरराशिग्रहणमात्रपरत्वेपि रागत एव विचारेप्रवृत्त्या मीमांसायाः आरम्भणीयत्वसिद्धेः । वस्तुतः रागप्राप्तार्थे विधिकल्पनमप्ययुक्तम् । अप्राप्ते हि शास्त्रमर्थवदिति हि प्राहुरिति । अत्र वक्तव्यंअर्थज्ञानपर्यन्तत्ववाद्युक्तनुपपत्तिपरिहारः तन्मतदूषणं स्वमतस्वारस्यादिकंसर्वमपि आदौ जिज्ञासाधिकरणभाष्यव्याख्याने एव संयक् प्रदर्शितमित्यत्र नविस्तरं कुर्मः ।परमतान्वारोहेणापि समाधत्ते - यद्यपीत्यादिना । यद्वा - नन्वध्ययनविधेरर्थज्ञानपर्यन्तत्ववादिमते इव अक्षरराशिग्रहणमात्रपरत्ववादिनां भवतां मतेऽपि अर्थादर्थावबोधप्रवर्तकत्वमप्यभ्युपगतं भवत्येव । नह्यक्षरराशिग्रहणफलकाध्ययनविधिमन्तराअर्थविचारे रागतः प्रवृत्तिरपि सूपपादा । प्रवर्तकाभावेन साङ्गवेदाध्ययनेएवाप्रवृत्त्या रागतः प्रवृत्तिहेतुभूतापातप्रतीतेरेवासत्त्वात् । यदि त्वध्ययनेएव रागतः प्रवृत्तिरभ्युपेयते, तर्हि स्वाध्यायोऽध्येतव्यः इत्यध्ययनविधेःजलाञ्जलिप्रदानमेव युक्तं स्यादित्यत्राह - यद्यपीति । अयमभिप्रायः - नवयमध्ययनं रागप्राप्तमिति ब्रूमः, येनाध्ययनविधेरानर्थक्यं प्रसज्यते ।नाप्यर्थविचारस्य वैधत्वं ब्रूमः, प्राप्तत्वात् । शब्दस्वारस्यार्थानुपपत्त्याद्यभावाच्च । इयांस्तु विशेषः - भवतामध्ययनविधेरेव अर्थावबोधप्रवर्तकत्वं,अस्माकं तु, अक्षरराशिग्रहणमात्रफलकत्वमेव, अर्थविचारप्रवृत्तिश्चरागतः एव, तादृशाध्ययनविध्यभावे चाध्ययनस्यैवाभावेनापातप्रतीत्यभावात्रागतः प्रवृत्तिरपि न घटत एव । तावता न रागप्राप्तस्य विधेयत्वमावश्यकम् ।ननु साक्षादध्ययनविधिना रागत एव वापरंपरयाऽर्थज्ञानस्य प्राप्तत्वेपितस्यावश्यं कर्मानुष्ठानपूर्वभावित्वेन कर्मांगत्वमापतेदेवेति चेत्, किं ततः -तावताऽस्मदभिमतविद्यायाः कर्मांगत्वासिद्धेः । किमत्र कर्मांगत्वेनाभिमताविद्या वेदाध्ययनमेव विवक्षितं यद्वा वेदान्तवाक्यार्थपरिज्ञानं, अथवा मननादिमुखेन तज्जन्यब्रह्मोपासनम् । नाद्यः - अग्निसिध्यर्थाधानस्येवाक्षरराशिग्रहणफलकस्याध्ययनस्योत्तरकर्मानुष्ठानार्थत्वासंभवात् । न द्वितीयः,तस्यैकविषयत्वेन परस्परसापेक्षत्वेन च ब्रह्मोपासनांगत्वे संभवेऽपिकर्मांगत्वासंभवात् ।न च वाक्यजन्यज्ञानापेक्षया ब्रह्मप्राप्तिफलकब्रह्मोपासनस्यान्यत्वाभावेनकथमगांगिभावः आत्माश्रयादिति वाच्यम् । उपासनात्मकस्य साक्षाद्ब्रह्मप्राप्त्यर्थस्यापरोक्षज्ञानशिरस्कस्याहरहरभ्यासाधेयातिशयत्वेनाप्रयाणादनुवर्तमानत्वेन च वाक्यजन्यपरोक्षज्ञानविलक्षणत्वात् ।अन्यथा कर्मस्वरूपज्ञानापेक्षया कर्मानुष्ठानस्याप्यविलक्षणत्वापातात् ।न तृतीयः = अंगत्वग्राहकप्रमाणाभावात् । वस्तुतो वीतरागैरनुष्ठानाभावेनन कथंचिदपि विद्यायाः कर्मांगत्वसिद्धिरिति ।।
स्वाध्यायोऽध्येतव्य इति वाक्यस्य क्रतुप्रकरणापठितत्वात् अनारभ्याधीतत्वाच्चनेदं अध्ययनस्य कर्मांगत्वबोधकं,यथाऽनारभ्याधीतस्य वसन्ते ब्राह्मणः अग्नीन् आदधीत इति वाक्यस्यन कर्मांगत्वबोधकता । कर्मानुष्ठानविधायककर्मविधीनां अग्नि, अध्ययनसापेक्षत्वेपि आधानसिद्धाग्निमतः अध्ययनाधीनज्ञानवतश्च स्वरसत एवलाभात् कर्म विधयः आधानमध्ययनं च नाक्षिपन्ति । एवमध्ययनविधेः क्रत्वनुष्ठानपर्यन्तप्रवर्तकत्वंनास्ति । तथा क्रतूपयोग्यर्थज्ञानपर्यन्तप्रवर्तकत्वमपि नास्ति ।अध्येतव्य इति तव्यप्रत्ययः अक्षरराशेरेव कर्मत्वमवगमयति । अतःस्वाध्यायप्राप्तिरेव फलम् । आचार्यकुलात् वेदमधीत्य “इत्यत्र क्त्वाप्रत्ययेन उत्तरकालीनत्वप्रतीतिरेव नांगत्व प्रतीतिः । “अभिसमावृत्त्य इत्यत्रापीयमेव रीतिः । कर्माणि कुर्वन्नेवेत्यवधारणस्वारस्यमवलम्ब्य - ज्ञानाद्व्यावृत्येत्युक्तम् । तन्नोपपद्यते इत्यनेननेति सूत्रखण्डो विवृतः ।अविशेषादिति व्याख्येयपदोपादानम् ।उपपत्तेरिति।अनेन वाक्येनात्मविदः कर्म कर्तव्यमेवेत्युक्तं, न पुनर्विद्यायाःकर्मांगत्वं, तत्साधकविशेषलिंगाभावात् । अतो ब्रह्मविद्यांगभूतकर्मानुष्ठानस्यावश्यकर्तव्यत्वबोधनपरतयाप्यस्य वचनस्योपपत्तेः न किं चिद्बाधकम् । अतोऽवधारणपिन स्वरसमिति भावः । ननु फला प्रतिपादकवाक्यस्यान्यथोपपत्तावपि फलप्रतिपादिकवाक्यस्यकागतिरित्यत्र तत्रापि फलनिर्देशः उपासनाभिवृद्धिपरः अतः कर्मेणैवहीत्येतदप्येतदभिप्रायकमेवेत्याह - कर्मणैवेतिनन्वस्त्वंगत्वं कर्मणां, यावज्जीवानुवर्त्यत्वं कुत इत्यत्राह - विदुषस्त्विति ।स खल्वेवं वर्तयन्नित्यादिना अंगिनः यावज्जीवानुवर्त्यत्वमुक्तम् । अतोऽङ्गानामपि अंगिभूतविद्यावैशद्योत्पादनाय यावज्जीवमनुवृत्तिरावश्यकीति भावः ।।
उत्तरसूत्रमवतारयति - एवमिति । अर्थस्वाभाव्येनेति । विद्यायाः अर्थज्ञानविलक्षणत्वंकर्माङ्गित्वं कर्माङ्गत्वासंभवश्चेत्यर्थस्वाभाव्येनेत्यर्थः । अवधारणार्थ इति ।अनुमतिरेवेत्यर्थः । वाशब्दस्य विकल्पार्थकत्वे नाविशेषात् स्तुतयेऽनुमतिरितिसूत्रद्वयोक्तयोः कुर्वन्नेवेति वाक्यस्य विद्यांङ्गकर्मविधिपरत्वविद्यास्तुत्युपयोगिकर्मानुमतिपरत्वयोरर्थयोः विकल्पः प्रतीयते तच्चानभिमतं, तथा सति तयोस्तुल्यबलत्वापातात् । न च तदपीष्टम् । तथा सति पूर्वसूत्रेणैवोक्तार्थद्वयविवक्षासंभवेनस्तुतयेऽनुमति र्वेति सूत्रस्य वैयर्थ्यापत्तेःतत्राहि विद्यांगकर्मपरत्वं वा विद्यास्तुत्युपयोगिकर्मपरत्वं वाविहाय काम्यकर्मविधिपरत्वमेवेत्यत्र विशेषहेत्वभावान्नैव मित्यर्थवर्णनं संभवति । अविशेषादिति हि सूत्रितम् ।। एवं पूर्वपक्ष्यभिमतार्थेइव विद्यांगकर्मग्रहण पक्षेपि “न कर्मलिप्यते” इति वाक्यशेषासामञ्जस्येनप्रकरणविरोधाच्च । नच विद्यांगकर्मणां लेपाभावः, विद्योपकाररूपफललेपकत्वावश्यंभावात् । अत एवहि पूर्व सूत्र भाष्ये । विद्यांगभूतकर्मविषयतयाऽप्युपत्तेरित्यस्वारस्येन भाषितम् । अतो दुर्बल पक्षमवलम्ब्यपूर्वपक्षिमतं प्रदूष्य प्रबलपक्षावलम्बनार्थ मुत्तर सूत्र प्रवृत्तिरित्याशयेन - वाशब्दोऽवधारणार्थ इत्युक्तम् । वाशब्दस्य साध्यवाचिपदसमभिव्याहारात्"विधिर्वा धारणवादित्यत्रावधारणवाचित्वदर्शनाच्चावधारणार्थत्वंयुक्तमेव । अनेन पूर्व सूत्रोक्तार्थव्युदासोऽप्यर्थात्सिध्यतिकुर्वन्नेवेत्यस्य एतत्सूत्रार्थ एव सूत्रकृदभिमत इति सूचनाय"एवमर्थस्वाभाव्येन चोद्यं परिहृत्य’ कुर्वन्नेवेह कर्माणि इत्यस्यवाक्यस्यार्थमाहेत्यवतारितम् ।। अनुमतिरिति । ब्रह्मविदोपि काम्यस्यनिषिद्धस्य च कर्मणः काममनुष्ठानं भवतु नाम । तथापि तदधीनबन्धस्यनैव प्रसक्तिः । दर्शनसमानाकारध्यानेन सर्वस्यापि नाशावश्यंभावात्इति तात्पर्यम् । विधिपक्षे विद्यांगकर्मपरमिदम् । यज्ञेन विविदिषन्तिइति कर्मणो विद्यांगत्वबोधकम् ।। सूत्रार्थमाह - ईशेति । ईशा = सर्वनियन्त्रापुरुषोत्तमेन । अयं चेशाशब्दः तृतीयान्तः । वास्यं = व्याप्यमित्यर्थः ।यद्वा सर्वाधारे स्वस्मिन् स्वेन वासनीयमित्यर्थः । सर्वत्रासौसमस्तं च वसत्यत्रेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठ्यतेइति हि स्मृतिः । ईशावास्यमित्येकं पदं वा । ईशेनावास्यं, ईश्वरपरतन्त्रमित्यर्थः । विद्यास्तुत्युपपत्तये विद्याप्रकरणादित्युक्तम् ।अथ कथं कर्मानुष्ठानानुमत्या विद्यास्तुतिरित्यत्रोपपादयति - विद्यामाहात्म्यादितिकुर्वन्नेवेह कर्माणीत्यत्र न विद्यांगकर्मानुष्ठानप्रतिपादनेनविद्यास्तुतिर्भवति । अंगानुष्ठानवचनेनांगिस्तुत्यनुपपत्तेः ।अपि च न कर्म लिप्यते नरे इति वाक्यशेषोक्तलेपकत्वाभावस्य विद्यांगकर्मणांसंभवे हि विद्यास्तवो युक्तः । तदेव न संभवति, तादृशकर्मणामलेपकत्वे तदनुष्ठानेप्रवृत्तेरेवासंभवात् । विद्यानिष्पादनार्थं हि विद्यांगं कर्मानुष्ठीयतेतस्य विद्यानिष्पादनरूप कार्यलेपकत्वाभावेतदर्थानुष्ठानस्यैवासंभवात्अतः विद्यांगकर्मणां विद्यानिष्पादनरूप फललेपकत्वेन न कर्मलिष्यतइत्य संगतं स्यात् ।न चांग्युपकाररूपांगफलस्य लेपेपि विदुषोऽनिष्ट स्वर्गाद्यर्वाचीन फललेपाभाव एव तत्र प्रतिपाद्यते इति नदोषः इति वाच्यम् । विद्यायाः अनभिसंहितफलानां कर्मणामेवांगत्वेनतादृशकर्मानुष्ठाने फलाभावस्यर्थ सिद्धत्वेन तदनूक्त्ययोगात् ।अतः नित्यनैमित्तिककाम्यभेदेन विभक्तेषु विद्यांगभूत कर्मसु काम्यकर्मणिकतिपयैरेव काम्यकर्मभिः विद्यापेक्षितार्थसिद्धेः अन्येषांषुद्धिपूर्वकाणांकाम्यकर्मणां प्रामादिकानां अनपेक्षित फलानां यादृच्छिकसुकृतानांच ब्रह्मविदि अभ्लेषावश्यकत्वेन न कर्मलिप्यते नरे इत्यत्र कर्मशब्दस्तादृशकर्मपरः। अयमर्थ एव हि इतरस्याप्यवमसंश्लेषः पातेतु इत्त्रवक्ष्यतेनन्वस्तु तेषामसंश्लेषः, अथापि विद्यास्तुतिः कथमिति चेत् शृणुकश्चित्तु, नाभुक्तं क्षीयते कर्म इत्युक्त प्रमाणानुरोधेनोक्तकर्मणां फलानुभवावश्यकतया न झटिति विद्याफल प्राप्तिः स्यात् ।उक्तानि च कर्माणि स्वयमापतन्ति बध्नीयुः इति मन्यते । तं प्रति - तानिकर्माणि नैव क्रियन्ते चेन्न किंचित्, यदि क्रियन्ते, अथापि न भेतव्यंविद्यामाहात्म्येन तेषामश्लेषात् इत्यनेन मन्त्रेणोपदेशात् विद्यास्तुत्युपपत्तेःअत एव “सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति भाषितम्अत्रहि ब्रह्मविदा सर्वदाकर्मानुष्ठानेपि, कतिपयैरेव कर्मभिःविद्यायाः अपेक्षितार्थस्यसिद्धत्वेनान्यकर्मभिः विद्याफलप्रतिबन्धःस्यादिति न भेतव्यं, विद्यामाहात्म्यादेवतेषामसंश्लेषात् इति कर्मानुष्ठानानुमतिरेवप्रतीयते इतिअतः पूर्वमन्त्रे विद्यांग कर्ममात्र ग्रहणं विवक्षितम् ।अत्र तुविद्यांगकर्मस्वनपोक्षितकर्मणांयादृच्छिक सुकृतानुषंगिक कर्मादीनांच विवक्षणमिति विवेकः।यद्वाप्रामादिकनिषद्धपरः ।ब्रह्मविद्यानिष्टेहि निषिद्धं तत् नलिप्यतेतदितरस्मिंस्तु प्रामादिकमपि फल जनकम् । एवंस्तुतिप्रकारं वाक्यशेषेणोपपादयतिनरे, न रमते इति नरः निस्संग इत्यर्थः । ब्रह्मविदि त्वयि, एवमितोऽन्यथान कर्मलिप्यते इतीतो अन्यथा नास्तीत्यर्थः । इदमेव तत्त्वमित्यर्थः ।।
उत्तरसूत्रं व्याचष्टे - अपि चेति । किं प्रजयेति । एवद्धस्मवै विद्वांसःप्रजा न कामयन्ते, इति पूर्ववाक्यम् ।प्रजया किं करिष्याम इति विद्वांसःप्रजां न कामयन्ते इत्यर्थः किमनेन दर्शितं भवतीत्यत्राह - विदुषोविरक्तस्येति । गार्हस्थ्यत्याग इति । प्रजाशब्देन गार्ह्स्थ्यंनिर्दिष्टमिति भावः । कर्मणोऽङ्गित्वेचाङ्गाङ्गिनोर्मध्ये अंगिनःप्रधानत्वात् अंगमवलम्ब्य अंगित्यागोऽयुक्तः इति भावः । अस्माकंतु फलद्वारा कर्मणस्त्याज्यत्व मिष्टमिति पूर्वमेवोक्तमिति न दोषःनेदं सूत्रं सन्यासिविषयम् । “ऊर्ध्वरेतस्सुच शब्दे हि” इति पृथगुक्तेःफलान्तरविरक्त काम्यकर्मत्याग पर गृहस्थविषयम् । गार्हस्थ्यकर्मत्यागस्यैवोक्तत्वात्गृहस्थ एव सन् काम्यकर्म त्यजति । अतोस्यांगित्वं अनुपपन्नमितिभावः । येषां नोऽयमात्मा इत्यादिना भगवतः सर्वविधबन्धुत्वं अन्येषामाभासबन्धुत्वं चोपपादितं भवति । अतः आभासप्रजादिभिः किमस्माकं फलमितिश्रुतेराशयः । नन्वत्र ब्रह्मज्ञानवतां कर्मत्यागोक्तेः दग्धाखिलाधिकारत्वात्ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूर्ध्नि नैव स्यात् वेदकिंकरःइति अद्वैतिमतमेवोक्तं भवति इति चेन्न ।। भगवतः सर्वविधबन्धुत्वोक्तेःतन्मतवैलक्षण्यात् । “यज्ञेन दानेन’ इति अंगत्वबोधनात् कर्मणाम् । अथनिष्कामकर्मतात्पर्यावश्यकत्वमितिन क्षतिः ।। यद्यपि अविशेषादिति सूत्रमेव पर्याप्तम् । नवा - अधिकमेवसिद्धान्तारम्भे न तु वा इत्यादि प्रयोग पक्षान्तरव्यावृत्यर्थमावश्यकः । सिद्धान्तसूत्र मध्ये एवंप्रयोगः नात्यावश्यकः । नूतनशंकायदि मध्ये जायेत, तदा तन्निवारणार्थमेव प्रयोगो युक्तः । अत्रतु सापि शंका नास्ति । तथापि “कुर्वन्नेवेह कर्माणि इति श्रुतिवाक्यस्यार्थद्वयबोधानात्उभयविद्यशंकायाः प्रस्तावावश्यकत्वात् तदाशंकापरिहार्थं प्रथमं नञ्पदं प्रयुक्तम् । द्वितीयशंकानिवृत्त्यर्थं “अनुमतिर्वा इति वापदं प्रयुक्तम् ।वस्तुतः गार्हस्थ्याश्रमत्यागेपि अन्याश्रमस्वीकारावश्यकत्वेनतत्तदुचित धर्माणामेवांगत्वमिति गार्हस्थ्याश्रमत्यागेऽपि न दोषः ।।
उत्तरसूत्रार्थमाह - पुण्यापुण्येति । अपुण्यरूपस्य कर्मणः ब्रह्मविद्ययोपमर्दोऽभिमतपर्यवसायी स्यादिति पुण्यस्याप्यन्तर्भावः कृतः । स्वमते मुमुक्षुं प्रतिपुण्यापुण्यकर्मणोरविशेषेणानिष्टत्वमालोच्य समस्तसांसारिकदुःखमूलस्येत्युक्तम् ।यद्वा दुःखशब्दः सुखस्याप्युपलक्षकः । उपमर्दो नाशः ।। ब्रह्मविद्याफलभूतब्रह्मानुभवप्रतिबन्धकाविद्याख्यकर्मोपमर्दस्य क्वचिदनुक्तत्वेपिसर्वशाखाप्रत्ययन्यायेन स्वमतेऽर्थसिद्धत्वमभिसन्धाय - प्रतिवेदान्तमित्युक्तम्इत्यादिकं = इत्याद्युक्तमित्यर्थः । अर्थप्रधानोऽयं निर्देशः, इत्याद्युक्तंब्रह्मविद्यया कर्मण उपमर्दमधीयत इत्यन्वयः । यद्वा इत्यादिकं वेदान्तवाक्यंब्रह्मविद्यया कर्मणः उपमर्दं प्रतिपादयति इत्यध्याहारेण योजना । ततःकिमित्यत्राह तद्विद्याया इति । अङ्गेनाङ्ग्युपमर्दायोगात् उपमर्दिकायाःविद्यायाः उपमर्दनीयकर्माङ्गत्वमयुक्तमिति भावः ।।ननु अङ्गिनाप्यङ्गोपमर्दोऽनुपपन्न इति कर्मणोऽपि ब्रह्मविद्यांगत्वंभवदभिमतं न सेत्स्यति । मैवम् । ब्रह्मविद्यया हि अनिष्टं कर्म ह्युपमर्द्यते,न त्वङ्गभूतम् । अंगभूतकर्मणः ब्रह्मविद्यानिष्पादनद्वारा स्वतएव चरितार्थत्वात् । भवतां तु कर्मण एवाङ्गित्वेन विलक्षणफलजनकत्वात्नाङ्गभूतविद्ययाऽङ्गिनः उपमर्दः युक्तः इति ।।
अपेक्षितपदाध्याहेरेण ऊर्ध्वरेतस्सु चेति खण्डस्यार्थमाह - ऊर्ध्वरेतस्स्विति ।ऊर्ध्वरेतस्सु = ब्रह्मचर्यवानप्रस्थसन्यासरूपेष्वित्यर्थः । न विद्याकर्मांगमिति । अङ्गिनं विहायाङ्गानुष्ठानायोगात् विद्यायाश्चांङ्गत्वेकथमङ्गिभूतयज्ञाद्यभावेपि विद्यानुष्ठानम् । अतो नाङ्गत्वमिति भावः ।उत्तरखण्डभवतारयति - नन्विति । यावज्जीवाधिकारश्रुतेरिति । यावज्जीवमग्निहोत्रंजुहोतीत्यादिभिः अग्निहोत्रादीनां यावज्जीवानुष्ठेयत्वं प्रतिपाद्यते । यदिसन्यासाद्याश्रमाः इष्येरन् तेषां चाग्निहोत्राद्यभावेन जीवननिमित्ताग्निहोत्रविलोपप्रसंगेन श्रुतिव्याकोपः स्यादिति भावः ।ननु स्मृतिबलात्तदाश्रमस्वीकार इष्यत इत्यत्राह - श्रुतिविरुद्धानामिति ।ननु सन्यासाश्रमस्वीकारेपि न बाधकं, अग्निहोत्रादिकर्मणामप्युक्तश्रुतिबलेनैवतदाश्रमनिष्ठानामपि स्वीकारादिति चेन्न । तर्हि सन्यासस्यैवासंभवात् । स्मृत्याहि सन्यासाद्याश्रमाः इष्यन्ते, तर्हि तत्रैवाग्निहोत्रादिकर्मसद्भावोपि तेषांप्रतिपादितः इति तदपि भवद्भिः स्वीकर्तव्यमेव । अतः स्मृतिबोधिताग्निहोत्रादिकर्मसद्भावस्वीकारापेक्षया सन्यासाद्यश्रमास्वीकरणमेव वरम् । यावज्जीवश्रुतिश्चोपपादिता भवतीत्याशयः । त्रय इति । त्रयो धर्मस्कन्धाः,यज्ञोऽध्ययनं दानमिति प्रथमः । तप एव द्वितीयः ब्रह्मचार्याचार्यकुलवासीतृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयेत् सर्व एते पुण्यलोकाभवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति इति श्रूयते । धर्मस्कन्धाः = धर्माश्रयाःआश्रमाः त्रय इत्यर्थः । यज्ञाध्ययनदानादिधर्माश्रयः गृहस्थाश्रमःप्रथमः । वानप्रस्थसन्यासाश्रमद्वयं द्वितीयम् । तपश्शब्दबोधित कायक्लेशप्रधानत्वात्तदाश्रमद्वयस्यब्रह्मचर्याश्रमस्तृतीयः । ब्रह्मचर्यं च वेदाध्ययनाय गुरुकुलवासःउक्ताश्रमेषु केवलाश्रमधर्मनिष्ठाः तत्तत्पुण्यलोकान्प्राप्य तत्तत्सुकृतफलमनुभवन्ति । ये तु उक्ताश्रमिषु ब्रह्मविद्यानिष्ठाः ते तु मुक्तिं प्राप्तुवन्तिइति श्रुत्यर्थः । विवरिष्यते चानुपदमेव भाष्यकृद्भिः । ये चेमे इति ।श्रद्धापूर्वकतपःशब्दबोधित ब्रह्मोपासकाः वानप्रस्थसन्यासाश्रमनिष्ठा एवेति भावःअतः श्रुतावेव तेषामप्याश्रमाणामुक्तेः न तदसत्त्वापादनं युक्तमिति भावः ।तर्हि यावज्जीवश्रुतिर्विरुध्यते इत्यत्राह - यावदिति । वचनद्वयमपि श्रुतित्वेनप्रमाणतमम् । अतो विषयभेदेन व्यवस्थाप्यमिति न विरोधगन्धोऽपीति भावः ।।
अथाश्रमान्तरानंगीकर्तृजैमिनिमतप्रदर्शकमुत्तरसूत्रं व्याचष्टे - यदिदमिति ।कुतो नोपपद्यते इत्यत्राह - यत इति । कुतोऽनुवादरूपत्वमिति हेत्वाकांक्षयापृच्छति - कुत एतदिति । समाधत्ते - अचोदनादिति । चोदनायाः अभावादित्यर्थः ।अविधानमेवोपपादयति - न ह्यत्रेति । विधिशब्दः = विधिवाचकशब्दः ।ननु विधिशब्दाश्रवेणेपि कल्प्यते इत्यत्राह - त्रयो धर्मस्कन्धा इत्यादिनेति ।पूर्वप्रस्तुतप्रणवकरणकब्रह्मोपासनस्तुत्यर्थ तयापि तदुपपत्तेः संभवेनान्यथासिद्धत्वात् न कल्पनं युक्तमिति भावः । ननु स्तुतिपरतयैवोपत्तिरित्यत्रकिं बीजमित्यत्राह - ब्रह्मसंस्थ इति । पूर्वत्र ब्रह्मोपासनं प्रकृतम् ।उपसंहारे च तत्फलमभिहितम् । अतो मध्येऽन्यविधिकल्पनमयुक्तम् । महावाक्यभंगप्रसंगात् । अतः उपक्रमोपसंहारानुगुण्येन मध्यगतस्यास्य वाक्यस्य पूर्वापरवाक्यप्रतिपाद्यार्थोपयोग्यर्थपरत्वमेवाश्रयणीयम् । तच्च स्तुतिपरत्वाभ्युपगमे एवेतिभावः । स्तुतिपरत्वमेव कथमित्यत्र तदुपपादयन्नुपसंहरति - अत इति । अन्यार्थं =प्रणवकरणक ब्रह्मोपासनार्थम् ।अयं भावः - प्रणवेन ब्रह्मोपासनं हि पूर्वप्रकृतम् । सन्यासाद्यश्रमनिष्ठानांतु प्रणव एव विशेषत उपादेयः । अतः अतिपूज्यानां सन्यासाद्यश्रमनिष्ठानांविशेषतः अवश्योपदेयत्वात्प्रणवस्य, तादृशप्रणवेन ब्रह्मोपासनं अवश्यंफलदायीति प्रणवकरणकब्रह्मोपासनं स्तुतं भवति ।अत एवं विधस्तुतिकरणाय सन्यासाद्याश्रमस्यानुवादः क्रियते । नहितदाश्रमानुवादमन्तरा एवंविधा स्तुतिर्भवितुमर्हतीति । कथमत्र स्तुतिरितिचेत् एवं ब्रह्मोपासकेन विरक्तेन भाव्यम् । यतः स मुमुक्षुः इतरसुखादिष्वलग्नमनाःसर्वविधयोगेष्वपि रागं विना स्थितश्चेत् तेन ब्रह्मप्राप्तिःसुकरा । सन्यासी कश्चन स्थितश्चेत् स यथा विरक्तो भवेत् तथाऽनेनोपासकेनमुमुक्षुणा भवितव्यम् । तादृश एव ब्रह्मसंस्थः अमृतत्वं प्राप्नुयात् ।अभूतोपमा इति कश्चनोपमाविशेषः काव्येषु प्रस्तूयते । स इह भाव्यः ।एकदैव चन्द्रसूर्ययोः उदये पद्मं विकसितं मुकुलितं च न भवति ।तादृशपद्म सदृशं भगवतो नयनमित्यत्युपमा क्रियते । तथा इहापि ।।श्रुत्यन्तरमप्यन्यथयति - येचेमे इति।देवयानविधिपरत्वादिति। तेऽर्चिषमभिसंभवन्तिइति ह्युपरि श्रूयते । अतः श्रद्धापूर्वकतपः शब्दनिर्दिष्ट ब्रह्मोपासकानांदेवयानेन पथा गमनमित्येतत्प्रतिपादनेदंपरमेव तद्वाक्यम् ।इति निर्देशस्तुतत्रैवोपासने श्रद्धा स्यादिति सूचनाय, विजने एव हि ब्रह्मोपासनंसुकशम्अत एव श्रद्धाशब्दसार्थक्यमपि । अतस्तद्वाक्यस्यान्यत्र विधानतात्पर्यात्आश्रभान्तरविधान तात्पर्या भावात् तात्पर्य सत्वेपि विधिशब्दाभावाच्चनाश्रमान्तर प्रतिपादकत्वमपि तद्वचन स्येति भावःएतमेव प्रव्राजिनो लोकमिच्छन्त इत्यत्रापि प्रव्राजिनः इत्यनुवादःब्रह्मलोक माहात्म्य प्रतिपादनायैवेतिच भावः । अस्तु कथंचिदुक्तस्थलेषुविधिकल्पकसद्भावः । अथापि कल्पनं तु न संभवन्ति । गृहस्थाश्रमधर्मत्यागेप्रत्यवायश्रवेणनाश्रमान्तराणां निषिद्धत्वादित्याशयेनोत्तरखण्डमाह - अपिचेति । उपसंहरति - अत इति ।।
उत्तरसूत्रेण स्वाभिप्रायं व्याचष्टे - गृहस्थेति । गृहस्थस्याश्रमः गृहस्थधर्मइत्यर्थः । आश्रमान्तराणामप्युपादेयत्वसिध्यर्थं साम्यप्रतियोगिनि उपादेयतयाऽभिमतगृहस्थाश्रमसाम्यमेव सूत्रकृदभिमतं प्रकारद्वयेनोपपादयति - त्रय इति ।इतरेषां च समानमिति । त्रयो धर्मस्कन्धाः इत्यत्र कस्यचिदाश्रमस्य विधिःकस्यचिदनुवादः इति न युक्तम् । वाक्यस्यातद्रूपत्वात् । अतः सर्वेषामनुवादःसर्वेषां विधिरिति वाऽऽश्रयणीयम् । तत्र सर्वाश्रमाणामपि विध्यभ्युपगमेसन्यासाद्याश्रमस्यापि विधानमिति नाश्रमान्तरापलापो युक्तः । अनुवादाभ्युपगमेच किमर्थमनुवादकरणमित्यालोचने ब्रह्मसंस्थस्तुत्यर्थमेवेति वक्तव्यम् ।तत्तदाश्रमिणां केवलाश्रमधर्मनिष्ठानां तत्तत्पुण्यलोकप्राप्तिमात्रमितितदपेक्षया तेषामेव ब्रह्मसंस्थत्वे अमृतत्वप्राप्तिरिति विशेषात् ब्रह्मसंस्थस्तुतिर्हि युक्ता । ब्रह्मसंस्थोऽमृतत्वमेतीति ह्युत्तरत्र श्रूयते । अतोब्रह्मसंस्थस्तुत्यर्थतया संकीर्तनं सर्वाश्रमसाधारणमिति न विशेषः क्वचिदिति ।इतरेषामपि समानमिति प्रमाणान्तरप्राप्तिसाम्यस्योभयत्रावश्यकवादिति भावः ।अन्यत्राभिनिवेशादिति = गृहस्थाश्रमस्यैवान्यत्र प्रमाणान्तरप्राप्तावभिनिवेशमात्रमेव भवतां न तु विशेषयुक्तिरिति भावः ।ननूक्तप्रकरणे गार्हस्थ्यधर्माणामेव कीर्तनमस्ति, नच तपसः ब्रह्मचर्यस्यच आश्रम्यन्तरासाधारणस्य धर्मस्यापि कीर्तनमस्तीति वाच्यं, तयोर्गृहस्थसाधारणत्वेन तेनाश्रमान्तरग्रहणासंभवात् । तपश्शब्दबोधितकायक्लेशस्यब्रह्मचर्यशब्दबोधितस्य वेदाध्ययनस्य च गृहस्थे संभवात् । अतो नाश्रमान्तरप्रतीतिरस्तीत्याशंक्य परिहरति - नचेत्यादिना । विभागवचनानुपपत्तेरिति । यद्यप्युक्तरीत्या गृहस्थधर्मास्ते इति वक्तुं शक्यम् । अथापि, त्रयो धर्मस्कन्धाःइति धर्माश्रयाणामाश्रमाणां त्रित्वेन संग्रहणं बाधितं भवति, आश्रमैक्यांगीकर्तुःअत एव हि “यज्ञोऽध्ययनं दानमिति प्रथम इति कस्यचिदाश्रमस्य, तपएव द्वितीय इति आश्रमान्तरस्य, ब्रह्मचार्याचार्यकुलवासी तृतीयः इति,अन्याश्रमस्य च विभज्य निर्देशः उपपद्यते । तस्मात् न गृहस्थाश्रममात्रस्यात्रसंकीर्तनमित्यकामेनाप्यभ्युपेयमितिभावः । अथ विभज्याश्रमान्तराणामपि प्रतीतिमुपपादयति - अत इति ।ननु तपः शब्देनाश्रमद्वयप्रतीतिः कथं, तथा प्रतीत्यभ्युपगमेपिकथं वा त्रयो धर्मस्कन्धाः इति त्रित्वेन संग्रहणम् इत्याद्याशंकापरिहारं मनसि निधायाह - उभयोरिति । वैखानसपारिव्रज्ययोराश्रमयोः तपःप्रधानत्वात् तपश्शब्देनाश्रमद्वयप्रतीतिर्युक्तैव । तपःप्रधानत्वरूपधर्मस्योभयानुगतत्वेन त्रित्वेन संग्रहणमपि नानुपपन्नमिति भावः ।एतेन तपः शब्दबोधितधर्मस्य गृहस्थसाधारणत्वमपि नास्तीति दर्शितम् ।गृहस्थानां तपः प्रधानत्वाभावात् ।। अथ तपःप्रधानत्वमेव तपःशब्दार्थनिरूपणद्वाराउभयोरुपपादयति - तपःशब्दो हीति । ब्रह्मचारिशब्देन लब्धमर्थमवलम्ब्यब्रह्मचर्यशब्देनेत्युक्तम् ।अथ व्याख्यानान्तरव्यावृत्त्यर्थं ब्रह्मसंस्थशब्दस्य स्वयमर्थमाह - ब्रह्मसंस्थइति । यौगिकः सर्वाश्रमसाधारण इति । परे हि यज्ञ इत्यादिना गृहस्थाश्रमस्यतपःशब्देन वानप्रस्थस्य ब्रह्मचर्यशब्देन ब्रह्मचारिधर्मस्य रूढेनब्रह्मसंस्थशब्देन च सन्याश्रमस्य च ग्रहणमिति वदन्ति । तच्च नयुक्तम् । तथा सति आश्रमचतुष्टयस्य निर्देशात्, पूर्वं त्रयो धर्मस्कन्धाःइति त्रित्वेन संग्रहणमनुपपन्नं स्यात् । एवं, आचार्यकुलवासीतृतीय इत्यनन्तरं “सर्व एते पुण्यलोका भवन्ती"ति केवलाश्रमधर्मनिष्ठानां केवल पुण्यलोक प्राप्तिमभिधाय, “ब्रह्मसंस्थोऽमृतत्वमेतीति तेषु तत्तदाश्रमधर्मनिष्ठेषु ब्रह्मसंस्थस्तु मोक्षंप्राप्नोतीत्युक्तेः ब्रह्मसंस्थशब्दस्य सर्वाश्रमसाधारणत्वावश्यकत्वाच्च ।नच योगाद्रूढिर्बलीयसीति न्यायस्यावकाशः । असति बाधके एव तस्यप्रवृत्तेः बाधकस्य चोक्तत्वात् इति भावः । ननु ब्रह्मसंस्थशब्दस्यसर्वाश्रमसाधारणत्वे ह्येवमुपपादनसंभवः तदेव कथमित्यत्र तदर्थकथनेनतदुपपादयति - सर्वेषामित्यादिना । अथ परमते पूर्ववाक्यपर्यालोचनेऽर्थानुपपत्तिं,स्वमते तदुपपत्तिं च मनसि निधाय पूर्ववाक्येनास्यार्थमाह - ब्रह्मनिष्ठाविकलाइति । अथ स्वोक्तार्थे भगवत्पराशरसंमतिं दर्शयति - तदेतदिति ।अभिदधता पराशरेण विस्पष्टमुक्तमित्यन्वयः । अथाश्रमान्तराणामपिगृहस्थाश्रमवत्प्रामाणिकत्वेनानुष्ठेयत्वमुपसंहरति अत इति ।अथ ये चेमेऽरण्ये इत्यस्य पूर्वपक्षिणोक्तं देवयानविधिपरत्वमुपजीव्यापिआश्रमान्तरप्राप्तिमुपपादयति - ये चेति । तपःप्रधानाश्रमसापेक्षत्वात्देवयानविधानस्येति । अयं भावः - यद्यपि देवयानेन पथा गमनमेव विधीयते, अथापिकेषामित्यपेक्षायां ये चेमे इति वाक्यं संबध्यते । तत्र च तपःशब्दो निर्दिष्टः ।स च कायक्लेशार्थवाची । ततश्च तपःशब्दबोधितकायक्लेशं कुर्वतां ब्रह्मोपासकानांदेवयानविधिरित्यभ्युपगन्तव्यम् । तथा च तादृशोपासकाः वानप्रस्थपारिव्रज्याश्रमनिष्ठा एवेति तदाश्रमानुवादस्यावश्यकत्वेनानुवादस्य च प्रमाणान्तरसापेक्षत्वनियमेन तपःप्रधानाश्रमद्वयप्राप्तिरवश्यमभ्युगमनीयैवेति भावः ।यद्यप्यत्रत्य तपश्शब्दः ब्रह्मपर इति अनियमाधिकरणे प्रतिपादितम्,अथाप्युक्तार्थाभ्युपगमेपि न बाधकमित्याशयेनैवमत्रोक्तिः । अतएवारण्ये इति पदमपि स्वरसमिति बोध्यम् ।।
अथोक्तार्थानुवादेन वक्ष्यमाणार्थं संगृह्योत्तरसूत्रमवतारयति - परामर्शेति । दिष्टाग्निहोत्रे = मृताग्निहोत्रे इत्यर्थः । अधस्तात् धारयन्नानुद्रवेदित्युक्त्या कथंचित् अधस्तात् धारणस्य प्राप्तिस्सुवचेत्याशयेन - उपरिधारणस्याप्राप्तत्वादित्युक्तम्दृष्टान्ते एवंविध्याश्रयणं - पूर्वतन्त्रसिद्धमित्याह - तदुक्तमिति । मृतकर्मणि स्रुक्पात्रस्य अधस्तात् समिधं धारयन् उपसर्पेत् इत्यर्थः । ननु हविषः उपरि समिधो धारणं कुतो नास्तीत्यत्राह - उपरि हीति । देवकर्मण्येव उपरि समिद्धारणमिति भावः । अत्र हिशब्दात् वर्तमाननिर्देशाच्चानुवादरूपत्वपूर्वपक्षः । अप्राप्तत्वाद्विधिरिति राद्धान्तः । एवमाश्रमान्तरविधानस्पष्टश्रुतिसिद्धत्वेनैवमुपपादनं किमर्थमित्यत्र कृत्वाचिन्तयैवमुपपादितमिति ब्रुवन् तादृशश्रुतिं स्वयमुपादत्ते - ब्रह्मचर्यमिति । नन्वाश्रमान्तरस्वीकारे ऋणश्रुत्यादीनां व्याकोपस्स्यादित्यत्राह - एवमिति । ऋणश्रुतिः = त्रिभिः ऋणवान्जायते इति । ऋषिदेवपितृऋणवान् जायते इत्यर्थः । यावज्जीवश्रुतिः = यावज्जीवमग्निहोत्रं जुहोतीत्यादिः । अपवादश्रुतिः = वीरहा वा इत्यादिश्रुतिः । उक्तश्रुतयः अविरक्तविषया एव वेदितव्याः इतीत्यन्वयः । इति शब्दः उक्तार्थसमाप्तौ । अन्याश्चेति । “स खल्वेवं वर्तयन्नित्यादिकाः तत्तदाश्रमधर्माणामंगत्वसूचनाय ब्रह्मविद इत्युक्तम् । आश्रमविशेषधर्मानुवृत्तिपरा उक्ताः श्रुतयः तत्तदाश्रमिणां तत्तद्धर्मानुवृत्तिपरा एव नतु आश्रमान्तरधर्माणां ब्रह्मविद्यांगत्वविरोधिन्य इति भावः ।अधिकरणार्थमुपसंहरति - अत इति । उक्तरीत्या सन्यासाद्याश्रमस्यापि प्रामाणिकत्वात् तत्र च ब्रह्मविद्यादर्शनात् यज्ञादिकर्मणां भावाच्च विद्यायाः कर्मांगत्वे कर्मपरित्यागेन ब्रह्मविद्यानुष्ठानासंभवेन न ब्रह्मविद्यायाः कर्मांगत्वमिति विद्यायाः पृथक्फलसाधनत्वं सिद्धमिति,विद्यात एव पुरुषार्थ इत्याशयः ॥ पुरुषार्थाधिकरणं समाप्तम् ॥