32 प्रदानाधिकरणम्

(3.03.018) प्रदानाधिकरणम्कामाद्यधिकरणे दहरविद्ययोरैक्यं स्थापितं तदनन्तराधिकरणंप्रसंगादायातम् । अधुना पूर्वप्रस्तुतदहर विद्याविषय एव कश्चिन्निरुप्यतेइति संगतिः ।। अत संशयास्पदं विषयमाह - दहरेति ।पृथमुपासनं विहितमिति।एतांश्च सत्यान्कामानित्यत्र चशब्दवणात् आत्मानमनुविद्येत्यत्रोक्तस्यानुविद्यइत्यस्यात्रापि संबन्धेन स्वरूपोपासनं गुणोपासनं च पृथगेव विहितमित्यर्थःनन्वस्तु गुणोपासनस्य पृथग्विधानं, तद्विद्यानिष्टैः विधान बलेनगुणोपासनमपि पृथक् क्रियतां नाम । कोत्र विचारणीयो विषयः इत्यत्राह - तत्रसंशयःइति । यद्यपि पृथगुपासन विधानात् आनन्दत्वादिविशिष्टस्वरूपचिन्तनंअपहतपाप्मत्वादि गुणचिन्तनं च पृथॅगेव कार्यं अथापि अपहतपाप्मत्वादिगुणचिन्तनेतद्गुणविशिष्टतया स्वरूपचिन्तनस्याप्यावृत्तिः कर्तव्या उत नेति संशयःइति भावः । सकृदेव = तन्त्रेणेत्यर्थः । अयमाशयः - धर्म्युपासनार्थं धर्म्युपादानेकृते तदुपजीवननादेव धर्मोपासनस्यापि सिध्या न धर्मोपासनार्थं पुनर्धम्युपादानंकर्तव्यं, पूर्वोपात्तधर्म्युपादानेनैवोत्तरोपासनेपि धर्मिसिद्धेरिति ।सिद्धान्तमाह - इति प्राप्ते इति । प्रदानवदित्युक्तप्रदानस्यान्वयिदृष्टान्तत्वमभिप्रेत्यआवर्तनीयमेवेत्युक्तम् । प्रदानस्यावृर्त्तिहि तदधिकरणे प्रतिपादिताशंकितमर्थ मनूद्य परिहरति - यद्यपीत्यादिना ।स्वरूपमात्रात् गुणविशिष्टाकारस्यभिन्नत्वादिति। गुणाविशेषितपरमात्मस्वरूपचिन्तने तद्विशेषित परमात्मस्वरूपचिन्तनेचेत्त्यास्याकारस्य परस्परं भिन्नत्वादित्यर्थः ।गुणविशिष्टतयाचोपास्यत्वेन विहितत्वादिति। अपहतपाप्मा विजरो विमृत्युरित्याद्युक्तापहतपाप्मादिशब्दानां गुणिपर्यन्ताभिधायित्वात् एतांश्च सत्यान् कामानित्यत्रापिगुणिपर्यन्तानामेवगुणानामुपासनं विहितमित्यवगमात् गुणविशिष्टतया चोपास्यत्वविधानसिद्धिरितिभावःप्रदानवदित्यंशं व्याचष्टे - यथेति । हविरुदेश्यस्येद्रस्येकत्वेपिराजत्वाधिराजत्व स्वराद्त्वरूपोद्देश्यविशेषणाकारभेदेन हविष्प्रदानस्यावृत्तिःयथा क्रियते तथैवात्रापि उपास्याकारभेदेनापास्यभेदात् तच्चिन्तनावृत्तिरपियुक्तेत्यर्थः ।ननु शब्दात्मदेवतावादिनां इन्द्रादिशब्दापेक्षया राजत्वादिविशिष्टेन्द्रादिशब्दस्यभिन्नत्वेन प्रदानावृत्तेर्युक्तत्वेपि अत्र शब्दप्रतिपाद्यस्यैवदेवतात्वात् तस्मिन्ननेकविशेषणसमवायस्योपपत्तेः तस्यैव प्रीतस्यफलप्रदत्वाच्च देवताभेदाभावेन किमर्थं चिन्तनावृत्तिरितिचेत् उच्यतेनात्र शब्दप्रतिपाद्यदेवतायाः भिन्नत्वमुच्यते येनेयमाशंका स्यात्किंतु उपास्याकारस्य भिन्नत्वात् उपासनस्याप्यावृत्तिरावश्यकीतिब्रूमः । अत एवहि लौकिकार्थाकृतिलक्षणदेवतावादिनां तेषां मतेपिप्रदानावृत्तिर्युक्ता । वस्तुतः अपहतपाप्मेत्यादि वाक्यबलेन एतांश्चसत्यान् कामानित्यत्र गुणविशिष्टतयैवोपास्यत्वविधानावगमेन स्वरूपचिन्तानावृत्तेरावश्यकत्वसिद्धिश्चतदुक्तमिति खण्डं पूरयन्नाह - तदुक्तमिति ।नानावेति, द्रव्यभेदात्विशिष्टरूपदेवताभेदात्द्रव्यदेवतात्रयसंबन्धकल्प्ययागत्रयाणां भेदाच्चतत्तद्देवतोद्देशेन क्रमिकाणि प्रदानानि भवन्तीति सूत्रार्थः ।।नन्वपहतपाप्मेत्यादिनाप्रत्येकानुसान्धान मुक्तं, एतांश्च सत्यान्कामानित्यनेन मेलनानुसन्धान मुक्तम् । एवं चोभयथाऽनुसन्धानेपि गुणिनमन्तरेण गुणानुसन्धानासंभवात्ब्रह्मानुसन्धानस्य स्वत एव सिद्धेः गुण्यननुसन्धानाशंका कथं संगच्छतइति चेदत्राहुः - बुध्यारोहो गुणानां यदवधि गुणिनोरूपमर्थ्यं ततोऽन्यत्विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्ति चिन्ताप्रवृत्तेरितिअयं भावः - यद्यपि ब्रह्मस्वरूपानुसन्धानं स्वत एव सिध्यति अथापिसर्वविद्यासाधारणसत्यत्वादि व्यतिरिक्ततत्तद्विद्योविशेषनियत स्थानादिविशिष्ट ब्रह्मणः आवृत्तिरिति बोधनार्थं एवंचिन्तनं कृतमिति ।।इदमत्र तात्पर्यं - सत्यत्वज्ञानत्वादिविशिष्टो (ब्रह्म) दहराकाशःअपहतपाप्मत्वादिविशिष्टश्च, इत्येवानुसन्धानं कार्यमिति पूर्वपक्षीमन्यते,सिद्धान्ती तु अपहतपाप्मा विजर इत्येवमादि, अत्रोभयत्रापि स्वरूपानुसन्धानंसिद्ध्यतीति विशेषो नास्ति । अतः इदमधिकरण मनपेक्षितम्, नच सत्यत्वादिविशिष्टःदहराकाशः अपहतपाप्मत्वं सत्यसंकल्पत्वं इत्याकार भेदः पूर्व पक्ष्यभिमतःइति वाच्यम् विकल्पासहत्वात् - किमत्रोपासनैक्यं विवक्ष्यते उतोपासनद्वयं, प्रथमेःअनन्वयः द्वितीये पराभिमनिर्विकल्पकतौल्यं, नदि धर्मिणमन्तराधर्ममात्र भानमभ्युपगम्यतेनहि, घटोस्ति नैल्यमिति प्रतीतिर्युक्ता, न च ब्रह्मवृत्ति अपहतपाप्मत्वादिइत्यनुसन्धानं युज्यते - तथा सति विशेषणविधया ब्रह्मस्वरूपावृत्तेःअभ्युपगतत्वेनपूर्वपक्षस्यैवविलक्षणत्वापत्तेः । अत एव चिन्तामणौअपहतपाप्मत्वादि विशिष्टतयाऽनुसन्धानं मेलननुसन्धानमित्युक्तम्पपरिहारस्तु दहरविद्याशोधनव्याजेन सर्वविद्या शोधनार्थ मेवै तदधिकरणप्रवृत्तिः ।उपास्याकारभेदोहि विशेषणभेदे नात्र समर्थितः एवं चसर्वविद्यायामपि विशेषणभेदेनो पास्याकारभेदः विवक्षितः इति सर्वत्रतत्तद्विशेषणानुसन्धाने स्वरूपानु सन्धानं मपिकार्यम्यथा स्वरूपनिरूपकधर्मानुसन्धाने स्वरूप भानमर्थ्यं तथैव निरपितस्वरूपविशेषणानुसन्धानेपि विशेष्यतत्स्वरूपानुसन्धानं कर्तव्यं तत्तद्विशेषणानुसन्धानेपिस्वरूपमनुसन्धेयम् । दहरविद्यायां सत्यत्वादिविशिष्ट स्वरूपानुसन्धान पूर्वकापहतपाप्मत्वादि तत्तद्गुणविशिष्ट स्वरूपानु सन्धानं,अन्यत्र तत्तदिद्योदित गुणविशिष्टस्वरूपानुन्धान पूर्वकसत्वत्वादिविशिष्टस्वरूपानुसन्धानमिति भिदा ।। समाप्तं प्रदानाधिकरणम् ।।